| YouTube Channel

गरदः (garadaH)

 
शब्दकल्पद्रुमः
Sanskrit
गरदः, त्रि, (गरं विषं ददातीति दा + कः ।)विषदानकर्त्ता (अयं हि आततायिनामन्यतमः ।अस्य हनने दण्डादिकं नास्ति ।) यथा, स्मृतिः ।“अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।”(अयं हि श्राद्धभोजने परिहर्त्तव्यः तथा चमनौ १५८ ।“आगारदाही गरदः कुण्डाशी सोमविक्रयी ।समुद्रयायी वन्दी तैलिकः कूटकारकः
”)