| YouTube Channel

गरिमा (garimA)

 
Wordnet
Sanskrit
Synonyms:
गरिमा
noun
अष्टविधैश्वर्यमध्ये ऐश्वर्यविशेषः।
"गरिम्णा शरीरं गुरुतरं कर्तुं शक्यते।"
Synonyms:
भारः, उन्मानम्, मितिः, परिमाणम्, भारमितिः, तोलः, तुला, गुरुत्वम्, गुरुता, गौरवम्, गरिमा, भरः
noun
कस्यचित् वस्तुनः भारस्य परिमाणः।
"कति भारः अस्य वस्तुनः।"
Synonyms:
माहात्म्यम्, महत्ता, मूल्यम्, गौरवम्, गरिमा, महात्म्यम्
noun
तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता उपयोगिता वर्धते वा न्यूनीभवति।
"ज्ञानस्य माहात्म्यं स्थाने स्थाने ज्ञायते।"
Synonyms:
गरिमा, गौरवम्, महिमा, माहात्म्यम्
noun
महत्त्वपूर्णतायाः वर्धनस्य भावः।
"देशस्य गरिमा देशवासीनां दायित्वम्।"
शब्दकल्पद्रुमः
Sanskrit
गरिमा, [न्] त्रि, (“प्रियस्थिरस्किरोरुबहुल-गुरुवृद्धेति ।” १५७ इति गरादेशः ।पृथ्वादिभ्य इमनिज्वा ।” १२२ इतिइमनिच् ।) गुरुता इति व्याकरणम्
(यथा, भागवते २२ ।“गिरिं गरिम्ना परितः प्रकम्पयन्
निषेव्यमाणोऽलिकुलैर्मदाशनैः
”)