| YouTube Channel

गरं (garaM)

 
शब्दकल्पद्रुमः
Sanskrit
गरं,
क्ली,
(गिरति दोषबहुलं नाशयति स्वस्मिन्जातस्य बालकस्येति भावः + पचाद्यच् ।)ववाद्येकादशकरणान्तर्गतपञ्चमकरणम् इतिमेदिनी रे २२
(यथा, बृहत्संहिता-याम् ९९ ।“ववबालवकौलवतैतिलाख्यगरवणिजविष्टिसंज्ञानाम् ।”एतेषामधीशाः यथा, तत्रैव ९९ ४-५ ।“पतयः स्युरिन्द्रकमलज-मित्रार्य्यमभूश्रियः सयमाः
कृष्णचतुर्द्दश्यर्धाद् ध्रुवाणिशकुनिश्चतुष्पदं नागम् ।किन्तुघ्नमिति तेषांकलिवृषफणिमारुताः पतयः
”)तत्र जातस्य फलम् ।“विचारदक्षो विजितारिपक्षःशूरोऽतिधीरो मृदुहास्ययुक्तः ।दाता दयालुर्गु णवान्नरः स्याद्गरे परेषामुपकारकर्त्ता
”इति कोष्ठीप्रदीपः
(गरादेः फलं यथा, बृहत्संहितायाम् ९९ ।“कृषिबीजगृहाश्रयजानि गरेवणिजि ध्रुवकार्य्यवणिग्युतयः
”गीर्य्यते भक्ष्यते इति + कर्म्मण्यप् ।)विषम् (यथा, भागवते ४१ ।“तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे
”)वत्सनाभाख्यविषम् इति राजनिर्घण्टः
(सम्मोहजं विषम् इति माधवकरकृतरुग्वि-निञ्चयटीकाकृता श्रीकण्ठदत्तेनोदररोगव्याख्यानेउक्तम्
)