गया (gayA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishगया - gayA - - city gayA
जरासन्धपुर - jarAsandhapura - - city of gayA
बुद्धगया - buddhagayA - - Buddha's gayA
गयाशिखर - gayAzikhara - - mountain gaya near gayA
विष्णुपदतीर्थ - viSNupadatIrtha - - sacred place called gayA
षड्गया - SaDgayA - - six things beginning with gayA or ga
गयातीर्थ - gayAtIrtha - - gayA as a renowned place of pilgrimage
विष्णुपद - viSNupada - - mark of viSNu's foot worshipped at gayA
Monier Williams Cologne
Englishग॑या a (g. वरणादि) the city Gayā (famous place of pilgrimage in Behar and residence of the saint Gaya
309
sanctified by Viṣṇu as a tribute to the piety of Gaya, the Rājarṣi, or (according to another legend) to Gaya, the Asura, who was overwhelmed here with rocks by the gods
the Śrāddha should be performed once at least in the life of every Hindū to his progenitors at Gayā), i, 260
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiगया
- -
बिहार में एक नगर जो एक तीर्थस्थान है
Shabdartha Kaustubha
Kannadaगया
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗಯಾಕ್ಷೇತ್ರ /ಹಿಂದುಗಳ ಒಂದು ಪವಿತ್ರ ಯಾತ್ರಾಸ್ಥಳ
निष्पत्तिः - > "अच्" (५-२-१२७)
व्युत्पत्तिः - > गयो गयासुरः कारणत्वेनास्त्यस्याः
Wordnet
Sanskrit गया
गयराजर्षिपुरी
"यज्ञं चक्रे गयो राजा बह्वन्नम् बहुदक्षिणम्"[श.क]"
अभिधानचिन्तामणिः
Sanskritगया पूर्गयराजर्षेः कान्यकुब्जं महोदयम् ॥ ९७३ ॥
कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत् ।
गया (स्त्री), कान्यकुब्ज (स्त्रीक्ली), महोदय (स्त्रीक्ली), कन्याकुब्ज (स्त्रीक्ली), गाधिपुर (क्ली), कौश (क्ली), कुशस्थल (क्ली)
Mahabharata
EnglishGayā, a sacred place (the present Gayā). § 249 (Arjunavanavāsap.): I, 215, 7818 (visited by Arjuna).--§ 370 (Tīrthayātrāp.): III, 84, 8061 (tatrākshayavaṭo nāma trishu lokeshu viśrutaḥ), 8074, 8075 (eshṭavyā bahavaḥ putrā yady apy eko Gayāṃ vrajet | yajeta vāśvamedhena nīlaṃ vā vṛsham utsṛjet). --§ 377 (Dhaumyatīrthak.): III, 87, 8305 (do.).--§ 733s (Aśmapṛshṭha): XIII, 25, 1728.--§ 735 (Ānuśāsanik.): XIII, 29, 1917.--§ 749 (do.): XIII, 88, 4253 (b: eshṭavyā bahavaḥ putrā yady apy eko Gayāṃ vrajet|yatrāsau prathito lokeshvakshayyakaraṇo vaṭaḥ).--§ 766 (do.): XIII, 125, 5967.--§ 775 (do.): XIII, 166, 7655.
पुराणम्
Englishगया / GAYĀ. A particular locality in North india (Nepal). Here there is gaya mountain and a holy centre also. There is legend to the effect that buddha did tapas here. People of this locality gave many presents to yudhiṣṭhira. (Sabhā Parva, Chapter 52, Verse 16).
शब्दकल्पद्रुमः
Sanskritगया, (गयेन गयनाम्ना लोकप्रिसिद्धेना-सुरेण पुराणान्तरमतभेदेन तन्नाम्ना राजर्षिणावा निर्म्मिता ।) गयराजर्षिपुरी । इति हेम-चन्द्रः । ४ । ३९ ॥
सा तु तीर्थभेदः । तस्यनामकरणं यथा, --“यज्ञं चक्रे गयो राजा बह्वन्नं बहुदक्षिणम् ।यत्र द्रव्यसमूहानां संख्या कर्त्तु न शक्यते ॥
गयं विष्ण्वादयस्तृप्ता वरं ब्रूहीति चाब्रुवन् ।गयस्तान् प्रार्थयामास अभिशस्तास्तु ये पुरा ॥
ब्रह्मणा ते द्विजाः पूता भवन्तु क्रतुपूजिताः ।गयापुरी तु मन्नाम्ना ख्यातु ब्रह्मपुरी तथा ॥
एवमस्तु वरं दत्त्वा ततश्चान्तर्दधुः सुराः ॥
” * ॥
तस्योत्पत्तिकारणं यथा, --“गयासुरोऽसुराणाञ्च महाबलपराक्रमः ।योजनानां सपादञ्च शतं तस्योच्चयः स्मृतः ॥
स्थूलः षष्टिर्योजनानां श्रेष्ठोऽसौ वैष्णवः स्मृतः ।कोलाहले गिरिवरे तपस्तेपे सुदारुणम् ॥
बहुवर्षसहस्राणि निरुच्छ्वासः स्थिरोऽभवत् ।तत्तपस्तापिता देवाः संक्षोभं परमं गताः ॥
ब्रह्मलोकं गता देवाः प्रोवुस्तेऽथ पितामहम् ।गयासुराद्रक्ष देव ! ब्रह्मा देवांस्तथाब्रवीत् ॥
व्रजामः शङ्करं देवा ब्रह्माद्याश्च गताः शिवम् ।कैलासे चाब्रुवन्नत्वा रक्ष रक्ष महाऽसुरात् ॥
ब्रह्माद्यांश्चाब्रवीच्छम्भुर्व्रजामः शरणं हरिम् ।क्षीराब्धौ देवदेवेशः स नः श्रेयो विधास्यति ॥
ब्रह्मा महेश्वरो देवा विष्णुं नत्वा प्रतुष्टुवुः ।किमर्थमागता देवा विष्णुनोक्तास्तमब्रुवन् ॥
गयासुरभयाद्देव ! रक्षास्मानब्रवीद्धरिः ।ब्रह्माद्या यान्तु तं दैत्यञ्चागमिष्याम्यहं ततः ॥
” *“ऊचुस्तं वासुदेवाद्याः किमर्थं तप्यते त्वया ।सन्तुष्टाश्चागताः सर्व्वे वरं ब्रूहि गयासुर ! ॥
”“यदि तुष्टाः स्थ मे देवा ब्रह्मविष्णुमहेश्वराः ।सर्व्वदेवद्विजातिभ्यो यज्ञतीर्थशिलोच्चयात् ॥
मन्त्रेभ्यो देवदेवीभ्यो योगिभ्यश्चापि सर्व्वशः ।ज्ञातिभ्योऽतिपवित्रोऽहं पवित्रः स्यां सदा सुराः ॥
परित्रो भव तं देवा दैत्यमुक्त्वा ययुर्दिवम् ।दृष्ट्वा दैत्यं ततः स्पृष्ट्वा सर्व्वे हरिपुरं ययुः ॥
शून्ये लोकत्रये जाते शून्या यमपुरी ह्यभूत् ।यम इन्द्रादिभिः सार्द्धं ब्रह्मलोकं ततोऽगमत् ॥
ब्रह्माणमूचिरे देवा गयासुरविलोपिताः ।त्वया दत्तो योऽधिकारस्तं गृहाण पितामह ! ॥
ब्रह्माब्रवीत्ततो देवा व्रजामो विष्णुमव्ययम् ।ब्रह्मादयोऽब्रुवन् विष्णुं त्वया दत्तवरेऽसुरे ॥
तद्दर्शनाद्ययुः स्वर्गं शून्यं लोकत्रयं ह्यभूत् ।देवैरुक्तो वासुदेवो ब्रह्माणं स वचोऽब्रवीत् ॥
गत्वासुरं प्रार्थयस्व यज्ञार्थं देहि देहकम् ।विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यन्महासुरम् ॥
ब्रह्मोवाच ।पृथिव्यां यानि तीर्थानि दृष्टानि भ्रमता मया ।यज्ञार्थं न तु ते तानि पवित्राणि शरीरतः ॥
अतः पवित्रं देहं स्वं यज्ञार्थं देहि मेऽसुर ! ॥
गयासुर उवाच ।धन्योऽहं देवदेवेश ! यद्देहः प्रार्थ्यते त्वया ।त्वयैवोत्पादितो देहः पवित्रश्च त्वया कृतः ।सर्व्वेषामुपकाराय यागोऽवश्यं भवत्विति ॥
इत्युक्त्वा सोऽपतद्भूमौ श्वेतकल्पे गयासुरः ।नैरॄ तीं दिशमाश्रित्य तदा कोलाहले गिरौ ॥
शिरः कृत्वोत्तरे दैत्यः पादौ कृत्वा तु दक्षिणे ।ब्रह्मा सम्भृतसम्भारो मानसानृत्विजोऽसृजत् ॥
चलितश्चकितो ब्रह्मा धर्म्मराजमभाषत ।यास्ते गृहे तव शिला तामानीयात्र धारय ॥
दैत्यस्य शीघ्रं शिरसि तां धारय ममाज्ञया ।निश्चलार्थं यमः श्रुत्वा धारयन्मस्तके शिलाम् ॥
शिलायां धारितायान्तु सशिलश्चासुरोऽचलत् ।देवानूचेऽथ रुद्रादीन् शिलायां निश्चलाः किल ॥
तिष्ठन्तु देवाः सकलास्तथेत्युक्त्वा च ते स्थिताः ।देवाः पादैर्लक्षयित्वा तथापि चलितोऽसुरः ॥
ब्रह्माथ व्याकुलो विष्णुं गतः क्षीराब्धिशायिनम् ।अजमूचे हरिः कस्मादागतोऽसि वदस्व तत् ॥
ब्रह्मोवाच ।देवदेव ! कृते यागे प्रचचाल गयासुरः ।इदानीं निश्चलार्थं हि प्रसादं कुरु माधव ॥
ब्रह्मणो वचनं श्रुत्वा ह्याकृष्य स्वशरीरतः ।मूर्त्तिं ददौ निश्चलार्थं ब्रह्मणे भगवान् हरिः ॥
आनीय मूर्त्तिं ब्रह्मापि शिलायां समधारयत् ।तथापि चलितं वीक्ष्य पुनर्देवमिहाह्वयत् ॥
आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितो-ऽभवत् ।आद्यया गदया चासौ यस्माद्दैत्यः स्थिरीकृतः ॥
स्थित इत्येव हरिणा तस्मादादिगदाधरः ॥
” * ॥
“ऊचे गयासुरो देवान् किमर्थं वञ्चितो ह्यहम् ।यज्ञार्थं ब्रह्मणे दत्तं शरीरममलं मया ।पीड्यश्च यद्यहं देवाः प्रसन्नाः सन्तु सर्व्वदा ॥
”“वरं ब्रूहि प्रसन्नाः स्मो देवैरूचे गयासुरः ॥
”“यावत् पृथ्वी पर्व्वताश्च यावच्चन्द्रार्कतारकाः ।तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णुमहेश्वराः ॥
गदाधरः स्वयं लोकान् पूयात् सर्व्वाधनाशनः ।श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते ॥
”“किं बहूक्त्या सुरेशानां युष्माकमपि देवताः ।चेन्न, तिष्ठाम्यहं बापि समयः प्रतिपाल्यताम् ॥
”“त्वया यत् प्रार्थितं वीर ! तद्भविष्यत्यसंशयम् ।अस्मत्पादानर्च्चयित्वा यास्यन्ति परमां गतिम् ।देवैर्दत्तवरो दैत्यो हर्षितो निश्चलोऽभवत् ॥
”अथ गयाशिरआदिपरिमाणम् ।“नागाज्जनार्द्दनाद्ब्रह्मयूपाच्चोत्तरमानसात् ।एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥
पितामहं समासाद्य यावदुत्तरमानसम् ।फलगुतीर्थन्तु विज्ञेयं देवानामपि दुर्लभम् ॥
क्रौञ्चपादात् फल्गुतीर्थं यावत् साक्षाद्गयाशिरः ।मुखं गयासुरस्यैतत्तस्मात् श्राद्धमथाक्षयम् ॥
मुण्डपृष्ठाच्च पूर्व्वस्मिन् पश्चिमे दक्षिणोत्तरे ।श्राद्धे क्रोशद्वयं मानं गयायां ब्रह्मणेरितम् ॥
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ।तन्मध्ये सर्व्वतीर्थानि त्रैलोक्ये यानि सन्ति वै ॥
”अथ गयामाहात्म्यादि ।“गयायां न हि तत् स्थानं यत्र तीर्थं न विद्यते ।सान्निध्यं सर्व्वतीर्थानां गयातीर्थं ततो वरम् ॥
ब्रह्मज्ञानेन किं साध्यं गोग्रहे मरणेन किम् ।वासेन किं कुरुक्षेत्रे यदि पुत्त्रो गयां व्रजेत् ॥
श्राद्धकृद्यो गयाक्षेत्रे पितॄणामनृणोऽपि सः ।शिरसि श्राद्धकृद्यस्तु कुलानां शतमुद्धरेत् ॥
गयाशिरसि यः पिण्डान् येषां नाम्ना तु निर्व्वपेत् ।नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ॥
गत्वा बणिग्गयाशीर्षे प्रेतराजस्य पिण्डकम् ।प्रददौ मनुजैः सार्द्धं स्वपितृभ्यस्ततो ददौ ॥
प्रेताः प्रेतत्वनिर्म्मुक्ता बणिक् च गृहमागतः ।प्रेतराजः सह प्रेतैर्गयाश्राद्धाद्दिवं गतः ॥
” * ॥
“गयायां सर्व्वकालेषु पिण्डं दद्याद्बिचक्षणः ।अधिमासे जन्मदिने चास्तेऽपि गुरुशुक्रयोः ॥
न त्यक्तव्यं गयाश्राद्धं सिंहस्थेऽपि बृहस्पतौ ।तथा दैवप्रमादेन प्रवहत्सु व्रणेषु च ॥
पूतः कर्म्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ॥
मीने मेषे स्थिते सूर्य्ये कन्यायां कार्म्मुके घटे ।नारद ! त्रिषु लोकेषु गयाश्राद्धं सुदुर्लभम् ॥
” * ॥
“मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः ।वर्ज्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥
दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः ।दण्डं न्यस्य विष्णुपदे पितृभिः सह मुच्यते ॥
गयागजो गयादित्यो गायत्त्री च गदाधरः ।गया गयासुरश्चैव षड्गया मुक्तिदायिकाः ॥
”अथ पिण्डदानद्रव्याणि ।“पायसेनाथ चरुणा सक्तुना पिष्टकेन वा ।तण्डुलैः फलमूलाद्यैर्गयायां पिण्डपातनम् ॥
तिलकल्केन खण्डेन गुडेन सघृतेन वा ।केवलेनैव दध्ना वा अन्नेन मधुनाथवा ॥
पिन्याकं सघृतं खण्डं पितृभ्योऽक्षयमित्युत ॥
”अथ गयास्थब्राह्मणपूजाविधिः ।तत्रस्था ब्राह्मणा ब्रह्माणमूचुः ।“त्वया यद्दत्तमखिलं तत् सर्व्वं शापतो गतम् ।जीवनार्थं प्रसादं नो भगवन् ! कर्त्तुमर्हसि ॥
तन् श्रुत्वा ब्राह्मणान् ब्रह्मा प्रोवाचेदं दयान्वितः ।तीर्थोपजीविका यूयमाचन्द्रार्कं भविष्यथ ॥
लोकाः पुण्यगयायां ये श्राद्धिनो ब्रह्मलोकगाः ।युष्मान् ये पूजयिष्यन्ति तैरहं पूजितः सदा ॥
”अथ गयायां श्राद्धादिकरणार्थं तीर्थानि ।प्रथमदिने गयाप्रवेपो फल्गुतीर्थे स्नानतर्पण-श्राद्धानि १ प्रेतशिलायां ब्रह्मकुण्डे स्नानं श्राद्धंषोडशपिण्डदानं प्रेतपर्व्वते तिलमिश्रितसक्तु-निक्षेपश्च २ पञ्चतीर्थमध्ये उत्तरमानसे स्नानंसपिण्डकं श्राद्धं सूर्य्यार्च्चनञ्च ३ दक्षिणमानसेउदीव्यां उदीचीतीर्थे स्नानम् ४ तस्य मध्येकनखलतीर्थे स्नानम् ५ तस्य दक्षिणे दक्षिण-मानसे तीर्थत्रये स्नानं श्राद्धं सूर्य्यार्च्चनञ्च ६फल्गुतीर्थे स्नानं तर्पणं सपिण्डकं श्राद्धं ततोगदाधरस्य दर्शनं पूजनञ्च ७ ॥
द्वितीयदिनेधर्म्मारण्ये गमनं धर्म्मेश्वरनमनं बोधितरु-नमनञ्च ८ मतङ्गवाप्यां स्नानं तर्पणं श्राद्धं मत-ङ्गेशनमनं यूपकूपयोर्मध्ये श्राद्धञ्च ९ ॥
तृतीय-दिने ब्रह्मसरसि स्नानं सपिण्डकं श्राद्धं यूप-प्रदक्षिणं ब्रह्मनमनञ्च १० गोप्रचारसमीपेआम्रवृक्षसेचनम् ११ ततो यमकुक्कुरकाकबलि-दानं पुनः स्नानञ्च १२ ॥
चतुर्थदिने फल्गुतीर्थेस्नानादिकं ततो गयाशिरसि विष्णुपदस्य दर्शनंस्पर्शनं पूजनं तत्र सपिण्डकं श्राद्धञ्च १३ रुद्रः १४ब्रह्मा १५ दक्षिणाग्निः १६ गार्हपत्यः १७आहवनीयः १८ सत्यः १९ आवसव्यः २०शक्रः २१ अगस्त्यः २२ क्रौञ्चः २३ मातङ्गः २४कार्त्तिकेयः २५ गणेशः २६ कश्यपः एषां पदेषुश्राद्धम् २७ गजकर्णिकायां तर्पणम् २८कनकेशकेदारनरसिंहवामनरथमार्गाणां पूज-नम् २९ ॥
पञ्चमदिने गदालोले स्नानं सपि-ण्डकं श्राद्धञ्च ३३ अक्षयवटे श्राद्धं ब्रह्मकल्पित-विप्राणां पूजनं पुरोधसे षोडशदानञ्च ३४गायत्त्र्यग्रे प्रातःसन्ध्याचरणं सपिण्डकं श्राद्धञ्च ३५समुद्यततीर्थे स्नात्वा सावित्र्यग्रे मध्याह्नसन्ध्या-चरणं पिण्डदानञ्च ३६ प्राचीसरस्वत्यां स्नात्वासायाह्नसन्ध्याचरणं ३७ विशाला ३८ लेलि-हानम् ३९ भरताश्रमनामकरामतीर्थम् ४० पदा-ङ्कितम् ४१ मुण्डपृष्ठस्थगदाधरसमीपम् ४२आकाशगङ्गा ४३ गिरिकर्णमुखं एषु स्नानंपिण्डदानञ्च ४४ वैतरण्यां स्नानं पिण्डदानंश्राद्धं गोदानञ्च ४५ घृतकुल्या ४६ मधुकुल्या ४७देविकानदी ४८ शिलासङ्गम ४९ मधुस्रवासु स्नानंसपिण्डकं श्राद्धं पिण्डदानञ्च ५० दशाश्वमेधिकम् ५१हंसतीर्थम् ५२ अमरकण्टकम् ५३ कोटितीर्थम् ५४रुक्मिणीकुण्डं एषु पिण्डदानम् ५५ मार्कण्डेये-श्वर-५६ कोटीश्वरयोर्दर्शनं नमनञ्च ५७ दिवौ-कसां पुष्करिण्यां पितृभ्यो दानम् ५८ पङ्कजवनेपाण्डुशिलायां श्राद्धम् ५९ मुख्यतीर्थे स्नानंतर्पणं पिण्डदानञ्च ६० गयाकूपे पिण्डदानं६१ भस्मकूटे भस्मना स्नानम् ६२ सङ्गमतीर्थेस्नानम् ६३ धेनुकारण्ये पिण्ड दानम् ६४ काम-धेनुपदे स्नात्वा कामदुघानमनम् ६५ ॥
* ॥
“कर्द्दमाले गयानाभौ मुण्डपृष्ठसमीपतः ।स्नात्वा श्राद्धादिकं कृत्वा पितॄणामनृणो भवेत् ॥
फल्गुचण्डीश्मशानाक्षीमङ्गलाद्याः समर्च्चयेत् ।गयायाञ्च वृषोत्सर्गस्त्रिसप्तकुलमुद्धरेत् ॥
”इति वायुपुराणे गयामाहात्म्यम् ॥
* ॥
तत्र मरणे मुक्तिर्यथा, तत्रैव ३ अध्याये ।“गदाधरोद्देश्यतीर्थं सर्व्वतीर्थोत्तमोत्तमम् ।मुक्तिर्भवेत् पितॄणाञ्च कर्त्तॄणां श्राद्धतः सदा ॥
जरायुजा अण्डजा वा स्वेदजा वापि चोद्भिदः ।त्यक्त्वादेहं शिलायां ते यान्ति विष्णस्वरूपताम् ॥
”तत्रस्थजनार्द्दनहस्ते जीवितस्य पिण्डदानविधि-र्यथा, --“जनार्द्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः ।आत्मनोऽप्यथवान्येषां सव्येनैव तिलैर्व्विना ॥
जीवतां दधिसंमिश्रं सर्व्वे ते विष्णुलोकगाः ।यस्तु पिण्डो मया दत्तस्तव हस्ते जनार्द्दन ! ॥
यमुद्दिश्य त्वया देयस्तस्मिन् पिण्डो मृते प्रंभो ! ।एष पिण्डो मया दत्तस्तव हस्ते जनार्द्दन ! ॥
अन्तकाले गते मह्यं त्वया देयो गया शिरे ।”इति च वायुपुदाणे गयामाहात्म्ये ४ अध्यायः ॥
वाचस्पत्यम्
Sanskritगया स्त्री गयो गयासुरः गयनृपो वा कारणत्वेनास्त्यस्यअच् । तीर्थभेदे गयशब्दे तत्कथा उक्ता ।वायुपु० गयामा० १ अ० तन्माहात्म्यं यथा“वक्ष्ये तीर्थवरं पुण्यं श्राद्धादौ सर्व्वतारकम् ।गयातीर्थं सर्व्वदेशे तीर्थेभ्योऽप्यधिकं शृणु । गयासुरस्तपस्तेपे ब्रह्मणा क्रतवेऽर्थितः । प्राप्तस्य तस्य शिरसिशिलां धर्म्मोह्यधारयत् । तत्र ब्रह्माकरोद्यागं स्थित-श्चादिगदाधरः । फल्गुतीर्थादिरूपेण निश्चलार्थमह-र्निशम् । गयासुरस्य विप्रेन्द्र! ब्रह्माद्यैर्दैवतैः सह ।कृतयज्ञो ददौ ब्रह्मा ब्राह्मणेभ्यो गृहादिकम् । श्वेतकल्पेतु वाराहे गयोयागमकारयत् । गयनाम्ना गयाख्याताक्षेत्रं ब्रह्माभिकाङ्क्षितम् । काङ्क्षन्ति पितरः पुत्रान्नरकाद्भ-यभीरवः । गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।गयाप्राप्तं सुतं दृष्ट्वां पितॄणामुत्सवो भवेत् । पद्भ्या-मपि जलं स्पृष्ट्वा सोऽस्मभ्यं किं न दास्यति? । गयांगत्वान्नदाता यः पितरस्तेन पुत्रिणः । पक्षत्रयनिवासी च पुनात्यासप्तमं कुलम् । न चेत् षञ्चदशाहंवा सप्तरात्रं त्रिरात्रकम् । महाकल्पकृतं पापं गयांप्राप्य विनश्यति । पिण्डं दत्त्वा च पित्रादेरात्मनोऽपितिलैर्विना । ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ।पापं तत्सङ्गजं सर्व्वं गयाश्राद्धाद्विनश्यति । आत्म-जोऽप्यन्यजोवापि गयाभूमौ यदा तदा । यन्नाम्नापातयेत् पिण्डं तन्नयेत् ब्रह्म शाश्वतम् । नामगोत्रे समु-च्चार्य्य पिण्डपातनमीक्षते । येन केनापि कस्मैचित्स याति परमां गतिम् । ब्रह्मज्ञानं गयाश्राद्धं गोगृहे-मरणं तथा । वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतु-र्व्विधा । ब्रह्मज्ञानेन किं साध्यं गोगृहे मरणेन किम् ।वासेन किं कुरुक्षेत्रे यदि पुत्रोगयां व्रजेत् । गयायांपर्व्वकालेषु पिण्डं दद्याद्विचक्षणः । अधिमासे जन्म-दिने चास्तेऽपि गुरुशुक्रयोः । न त्यक्तव्यं गयाश्राद्धंसिंहस्थेऽपि वृहस्पतौ । तथा दैवप्रमादेन प्रवहत्सुव्रणेषु च । पूबः कर्म्माधिकारी च श्राङ्गकृद्व्रह्मलोक-भाक् । प्रीत्या श्राद्धन्तु कर्त्तव्यं सर्वेषां वर्णलिङ्गिनाम् ।एवं कुर्व्वन् नरः सम्यक् महतीं श्रियमाप्नुयात् । सकृद्गयाभिगमनं सकृत्पिण्डस्य पातनम् । दुर्ल्लभं किं पुन-र्नित्यमस्मिन्नेव व्यवस्थितः । प्रमादान्म्रियते क्षेत्रेब्रह्माद्यैर्सुक्तिदायके । ब्रह्मज्ञानाद्यथा मुक्तिर्लम्यतेनात्र संशयः । कीकटादिमृतानाञ्च पितॄणां तारणा-य च । तस्मात् सर्वयत्नेन वस्तव्यं सुविचक्षणैः । ब्रह्म-प्रकल्पितान् विप्रान् हव्यकव्यादिनार्च्चयेत् । तैस्तुष्टै-स्तोषिताः सर्व्वाः पितृभिः सहदेवताः । मुण्डनञ्चोप-वासश्च सर्व्वतीर्थेष्वयं विधिः । वर्ज्जयित्वा कुरुक्षेत्रंविशालां विरजां गयाम् । दण्डं प्रदर्शयेद्भिक्षुर्गयांगत्वा न पिण्डदः । दण्डं न्यस्य विष्णुपदे पितृभिःसह मुच्यते । न दण्डी किल्विषं धत्ते पुण्यं वा पर-मार्थतः । अतः सर्व्वक्रियां त्यक्त्वा विष्णुं ध्याय-ति भावुकः । संन्यसेत् सर्व्वकर्म्माणि वेदमेकं नसंत्यजेत् । मुण्डपृष्ठाच्च पूर्व्वस्मित् पश्चिमे दक्षि-णोत्तरे । सार्द्धं क्रोशद्वयं मानं गयेति ब्रह्मणे-रितम् । पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ।तन्मध्ये सर्व्वतीर्थानि त्रैलोक्ये यानि सन्ति वै । श्राद्ध-कृद् यो गयाक्षत्रे पितॄणामनृणोहि सः । शिरसिश्राद्धकृद् यस्तु कुलानां शतमुद्धरेत् । गृहाच्चलितमात्रेण गयाया गमनं प्रति । स्वर्गारोहणसोपानंपितृणाञ्च पदे पदे । पदेपदेऽश्वमेधस्य यत्फलं गच्छ-तो गयाम् । तत्फलञ्च भवेन्नॄणां समग्रं नात्रसंशयः । पायसेनाथ चरुणा सक्तुना पिष्ट-केन वा । तण्डुलैः फलमूलाद्यैर्गयायां पिण्ड-पातनम् । तिलाज्यदधिमध्वादिपिण्डद्रव्येषु योजयेत् ।मुष्टिमात्रप्रमणेन आर्द्रामलकमात्रतः । शमीपत्रप्रमाणेन पिण्डं दद्याद्गयाशिरे । उद्धरेत् सप्त गोत्राणिकुलमेकोत्तरं शतम् । तिलकल्केन खण्डेन गुडेनसघृतेन वा । केवलेनैव दध्ना वा दुग्धेन मधुनाथ वा ।पिन्याकं सवृतं खण्डं पितृभ्योऽक्षयमित्युत । इष्यतेऽवाप्तितो भोज्यं हविष्यं मनुरब्रवीत् । एकतः सर्व्वव-स्तूनि रसवन्ति मधूनि हि । स्मृत्वा गदाधराङ्घ्राब्जंफल्-गुतीयाम्बु चैकतः । पिण्डासनं । पण्डदानं पुनः प्रत्यवनेजनम । दक्षिणा चान्नसंकल्पस्तीर्थश्राद्धेष्वयं विधिः ।गावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः । सकारु-ण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः । अन्यत्रावाहिताःकाले पितरोयान्त्यमुं प्रति । तीर्थे सदा वसन्त्येतेतस्मादावाहनं न हि । तीर्थश्राद्धं प्रयच्छद्भिः पुरुषैःफलकाङ्क्षिभिः । कामं क्रोधं तथा लोभं त्यक्त्वा कार्य्या-क्रिया ऽनिशम् । ब्रह्मचार्य्येकभोजी च भूशायी सत्यवाक्शुचिः । सर्वभूतहिते रक्तः स तीर्थफलमश्नुते । तीर्था-न्थनुसरन् घीरः पाषण्डं दूरतस्त्यजेत् । पाषण्डंतच्च विज्ञेयं यद्भवेत् कामकारतः । तीर्थेषु ये नरा-धीराः कर्म कुर्वन्धि सद्गताः । यथा ब्रह्मचिदो वेद्यं वस्तु-चानन्यचेतसः । प्रविशन्वि परेशाख्यं ब्रह्म ब्रह्मपरायणाः ।याऽऽस्ते वैतरणी नाम नदी त्रैलोक्यविश्रुता । सावतीणांगयाक्षत्रे पितॄणां तारणाय वै । स्नातो गोदो वैतरण्यांत्रिःसप्तः कुलमुद्धरेत् । तथाक्षयवटं गत्वा विप्रान्सन्तोषयिष्यति । ब्रह्मप्रकल्पितान् विप्रान् हव्यकव्या-दिनार्च्चयेत् । तैस्तुष्टैस्तोषिताः सर्वाः पितृभिः सह-देवताः । गयायां नहि तत्स्थानं यत्र बीर्थं न विद्यते ।सान्निध्यं सर्वतीर्थानां गयातीर्थं ततो वरम् । मीनमेषेस्थिते सूर्य्ये कन्यायां कार्मुके घटं । दुर्ल्लभं त्रिषुलोकेषु गयायां पिण्डपातनम् । मकरे वर्त्तमानेऽर्केग्रहणे चन्द्रसूर्य्ययोः । दुर्ल्लभं त्रिषु लोकेषु गयाश्राद्धंसुदुर्लभम् । गयायां पिण्डदानेन यत् फलं लभते बरः ।न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि” ।तद्यात्राविधिश्च तत्रैव ६ अ० । “सनत्कुमार उवाच ।गयायात्रां प्रवक्ष्यामि शृणु नारद! मुक्तिदाम् । नि-ष्कृतिः पिण्डकर्त्तृणां ब्रह्मणा गीयते पुरा । उद्यतश्चे-द्गयां गन्तुं श्राद्धं कृत्वा विधानतः । विधाय कर्पटिवेशंकृत्वा ग्रामं प्रदक्षिणम् । ततो ग्रामान्तरं गत्वा श्राद्ध-शेषस्य भोजनम् । ततः प्रतिदिनं गच्छेत् प्रतिग्रहविवर्ज्जितः । प्रतिग्रहादपावृत्तः सन्तुष्टो नियतःशुचिः । अहङ्कारविमुक्तो यः स तीर्थफलमश्रुते ।यस्य हस्तौ च पादौ च मनश्चापि सुसंयतः । विद्या त-पश्च कीर्त्तिश्च स तीर्थकलमश्रुते । ततो गयाप्रवेशे चपूर्वतोऽस्ति महानदी । तत्र तोयं समुत्पाद्य स्नातव्यंनिर्मले जले । देवादींस्तर्पयित्वाथ श्राद्धं कृत्वा यथा-विधि । स्वस्ववेदशाखोदितमर्ध्यावाहनवर्जितम् । अप-रेद्युः शुचिर्भूत्वा गच्छेद्वै प्रेतपर्वतै । ब्रह्रकुण्डेततः स्नात्वा देवादींस्तर्पयेत् सुधीः । कुर्य्यात् श्राद्धंसपिण्डानां प्रयतः प्रेतपर्वते । प्राचीनावीतिनाभ्यर्च्च्यदक्षिणाभिमुखः स्मरन् । “कव्यवालोनलः सोमो यम-श्चैवार्य्यमा तथा । अग्निष्माश्चा बर्हिषदः सोमपाः पिवृ-देवताः । आगच्छन्तु महाभागा युष्माभी रक्षिताख्विह” ।“मदीयाः पितरोये च कुलेजाताः कुलाह्वयाः । तेषांपिण्डप्रदानार्थमागतोऽस्मि गयामिमाम् । ते सर्वेतृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम्” । आचम्योक्त्वा चपञ्चाङ्गं प्राणायामं प्रयत्नतः । पुनरावृत्तिरहितःब्रह्मलोकाप्तिहेतवे । एवञ्च विधिवत् श्राद्धं कृत्वा पूर्वंयथाक्रमम् । पितॄनावाह्य चाभ्यर्च्च्य मन्त्रैः पिण्ड-प्रदोभवेत् । तीर्थ प्रेतशिलादौ च चरुणा सवृतेन वा ।प्रक्षाल्य पूर्वं तत्स्थानं पञ्चगव्यैः पृथक् पृथक् । मन्त्रैस्तैरथ संपूज्य पञ्चगव्यैश्च देवताम् । यावत्तिला मनु-ष्यैश्च गृहीताः पितृकर्म्मसु । गच्छन्ति तावदन्नुराःसिंहत्रस्ता यथा मृगाः । श्रष्टकासु च वृद्धौ च गयायांचाक्षयेऽहनि । मातुः श्राद्धं पृथक् कुर्य्यादन्यत्र पति-ना सह । वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम् ।गृहीत्वाञ्जलिना तेभ्यः पितृतीर्थेन तत्त्वतः । सक्तुनामुष्टिमात्रेण दद्यादक्षय्यपिण्डकम् । आव्रह्मस्तम्भ-पर्य्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु पितरः सर्वे मातृ-मातामहादयः । अतीतकुलकोटीनां सप्तद्वीपनिवा-सिनाम् । आ ब्रह्मभुवनात् लोकादिदमस्तु तिलोदकम् ।पिता पितामहश्चैव तथैव प्रपितामहः । माता पिता-मही चैव तथैव प्रपितामही । मातामहस्तत्पिता चप्रमातामहकादयः । तेषां पिण्डो मया दत्तोह्यक्षय्य-मुपतिष्ठताम् । मुष्टिमात्रप्रमाणञ्च आर्द्रामलकमात्र-कम् । शमीपत्रप्रमाण वा पिण्डं दद्याद्गयाशिरे । उद्ध-रेत् सप्तगोत्राणां कुलानि शतमुद्धरेत् । पितुर्मातुश्चभार्य्याया भगिन्या दुहितुस्तथा । पितृष्वसुर्मातृष्वसुः सप्तगोत्राः प्रकीर्त्तिताः । विंशतिर्विंशतिरिन्द्राः १४ षोडशद्वादशैव हि । रुद्राश्च ११ वसव ८ श्चैव कुलान्येकोत्तरं शतम् ।नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः । सका-रुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः । पिण्डासनंपिण्डदानं पुनः प्रत्यवनेजनम् । दक्षिणा चान्नसंकल्प-स्तीर्थश्राद्धेष्वयं विधिः” ।अधिकं मदीयगयाश्राद्धादिपद्धतौ दृश्यम् । गयाश्राद्धस्यकलादेराधारादिकं गयाश्राद्धादिपद्धतौ अस्माभिर्न्यरूपियथा “गयाश्राद्धफलं किंनिष्ठमिति, विविच्यते । “यन्नाम्नापातयेत् पिण्डम्” इत्यादिवचनजातात् पुत्त्रादिकृतश्रा-द्धात् तदुद्देश्यपित्रादिगतं नरकनिवृत्तिब्रह्मलोकावाप्त्या-दिफलमवगम्यते तच्च नोपपद्यते । तथा हि सर्व्वोहि लोकः स्वेष्टसाधने कर्मणि प्रवर्त्तते तत्प्रवृत्त्या चतत्तदिष्टसाधनं वस्तु साधयति इत्येवं नियमे स्थितेवैदिककर्म्मण्यपि तथैव स्वाभीष्टफलवत्येव प्रवृत्तिरुचितानान्यगामिफले । एवं शास्त्रदेशितं फलमनुष्ठातर्य्येवकर्म्मभिर्ज्जन्यते “शास्त्रीयं फलं प्रयोक्तरि तल्लक्षणत्वा-दिति” जैमिनीयन्यायात् । अन्यकर्त्तृकक्रिययाऽन्यदीय-फलस्य जननेऽतिप्रसङ्गः स्यात् । ततश्च पुत्त्रादिकृतश्राद्धात्कथं पित्रादेरुद्धारादिसम्भवः तस्य श्राद्धाद्यकर्त्तृत्वात्इत्येवं प्राप्ते उच्यते “यस्मिन् जाते एतामिष्टिं निर्व-पति पूत एव सः” इत्यादिवेदवचनात् जैमिनीयन्या-यस्य जातेष्ट्यादिभिन्नविषयत्वं कल्प्यते । तथा चपित्त्रादिकृतजातेष्ट्यादिद्वारा अन्नाशनादिसंस्कारद्वाराच यथा तत्राऽकर्त्तर्य्यपि पुत्त्रे फलमुत्पद्यते एवं गया-दिश्राद्धकर्त्तुरुद्देश्यस्याकर्त्तुरपि उद्धारादिफलसम्बन्धःनानापुराणवचनबलादपि सम्भवति “फलसंयोगस्त्वनोदितेन स्यादशेषभूतत्वादिति” जैमिनीयन्यायान्तरेण विधिविशे-षेणैव फलविशेषसम्बन्ध इत्युक्तत्वात् । तथा च प्रागु-क्तातिप्रसङ्गस्य शास्त्रातिरिक्तविषयत्वमिति कल्प्यते“नास्ति वचनस्यातिभारः” इति न्यायात् “वाचनिकेऽर्थेन्यायानवतारात्” इति न्यायाच्च । तत्र वचनाच्चोभय-गतफलसाधनताऽवगता जातेष्ट्यादिवत् । तच्च फलंपुण्यविशेषस्तज्जन्यनरकाद्युद्धारो वेत्यन्यदेतत् । मीमां-सादावेवैतद्विवेचितमित्युपरम्यते । काश्यादिमृतपितृक-कृतगयाश्राद्धस्य तु कर्त्तर्य्येवाकरणनिबन्धनप्रत्यवायप-रिह्रारमात्रं, सति कामे विशिष्टसन्तानश्च फलम् “गयायांपिण्डदानेन पितॄणामनृणो भवेत्” इत्यादिवचने पितॄणा-पाकरणस्यावश्यकतया तदकरणे प्रत्यवायबोधनात् “गया-भिगमनं कर्त्तुं यः शक्तो नाभिगच्छति । शोचन्तिपितरस्तस्य वृथा तस्य परिश्रमः” इति कूर्मपुराणीयेनसमर्थस्य गयाश्राद्धाऽकरणे वृथाजन्मतोक्तेः “जीवतोर्वाक्य-करणात् प्रत्यव्दं भूरिभोजनात् । गयायां पिण्डदानाच्चत्रिभिः पुत्त्रस्य पुत्त्रता” इत्यादिवचने गयाश्राद्धादिकर-णेनैव पुत्त्रकार्य्यकारितया पुत्त्रत्वसिद्ध्युक्तेश्च । तेनगयाश्राद्धं नित्यमत एव यथाशक्ति अनुष्ठेयं “नित्येयथा शक्रुयादिति” न्यायात् । तथापि सकृत्करणमेवनित्यं तावतैव शास्त्रार्थसिद्धेः “सकृत्कृते कृतः शास्त्रार्थइति” न्यायात् आवृत्तिबोधकवीप्साद्यभावाच्च जन्मतिथ्या-दिकृत्यवन्न पुनःपुनः करणावश्यकता । पुनःकरणे तु फलाधिक्यम् “यो भूय आरभते तस्य फले विशेषः” इति न्यायात्“सकृद्गयाभिगमनं सकृत्पिण्डप्रपातनम्” इत्यादिवाक्य-मप्याद्यस्यैवाबश्यकत्वार्थं न तु द्वितीयादेर्निरासार्थमपि, परिसंख्यापत्तेः । तत्रापि प्रथमयात्रायां येषां प्रेतत्वनि-वारणार्थं प्रेतशिलायां पिण्डदानभाण्डस्फोटने कृतेतत्र द्वितीययात्रायां तेषां ते न कार्य्ये इत्येव विशेषैः ।प्रथमयात्रानन्तरमृतानान्तु द्वितीययात्रायां ते अपिकार्य्ये । अन्यत् सर्व्वं सर्व्वास्वपि यात्रासु समानम् ।तस्मादमुक्ते पित्रादौ नरकोद्धारादि यथायथं फलंमुक्ते तु तस्मिन् पुत्त्रादेः प्रत्यवायाभावः सत्याञ्च काम-नायां विशिष्टसन्तानादि पुत्त्रादिगतं फलं भवतीतिसिद्धम् । अत्रेदं विविच्यते प्रागुक्तपुराणादिबचनेषुगयाश्राद्धस्य पित्राद्युद्धारः प्रत्यवायपरिहारः पुत्त्रावा-प्तिश्च फलत्वेन श्रूयते तत्र गयाश्राद्धप्रवृत्तौ किं प्रयो-जकं किमेकैकमुभयं वा त्रितयं वेति सन्देहे त्रितयस्यैव-प्रयोजकता तत्र कामनाभेदादेकस्य मुख्यफलताऽपरयो-र्द्वारता प्रासङ्गिकता वा तथा च यदा पित्राद्युद्धरार्थिनागयाश्राद्धं क्रियते तदा तदेव मुख्यं फलं तत्प्रवृत्तौप्रयोजकं, प्रत्यवायपरिहारः पुत्त्रोत्पत्तिश्च तत्र प्रासङ्गिकौअन्थार्थदीपस्यानुद्देश्यप्रकाशनवत् । यदा तु पुत्रार्थिनातदनुष्टीयते तदा पुत्त्रोत्प्रत्तिरेव मुख्यं फलं पित्राद्यु-द्धारस्तु तत्र द्वारमित्येव सिद्धान्तः । एवं पित्राद्यु-द्धारस्य फलत्वे स्थितेऽधुना तत्रेदं विचार्य्यते । उद्धारोनाम स्वापेक्षयोत्कृष्टस्थानादिनयनं तच्च प्रकृते नारकी-यदेहविगमानन्तरं देवाददेहप्रापिणरूपं तच्च न सम्भवतिनारकीयादिदेहादेः स्वस्वकर्म्मणारब्धतया कारणसत्त्वेविगमासम्भवात् तत्कर्म्मणां च भोगेनैव नाश्यत्वात्“नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपीति” आग-मात् । ततश्च तद्देहनाशः स्वारम्भककर्म्मनाश एवनान्यथा । तथा च गयाश्राद्धादिना कथमुद्धारसम्भवः ।प्रारब्धकर्म्मणाञ्च भोगादेव क्षये सति गयाश्राद्धेनोद्धारोजननीय इति कल्पनापि न युक्ता भोगादेव कर्म्मक्षयेकल्प्ये गयाश्राद्धवैफल्यापत्तेः । इत्येवं स्थिते उच्यतेकर्म्मविपाकोक्तदानादिना प्रारब्धकर्म्मक्षयद्वारा यथारोगनाशकल्पना तथा प्रकृतेऽपि गयाश्राद्धादिना प्रारब्ध-क्षयनाशद्वारैव उद्धारकल्पना “नाभुक्तं क्षीयते” इत्यादि-वाक्यस्य तु बलवद्वाक्यस्यैव प्रतिबन्धकस्य सत्त्वेनाप्रवृत्तेः“न हि वचनस्यातिभारः इति” न्यायात् तथा च गया-श्राद्धस्यैव प्रारब्धक्षयजनकपुण्यविशेषजनकता कर्म्म-विपाकोक्तदानादिवदेव कल्प्यते इति न कश्चिद्विरोधः ।किञ्च भोगादेव प्रारब्धकर्म्म क्षयादनन्तरमुद्धारकल्पनेऽपिन गयाश्राद्धवैफल्यं पापविशेषैरेकैकयोनिष्वनेकावृत्तिश्रव-णात् फलोन्मुखानामितरेषामनारब्धफलार्ना कर्म्मणाञ्चगयाश्राद्धनाश्यता भविष्यतोति । असति च नारकी-याङ्गाद्यारम्भके पापे उद्धारस्य ब्रह्मलाकावाप्तिरूपतैव ।स्वकर्म्मानुसारेण तल्लोकप्राप्तेरपि पूर्व्वं वृत्तत्वे तु पुत्त्र-निष्ठः प्रत्यवायपरिहार एव फलं मुक्तपित्रादौ तथा-कल्पनस्य पूर्व्वमुक्तत्वात् तथैवात्र कल्पनौचित्यात् ।अथ गयाश्राद्धाधिकारिणः । तत्र पुत्त्रपौत्त्रप्रपौत्त्राएव प्रधानाधिकारिणः । तद्भिन्नाः सर्वेऽपि गौणाधि-कारिणः । तथा “पुत्त्रेषु विद्यमानेषु नान्यो वै कारयेत्स्वधाम्” इत्यादिवचनेन पुत्रसत्त्वेऽन्यकर्त्तृकश्राद्धस्य निषे-धेऽपि गयायां तस्य प्रतिप्रसवः, “आत्मजो वाऽन्यजोवापि गयाकूपे यदा तदा । यन्नाम्ना पातयेत् पिण्डंतं नयेद् ब्रह्म शाश्वतम्” इति वायवीयवचनात् “सवर्णाज्ञातयो मित्रवान्धवाः सुहृदस्तथा । तेऽपि भूयो गयांगत्वा पिण्डं दद्युर्विधानतः” इति स्मृतिरत्नावलीधृतवा-क्याच्च । तथा चात्र सम्बन्धिमात्राणामधिकारः । योयदीयधनं यथा कथञ्चिद्गृह्लाति सोऽसवर्णोऽपि तदीय-गयाश्राद्धेऽधिकारी, “प्रेतं किञ्चिद्विशुद्ध्यर्थम्” इत्यादिवायवीयवचनेऽसवर्णवणिग्दत्तपिण्डेन प्रेतोद्धारस्य की-र्त्तनात् पुत्रो वा बन्धुपुत्त्रो वा मित्रं वा स्वजनोऽपिवा । ऋणिको वाथवा दद्याद् द्वयोः स्वर्गस्तदा तयोरिति”वह्निपुराणीयाच्च । तथान्यत्र कर्त्तृविशेषविषयनिषेधोऽपिगयायां न प्रवर्त्तते “न पुत्त्रेभ्यः पिता दद्यान्नानुजेभ्य-स्तदाग्रजः । न पत्न्यै तु वतिर्द्दद्द्यात् बुद्धिमान् सुसमा-हितः” इति च सामान्यतो निषिध्य “तेऽपि यान्तिदिवं सर्वे पिण्डे दत्ते इति श्रुतिः । अतस्तेभ्योऽत्र यत्नेनपिण्डं दद्यात् समाहितः” इति स्मृतिरत्नाबल्यां गयायांप्रतिप्रसवात् बौधायनेनापि “पित्रा श्राद्धं न कर्त्तव्यंपुत्त्राणान्तु कदाचन । भ्रात्राग्रजेन वा कार्य्यं भ्रा-तॄणां न कनीयसाम् । अतिस्नेहेन कार्य्यऽवा सपि-ण्डीकरणं विना । गयायामविशेषेण ज्यायानपि समा-चरेदिति सामान्यतो निषिध्य गयायां प्रतिप्रसवाच्च ।पूर्व्ववचने अत्रेति गयायामित्यर्थः ।अथ गयाश्राद्धानधिकारिणः । जीवत्पितृको जीवन्मातृकश्चगयाश्राद्धे सर्वथानधिकारी । जीवत्पितृको मृतमातृकस्तुयदि प्रसङ्गेन गयां प्राप्नोति तदा अन्वष्टकाश्राद्धमिवमातृपार्वणमेव कुर्य्यात् “आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्चक्षयाहनि । मातुः श्राद्धं सुतः कुर्य्यात् पितर्य्यपि चजीवति” इति मैत्रायणीयपरिशिष्टवाक्यात् । अत्र प्राप्ता-वित्युक्त्या प्रासङ्गिकगमनं सूचितम् “गयां प्रसङ्गतोगत्वा मातृश्राद्धं समाचरेदिति त्रिस्थलीसेतुधृतवचने प्र-सङ्गत इति पदस्य स्पष्टोपादानस्वरसात् । तेन जीवत्पि-तृकस्य गयामुद्दिश्य गमने न मातृश्राद्धकरणम् । मातृ-श्राद्धञ्चान्वष्टकाश्राद्धसाहचर्य्यात् पार्वणमेव कार्यमितित्रिस्थलीसेतुप्रभृतयः । अन्ये तु जीवन्मातृको मृतमा-तृको वा जीवत्पितृकोऽपि पार्व्वणविधिना पिता-महादीनां गयाश्राद्धं कुर्य्यात् जीवे पितरि वै पुत्रःश्राद्धकार्य्यं विवर्ज्जयेत् । येषां वापि पिता दद्यात्तेषा-मेके प्रचक्षते” इति हारीतवनोत्तरार्द्धेन जीवत्पितृक-पार्वणस्य विधानेन गयायामपि तत्प्रवृत्तेरित्याहुः ।आचार एवात्रान्यतरपक्षग्रहणे शरणम् ।संन्यासिनस्तु सर्वकर्मपरित्यागितया गयाश्राद्धेऽनधि-कारिणः । तथापि तत्र विष्णुपदादिश्राद्धस्थानेषु दण्ड-मात्रस्पर्शनं प्रणवोपासनादिवत् तैराचरणीयं न तु श्राद्ध-तर्पणादि “दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः ।दण्डं स्पृष्ट्वा विष्णुपदे पितृभिः सह मुच्यते” इतिवायवीयात् स्पृष्ट्वा स्पर्शयित्वेत्यर्थः । पुत्त्रवत्याः स्त्रियानाधिकार इति गौडैकदेशिनामाचारः स तु मूला-भावान्नादरणीयः ।अथ गयाश्राद्धकालः । न तत्र कालशुद्ध्यपेक्षा“गयायां सर्वकालेषु पिण्डं दद्यात् विचक्षणः ।अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः ।न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च वृहस्पताविति”वायवीयात् । अत्र सर्वकालेष्वित्युपक्रमात् अस्ते इत्या-द्युक्तिस्तु सर्वसमयाशुद्धिप्रयोजकनिमित्तमात्रोपलक्षणार्थान तु रात्र्याद्रिपर्य्युदस्तकालग्रहणार्थेति बोध्यं सर्वत्रतीर्थादौ रात्र्यादिकालस्य पर्य्युदस्ततया रघुनन्दना-दिभिः स्वीकारात् । संक्रान्त्यादो तु फलातिशत्यः “गया-श्राद्धं प्रकुर्वीत संक्रान्त्यादौ विशेषतः । काले वाऽपरपक्षेवा चतुर्थ्यादितिथिष्वपीति” वह्निपुराणीयात् “मकरे व-र्त्तमानेऽर्के ग्रहणे चन्द्रसूर्य्ययोः । दुर्ल्लभं त्रिषु लोकेषुगयायां पिण्डपातनमिति” वायुपुराणवाक्याच्च ।तथान्येऽपि निषिद्धकाला गयायां प्रतिप्रसूताः । यथा“विवाहव्रतचूडासु वर्षमर्द्धं तदर्द्धकम् । पिण्डदानं मृदास्नानं न कुर्य्यात्तिलतर्पणमिति” कार्ष्णाजिनिवचनेन, “वृद्धिमात्रे तथान्यत्र पिण्डदाननिराक्रिया । कृता गर्गा-दिभिर्मुख्यैर्म्मासमेकन्तु कर्मिणामिति” स्मृतिसंग्रहवा-क्येन च विवाहादेरूर्द्धं वर्षादिकालपर्य्यन्तं पिण्डदानस्यनिषेधेऽपि “महालये गयाश्राद्धे मातापित्रोर्मृताहनि ।कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः” इति, “पित्रोःक्षयाहे यज्ञे च पितृयज्ञे महालये । गयायां पिण्डदा-नस्य न कदाचिन्निराक्रियेति” च त्रिस्थलीसेतुधृतस्मृतिसंग्रहवाक्याच्च तत्प्रतिप्रसवः । तथा तत्र तिलतर्पणनि-षेधाभावोऽपि “उपरागे व्यतीपाते गयायामथ पर्वणि ।आदित्यादिनिषेधेऽपि कर्त्तव्यं तिलतर्पणमिति” स्मृतिद-र्पणधृतसंग्रहवाक्यात् ।अथ गयाश्राद्धे निषिद्धकालः । “तीर्थश्राद्धं गया-श्राद्धं श्राद्धमन्यच्च पैतृकम् । अवदमध्ये न कुर्वीतमहागुरुनिपातने” इति गारुडात् प्रमीतमहागुरु-कस्य वर्षमात्रं गयाश्राद्धं निषिद्धम् । तत्रायं विशेषःवृद्ध्यादिनिमित्तकसपिण्डीकरणे तु कर्तुं शक्यत एव“अस्थिक्षेपं गयाश्राद्धं श्राद्धञ्चापरपक्षिकम् । अव्दमध्येन कुर्व्वीत सपिण्डीकरणं विना” इति गारुडवाक्यान्त-रात् । अत्राप्यपरोविशेषः यदि पितृभक्तिमान् तदाव्द-मध्येऽपि गयाश्राद्धं कर्त्तुं शक्नोति “अस्थिक्षेपं गयाश्राद्धंश्राद्धं चापरपक्षिकम् । प्रथमाव्देऽपि कुर्वीत यदि स्या-द्भक्तिमान् सुतः” । इति त्रिस्थलीसेतुधृतवचनात् । अत्रभक्तिः प्रीतिरिति बहवः । अन्ये तु अव्दमध्ये प्रेतस्यदेवतात्वयोग्यतासिद्धये देवतासंस्कारकमेकं पार्वणं कर्त्तव्यंतदेव भक्तिपदाभिधेयं तच्च कृत्वा गयाश्राद्धं कुर्य्यादि-त्याहुः । भक्त्या वर्षमध्ये गयाश्राद्धकरणे तु वृद्धाबिवमासिकादीन्यपकृष्य कार्य्याणीति बोध्यम् । अत्रेयं सम्प्र-दायानुसारिणी व्यवस्था अकृतसपिण्डनस्य प्रथमाव्देगयाश्राद्धं नैव कार्य्यं कृतसपिण्डनस्यापि सति सम्भवेप्रथममाव्दे नैव कार्य्यमित्येव मुख्यः पक्षः प्रसङ्गतोगयाप्राप्तौ पुनरागमनाद्यसम्भावनायान्तु भक्त्या, मतान्त-रोक्तं श्राद्धं कृत्वा वा । प्रथमाव्देऽपि तत् कार्य्यं नित्य-त्वादिति । महापातकिनामपि वर्षमात्रं गयाश्राद्धं नकार्य्यम् “क्रियते पतितानां च गते संवत्सरे क्वचित् ।देशधर्मप्रमाणत्वाद्गयाकूपे स्वबन्धुभिरिति” ब्राह्मात्कूपग्रहणं गयास्थतीर्थमात्रोपलक्षणम् । पतितानामितियावद्दुर्मरणमृतानासुपलक्षणार्थं ते च विस्तरभयान्नात्र लिखिताः । पुक्तञ्चैतत् मिताक्षरायां यावद्दुर्नि-नित्तमृतानां संवत्सरादूर्द्धमेव नारायणबलिविधानपूर्व्वकंश्राद्धकरणस्योक्तत्रया गयाश्राद्धस्यापि तत्स्त्यानीयत्वेनतत्काले एव करणौचित्यम् । अतएव तद्धृतषट्त्रिंश-न्मतीयवाक्यम् “गोब्राह्मणमृतानाञ्च पतितानां तथैव च ।ऊर्द्ध्वं संवत्सरात् कार्य्यं सर्वमेबौर्द्धदेहिकमिति” ।अत्र सर्वमिति सर्वशब्दस्वरसात् नारायणबलेरिव गया-श्राद्धादेरपि वर्षोत्तरमेव कर्त्तव्यता नार्वानिति प्रती-यते । अतएव तद्वचनव्याख्यायां मिताक्षराकृता नाराय-णबलिं कृत्वौर्द्धदेहिकं कार्य्यनित्युक्तम् । एबञ्चात्मघाति-नाम् “नास्ति किञ्चिद्गयां विना” इत्युक्तिरपि वर्षोत्तरमेवतत्कर्त्तव्यतार्थैवेति बोध्यम् । अथ कर्त्तृविशेषे गयाश्राद्ध-विशेषः । तत्र “पितॄणां दत्तगक्षयमिति”, “पिण्डं दद्याच्चपित्रादेरिति” च वायबीयात् पित्रादित्रयाणामुद्देश्यता ।“पितरो यत्र पूज्यन्ते तत्र मातामहादयः” इत्युक्तेः, गया-सुपक्रम्यं “मातामहानामप्येवं श्रुतिरेषा सनातनीति”पाद्मसृष्टिखण्डवचनाच्च, मातामहादीनामप्युद्देश्यतेत्येवंषड्दैवतं पार्व्वणमिति गौडीयाः । “अत्वष्टकायां वृद्धौच गयायाञ्च मृताहनि । अत्र मातुः पृथक्श्राद्धमन्यत्रपतिना सह” इति वाय्वग्निपुराणोक्तेः “नान्दीमुखेऽन्वष्ट-कायां गयायाञ्च मृताहनि । पितामह्यादिभिः सार्द्धंमातुः श्राद्धं समाचरेत्” इति शातातपोक्तेश्च मात्रादी-नामप्युद्देश्यता तेन नवदैवत्यम् । तत्राप्ययं विशेषः ।नान्दीमुखे असामवेदिनामेव नवदैवतपार्वणस्य विधानेनतत्साहचर्य्यात् तद्वेदिनामेव नवदैवत्यमिति । “पित्रादिनवदैवं वा तथा द्वादशदेवतम्” वह्निपुराणीयात्मातामह्यादित्रिकसहितं नवदैवतमिति द्वादशदैवतं वा ।तत्र वाशब्दश्रवणात् विकल्प एव गम्यते स च देशभेदा-दिना व्यवस्थितः । पितृव्यादीनान्तु एकोद्दिष्टमेव तद-शक्तौ पिण्डदानमात्रं कार्य्यम् । तत्पत्नीनामपि पृथगे-कैकोद्दिष्टादि कार्य्यम् “न योषिद्भ्यः पृथग्दद्यात्” इत्या-दिना पृथग्दाननिषेधेऽपि “स्वगोत्रे परगोत्रे वा दम्पत्योःपिण्डपातनम् । अपृथक् निष्फलं श्राद्धं पिण्डञ्चोदक-तर्पणम्” इति वायवीये गयामुपक्रम्य सहदाननिषेधेनतत्प्रतिप्रसवात् ।”गयाकूप गयास्थकूपभेदे पुं० गयाक्षेत्र गयारूपे क्षेत्रभेदेगयातीर्थ तद्रूपे तीर्थे । गयादित्य तत्रत्यादित्य-भेदे गयाशिरस् गयास्थे गयशिरसि । “सर्वेसान्ता अदन्ताश्च” इत्युक्तेः गयाशिरमप्यत्र “पिण्डंदद्यात् गयाशिरे” वायुपु० । गयाशीर्षगयाशेखरादयो-ऽप्यत्र । ६ गन्तव्ये । “स्वरोऽसि गयोऽसि” ता० ब्रा० ।“गयः फलाकाङ्क्षिमिर्गन्तव्यः” भा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
