गमॢ (gamlR)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritगमॢँ गमॢँ
मानकरूपान्तरम् - सृपॢँ
सृपॢँ गतौ
- गच्छति । संगच्छते । जगाम । गन्ता । गमिष्यति । संगंस्यते । अगमत् । समगत समगंस्त । जिगमिषति । हृदयङ्गमः । आगामी । गामुकः । गमः । सर्पति । ससर्प । स्रप्ता ।सर्प्ता । असृपत् । सर्पः । उपसर्पः । सृप्त्वा । सृप्तः । सर्पिः ।। 990, 991 ।।
क्षीरतरङ्गिणी
Sanskritगमॢँ गमॢ
मानकरूपान्तरम् - सृपॢँ
सृपॢ गतौ
- इषुगमियमां छः (7377) गच्छति समो गम्यृछि (1329) इति तङ्-संगच्छते अगमत् (द्र0 3155) गमहनजन (6468) इत्युपधालोपः जग्मुः विभाषा गमहन (7268) इति क्वसौ वेट्-जग्मिवान्, जगन्वान् गमेरिट् परस्मैपदेषु (7858) गमिष्यति, जिगमिषति वा गमः (1213) इति वा लिङ् सिचोः कित्त्वम्-संगसीष्ट, संगंसीष्ट, समगत, समगंस्त अज्झनगमां सनि (6416) इतीणादेशस्य गमेर्दीर्घविधेः (द्र0 काशिका 6416), अस्य नास्ति-संजिगंसते गमश्च (3247) इति खच्-प्लवंगमः खच्च डित् (3238 वा0) प्लवंगः डः (द्र0 3238, 48 भाष्य) प्लवगः विहायसो विह च (3338 वा0) विहंगमः डे च (3228 वा0) विहगः विहंगः (द्र0 3238 वा0) उरसो लोपश्च (3248 वा0) उरगः उरंगमो ऽपीति केचित् त्वरस्य तुरादेशः-तुरंगमः लषपत (32154) इत्युकञ्-आगामुकः गत्वरश्च (32164) सितनिगमि (उ0 170) इति तुन्-आगन्तुः गन् गम्यदेः (दश0 उ0 362) गङ्गा गमेर्डोः (उ0 267) गौः वर्तमाने पृषत् (उ0 284) इति जगत् नीलंगुः (द्र0 उ0 137) क्रिमिः गमेर्गश्च (उ0 277) इति क्युन् - गगनम् भविष्यति गम्यादयः (333) गमेरिनिः (उ0 46) गमी ग्रामम् आङि णित् (उ0 47) आगामी गमेरा च (उ0 4169) इति त्रन्-गात्रम् ग्रहवृदृनिश्चिगमश्च (3358) इत्यप् नमः गोचरसंचर(33119) इति निगमो वेदादिः सर्पति, असृपत् सर्पोऽचि के (द्र0 31135) स्पृपः स्फायि (उ0 213) इति रक्-सृप्रश्चन्द्रमाः, सृपा नाडी अर्चिशुचि (उ0 2108) इतीस्-सर्पिः 953-954
धातुवृत्तिः
Sanskritगमॢँ गमॢ
मानकरूपान्तरम् - सृपॢँ
सृपॢ (अर्थः) गतौ
गच्छति "इषुगमियमां छः'' इति छः "छे च'' इति तुक् ( जगाम जग्मतुः जगन्थ जगमिथ जग्मिव जग्मिम ) क्रादिनियमादिट्. थलि भारद्वाजनियमात् विकल्पः ङितोरजाद्योः "गमहन'' इत्युपधालोपे तस्य "द्विर्वचनेऽचि'' इति स्थानिवत्त्वात् द्विर्वचनम् ( गन्ता गमिष्यति ) "गमेरिट् परस्मैपदेषु'' इति सकारादेरिट् ( गच्छतु अगच्छत् गच्छेत् आशिषि गम्यात् अगमत् ) लृदित्वात् अङ् "गमहन'' इत्यत्रानङिति पर्युदासात् नोपधालोपः ( जिगमिषति ) जिगमिष त्वत्र हेर्लुका लुप्तत्वात् परस्मैपदाभावे भाष्यवार्त्तिकयोः सिद्धं तु गमेरात्मनेपदेन समानपदत्थस्येटः प्रतिषेधात् इति न्यासान्तरेण आत्मनेपदेन समानपदस्तस्य गमेः सकारादेरिण्निषेधात् इडभाव इति एवं जिगमिषितेत्यादौ कृत्यपीट् भवति इदं भाष्यवार्त्तिकं चेति आत्मनेपदेऽपीण्निषेधे सिद्ध एवारभ्यमाणमर्थादन्यत्रेटं बोधयति अत एव भाष्यवर्त्तिकविरोधात् "गमेरिट्'' इत्यत्र परस्मैपदग्रहणं गम्युपलक्षणार्थम् परस्मैपदेषु यो निर्दिष्ट इति पुरुष ( 1 ) ( 1 ) परिशेषकार इति 2 पु पाठः कारदर्शनमुपेक्ष्यं, वृत्तावयं पक्षः प्रतिक्षेपार्थमेव उपक्षिप्तः यदाह तत्र हरदत्तः न पुनरयं पक्षः स्थापितो भाष्यवार्त्तिकविरोधादिति कः पुनरत्र फलभेदः उच्यते सम्पूर्वस्याकर्मकस्य गमेः "समो गमृच्छि'' इत्यात्मनेपदित्वात् परस्मैपदेष्वदर्शनात् संजिगमिषिते इत्यादौ इण् न स्यात्, तथा जिगमिषां चक्र इत्यत्र भावकर्मविषयस्य गमेः परस्मैपदेष्वदर्शनात् इण्न स्यात् अथ मतं परस्मैपदेषु दृष्ट एव गमिः उपसर्गादिवशेनात्रात्मनेपदेऽ( 2 ) ( 2 ) पीड्भवतीति 2 पु पा पीति इद्भविष्यतीति तर्ह्यस्य गमेः सर्वत्रेट्. स्यात्, गंस्यते स विशेष इति भाष्यप्रयोगश्च विरुद्ध्येत कथंतर्ह्यात्मनेपदेन समानपदस्थस्येण्निषेधे जिगमिषितेवाचरति जिगमिषितीयत इति हरदत्तादय बहिरङ्गस्य आत्मनेपदस्य प्रतिषेधाभाव इति अयं च प्रकारो ऽस्माभिः क्रमतावुपपादितः ( जङ्गम्यते ) "नित्यं कौटिल्ये गतौ'' इति गतिवचनत्वात् कौटिल्यएव यङ्, "नुगतः'' इत्यभ्यासस्य नुक्यनुस्वारपरसवर्णौ ( जङ्गमीति जङ्गन्ति जङ्गतः ) "अनुदात्तोपदेश'' इत्यनुनासिकलोपः ( जङ्गमति ) प्रकृतिग्रहणन्यायेन "गमहन'' इत्युपधालोपः (जङ्गन्मि जङ्गन्वः ) "म्वोश्च''इति नत्वम् जङ्गहीत्यत्रानुनासिकलोपे तस्य "असिद्धवदत्रा'' इत्यसिद्धत्वात् "अतो हेः'' इति लुग् न भवति अत्र सुधाकरः अनुदात्तोपदेशा यम्यादय इति यम्यादेर्गणत्वेन निर्देशात् निर्दिष्टं यद्गणेन चेत्यनुनासिकलोपाभावमुक्त्वा यदा धातुपाठएव गणस्तदा भवतिव्यमेव लोपेनेत्याह "हन्तेर्जः'' इत्यत्र जहीत्युदाहरणे न्यासकारोऽपि व्याख्यातवान् निर्देशेन गणनिर्देशं नानुमन्यते अत एव न्यासकारसुधाकरविरोधात् श्तिपा शपेत्यत्र यत्रोपदेशग्रहणमिति क्वचित्पाठःस उपेक्ष्यः (अजङ्गन्) "मो नो धातोः'' इति नत्वम् ( गमयति अजीगमत् ग्रामं देवदत्तं यज्ञदत्तः' ग्रामायेति वा ) "गतिबुद्धि'' इति प्रयोज्यस्य कर्मत्वम्, अत्र "गत्यर्थकर्मणि''इति ग्रामात् द्वितीयाचतुर्थ्यौ ग्रामश्चात्र गमेरेव कर्म, यतो ग्रामकर्मिकायां गतौ प्रेष्यते ग्रामं गच्छतीति, प्रयोज्यस्तु ण्यन्तस्य कर्म न गमेरिति न तत्र चतुर्थी भवति अत्र कर्मणि लादयो "ण्यन्ते कर्त्तुश्च कर्मण''इत्यभिधानात् प्रयोज्ये भवन्ति गम्यते ग्रामं देवदत्तः गमयितव्य इत्यादि, अत्र कृद्योगलक्षणा षष्ठी "गत्यर्थकर्मणि'' इत्यत्र चतुर्थी चेति वक्तव्येति द्वितीयाग्रहणात् बाध्यते, यद्वा "कृत्यानाम्'' इत्यत्र योगविभागेन उभप्राप्तौ कृत्ये षष्ठी नेत्युक्तत्वात् कर्तृवत् कर्मण्यपि षष्ठ्या नैव प्रसङ्ग ग्रामं गन्ता गमयितेत्यादौ तु पुनर्द्वितीयाग्रहणादेव षष्ठ्या बाधः अत्रानध्वनीति पर्युदासात् अध्ववचनेभ्यो यथायोगं द्वितीयाषष्ठ्यावेव भवतः, अध्वानं गच्छति पन्थानंगच्छति अध्वनो गन्ता पथो गन्ता इति अयं चानध्वनीति प्रतिषेध अस्थितप्रतिषेधश्चायं विज्ञेय इति वृत्तावुक्तत्वात् आस्थितिविषयः, आस्थितः प्रथममेव स्वीकृतः, तेन यदोत्पथेन पन्थानं गच्छति तदा ग्रामादिवत् द्वितीयाचतुर्थ्यै द्वे अप्युदाहार्य, द्वितीयया षष्ठ्या बाधेऽपि चेष्टाग्रहणं मनसा पाटलिपुत्रं गच्छतीत्यादौ चतुर्थीनिवृत्त्यर्थम् आगमयते माणवकः, कालं हरत न त्वरते इत्यर्थः [ आगमेः क्षमायामत्मनेपदं, वक्तव्यम् ] इति ण्यन्तात्तङ्, क्षमा उपेक्षा, कालहरणमिति वृत्तिः ण्यन्त एवायमत्रार्थे च वर्त्तत इति तस्योदाहरणम्, ( सङ्गच्छते, ) "समोगमृच्छि''इत्यकर्मकात्तु सङ्गमेः तङ् (सञ्जग्मे सञ्जग्माते) "गमहन''इत्युपधालोपः ( सङ्गम्ता सङ्गंस्यते सङ्गच्छताम् समागच्छत सङ्गच्छेत) आशिषि (संङ्गंसीष्ट) लुङि समगत समगंस्त समगंसाताम् ) "वा गम'' इति झलाद्योर्लिङ्सिचोरात्मनेपदविषये वा कित्त्वं, तदा "अनुदात्तोपदेश'' इत्यनुनासिकलोपः झलि, "ह्रस्वादङ्गात्'' इति सिज्लोपः न चास्मात् पूर्वम् "अतो लोपः''इत्यल्लोपस्य प्रसङ्गः, आर्द्धधातुकोपदेशे ऽनकारान्तत्वात् "असिद्धवदत्रा'' इत्यनुनासिकलोपस्यासिद्धत्वाद्वा, सर्वत्र गमेरात्मनेपदेन समानपदस्थत्वात् सकारादेरिडभावः( सञ्जिगंसते ) अत्र "अज्झन''इति दीर्घो न भवति, आदेशस्य गमेर्ग्रहणात्यत्तु तरङ्गिण्यां दीर्घप्रदर्शनं, तद्गमेर्दीर्घे इतिङ्हणमग्रहणे ह्यनादेशस्यापि दीर्घत्वप्रसङ्गात् इति वार्त्तिकविरोधादुपेक्ष्यं, (गम्यम्) "पोरदुपधात्'इति यत् सुतङ्गमो नाम कश्चित् "गमश्च''इति सुप्युपपदे संज्ञायां खच् "अरुर्द्विषदजन्तस्य'' इति मुम् सुतङ्गमेन निर्वृत्तःसौतङ्गमिः"वुञ्छणकठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्चक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः'' इति यथासंख्यात् सुतङ्गमादेश्चातुरर्थिकइञ् (अन्तगः) "अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः'' इति अन्तादिषु गमेर्डः कर्मसूपपदेषु, डित्त्वसामर्थ्यादभत्वेऽपि टिलोपः एवमत्यन्तग इत्युदाहार्यम् (सर्वत्रगः पन्नगः) [सर्वत्रपन्नयोरुपसंख्यानम् ] इति ङः उरसा गच्छतीत्युरगः "उरसो लोपश्च' इति डप्रत्ययः, उरसः सलोपश्च ( सुखेन गच्छतीति सुगः दुर्गः ) "सुदुरोरधिकरणे'' इति ङः अत्र न्यासे वासरूपविधिना ल्युडित्युक्तम् तदयुक्तम् [क्तल्युट्तुमुन्खलर्थेषु वासरूपविधेः प्रतिषेधः] इत्युक्तत्वात् अधिकरणादन्यत्र सुगम इति खलेव भवति निर्गच्छन्त्यत्रेति निर्गोदेशः "निर्गो देशे'' इति ङः, देशादन्यत्र निर्गमनमिति ल्युट् भवति (ग्रामगः) [ डोऽन्यत्रापि दृश्यत ] इति डः मितं गच्छतीति मितङ्गमो हस्ती, खच्प्रकरणे [ गमेः सुप्युपसंख्यानम् ] इति खच् ( विहङ्गमः ) "विहायसो विहश्च'' इति खचि विहायसश्च विहादेशे मुमागमः ( विहङ्गः ) [ खश्च डिद्वा वक्तव्य ] इति खचो डित्त्वाट्टिलोपः, ( विहगः ) "डे च विहायसो विहादेशे'' इति विहादेशः अस्मादेवानुवादात् "डोऽन्यत्रापि दृश्यत' इति वा डः ( गामुकः ) "लषपत''इत्यादिना उकञ् ( गत्वरः ) "गत्वरश्च'' इति क्वरपि अनुनासिकलोपो निपात्यते ( गत्वरी ) "टिड्ढाणञ्'' इत्यादिना ङीप् ( जग्मिः ) "भाषायां धाञ्कृसृगमि'' इति किकिनोरन्यतरस्मिन् उपधालोपः, लिङ्वद्भावात् द्विर्वचनम् ( जगत् ) "द्युतिगमिजुहोतीनां द्वे च'' इति क्वौ द्विर्वचनम् "गमः क्वौ'' इत्यनुनासिकलोपः, स्त्रियां-"वर्त्तमाने पृषद्बृहन्महत्जगत्सरसां शतृवच्च'' इति शतृवद्भावान्ङीष् उत्सादिषु जगतीति पाठात् जगत्या अपत्यादिषु जागतम् "उत्सादिभ्योऽञ्'' इति प्राग्दीव्यतोञ् प्रत्ययः जगत इदं जागतमित्यत्र अचामादिरचो वृद्ध्या उपधालक्षणा वृद्धिर्बाध्यते इति वृत्तिः जगत्येव जागतं छन्दः छन्दसः प्रत्ययविधाने [ नपुंसके स्वार्थउपसंख्यानम् ] इत्यञ् ( अध्वगत् कलिङ्गत् ) "अन्येभ्योऽपि दृश्यते'' इति क्किपि अनुनासिकलोपः अग्रे गच्छत्यग्रेगूः "ऊङ् गमादीनाम्'' इति क्वौ अनुनासिकलोपे अकारस्योकारः, अयं च धातोरुकारइति अग्रेग्वावित्यादावुवङादेशे प्राप्ते "ओः सुपि'' इति यण् "तत्पुरुषे कृति'' इत्यलुक् ( गमी ) "गमेरिन्'' इति "भविष्यति गम्यादयः'' इति भविष्यदर्थे च ( आगामी ) आङि च णिदिति णित्त्वात् वृद्धिः अयमपि गम्यादिपाठात् भविष्यति, अयं बाहुलकात् केवलादपीति गामीत्यपि भवति ( ग्रामगमी ग्रामगामी ) श्रितादिषु गमिगामीत्यादिना तत्पुरुषः "अकेनोर्भविष्यदाधमर्ण्ययोः'' इति कृद्योगलक्षणां षष्ठीं बाधित्वा एतयोर्योगे द्वितीया (गमः) "ग्रहवृदृनिश्चिगमश्च'' इति भावे कर्त्तरि च कारकेअप्रत्ययः एकाहेन गम्यतइत्येकाहगमः "अश्वस्येकाहगमः'' इति निपातनादप् अन्यथात्र "परिमाणाख्यायां सर्वेभ्यः'' इति परिमाणस्य गम्यमानत्वात् घञ् स्यात् अत्र सर्वग्रहणमजपोर्बाधनार्थमित्युक्तम् (निगमः) "गोचर'' आदिना करणाधिकरणयोर्घः (गत्वा) "अनुदात्तोपदेश'' इत्यादिना अनुनासिकलोपः (आगम्य आगत्य) "वा ल्यपि''इतिअनुनासिकलोपविकल्पः ( गतम् ) "क्तोऽधिकरणे च'' इति कर्त्तृ कर्मभावाधिकरणेषु क्तः ( ग्रामगतः ) "द्वितीयाश्रित'' इति तत्पुरुषः गतं च तत्प्रत्यागतञ्च गतप्रत्यागतम् [ कृतापकृतादीनामुपसंख्यानम् ] इति तत्पुरुषः गतमेव तत्कालं गतप्रत्यागमनेन गतप्रत्यागतमुच्यते (गन्तुः( 1 ) ( 1 ) गन्तासीत्यधिकम् 2 पु "तनिगमि'' इत्यादिना तुन् (गान्त्रम्) "भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च'' इति ष्ट्रनि वृद्धिः गन्त्री कम्बलिवाह्यं शकटम् बाहुलकात् वृद्ध्यभावः तृतृचावित्यादिना सज्ञायां तृतृचोरन्यतरो वा कम्बलः सास्ना तद्योगान्मत्वर्थीयेनिना कम्बलिनो बलीवर्दा उच्यन्ते तथा च रभसः-"प्रवारेऽप्युत्तरासङ्गे सास्नायामपि कम्बलः' इति (गात्रम्) "गमेरा च'' इति ष्ट्रनि मकारस्याकारः, ( सुगात्री सुगात्रा ) "स्वाङ्गाच्चोपसर्जनात्'' इत्यत्र अङ्गगात्रकण्ठेभ्य इति पक्षे ङीष् (गौः) "गमेर्ङोः'' इति डोप्रत्यये डित्त्वात् टिलोपः "गोतो णित्'' इति सर्वनामस्थानस्य णित्त्वात् वृद्धिः अम्शसोस्तु "औतोऽम्शसोः''इति पूर्वपरयोराकारे गां गा इति, "तस्माच्छसो नः पुंसि'' इत्यत्र तच्छब्देनप्रथमयोः पूर्वसवर्णदीर्घस्य परामर्शनादिह नत्वं न भवति ङसिङसोस्तु "ङसिङसोश्च'' इति ङसोरेङश्च पूर्वरूपे गोरिति, (गवां समूहो गव्या गोत्रा) "खलगोरथात्'' इति यः, "इनित्रकठ्यचश्च'' इति यथा संख्यात्रस्यभावात्, स्त्रीलिङ्गौ, यकारादौ प्रत्यये "वान्तो यि'' इत्यवादेशः (गोत्रोऽस्यास्तीति गौत्रिकः, ) "एकगोपूर्वाट्ठञ् नित्यम्'' इति मत्वर्थे ठञ्(गोमी)"ज्योत्स्नातमिस्राशृङ्गिणोर्ज्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः'' इति मत्वर्थे मिनिप्रत्यये निपात्यते गोर्विकारोऽवयवो वा गव्यम् "गोपयसोर्यत्'' इति षष्ठ्यन्तात् विकारावयवयोर्यत् ( गोः पुरीषं गोमयम् ) गोः पुरीषे मयट्, ( गवे हितं गव्यम् ) ( सूत्रम्) उगवादिभ्यो यत् (इति सूत्रम्) इति प्राक्क्रीतीयो यत् गोर्निमित्तं संयोग उत्पातो वा गव्यः प्राणिनां शुभस्य अशुभस्य वा सूचको महाभूतविकार उत्पातः ( सूत्रम्) गोद्व्यचोसंख्यापरिमाणाश्वादेर्यत् (इति सूत्रम्) इति यत् गोशब्दात्संख्याश्वादिवर्जितात् द्व्यचश्च तस्य निमित्तं संयोग उत्पातो वेति विषये यदिति सूत्रार्थः ( गोरिदं गव्यम् ) [ "सर्वत्र गोरजादिप्रत्यये यद्वक्तव्यः' ] इति प्राग्दीव्यतीये वार्थे यत् एवं च तत्र तत्रार्थे सूत्रेण यद्विधानं प्रपञ्चार्थम् दादराश्च गावश्च गावश्च दारगवम् द्वन्द्वात् "अचतुर'' इत्यादावचि निपातितः अनुगवं शकटम् गौर्यथा आयतं तथायतमित्यर्थः "अनुगवमायाम'' इति अनुगुशब्दादचि निपात्यते इह आयाम इति अर्शआद्यजन्तः, तद्वति वर्त्तते अनुगुशब्दश्चायं ( सूत्रम्) यस्य चायामः (इति सूत्रम्) इति अव्ययीभावः, अनुर्यस्यायामवाची तेनान्यस्यायामवतो लक्षणभूतेन समस्यतइति सूत्रार्थः इह गोरायामः शाकटायामस्य लक्षणं भवति (आगवीनः) गवा भूतो य आगतः य प्रत्यर्पणात् कर्म करोति स एवमुच्यते आगवीन इति आगुशब्दात् कारिणिखप्रत्यये निपात्यते आगुशब्दश्च "आङ्मर्यादाभिविध्योः'' इति आङो मर्यादावचनस्य पञ्चम्यन्तेन गोशब्देन गोप्रत्यर्पणे वर्त्तमानेनाव्ययीभावे पञ्चमी, "आङ् मर्यादावचने'' इति आङः कर्मप्रवचनीयत्वे तद्युक्तत्वात् "पञ्चम्यपाङ्परिभिः'' इति विधीयते, गोः पश्चात् अनुगु, "अव्ययं विभक्ति'' इत्यादिना पश्चादर्थेऽव्ययीभावः अनुग्वलं पर्याप्तं गन्तुं शीलमस्य अनुगवीनो गोपालकः "अनुग्वलं गामि'' इति क्रियाविशेषणाद् द्वितीयान्तादलङ्गामीत्यर्थे खः तिष्ठन्ति गावो यस्मिन् काले दोहनाय स कालस्तिष्ठद्गु वहन्ति आगच्छन्ति गावो दोहनाय यस्मिन् स कालः वहद्गु श्रयन्ति यस्मिन्काले गोदोहनाय स कालः श्रयद्गु, इति आयन्ति यस्मिन् काले दोहनाय स कालः अयद्गु इति "तिष्ठद्गुप्रभृतीनि च'' इति अव्ययीभावे निपात्यते (परमगवः) "सन्महत्परम'' इति तत्पुरुषे "गोरतद्धितलुकि'' इति टच् टित्वात् स्त्रियां परमगवी अतद्धितलुकीति वचनात् पञ्चभिर्गोभिः क्रीतः पञ्चगुरित्यत्र टच् न भवति अत्र हि "आर्हादगोपुच्छसंख्यापरिणाट्ठक्'' इति गोपुच्छादिव्यतिरिक्तात् प्रातिपदिकात् यथायथं समर्थयुक्तात् आर्हीयेष्वर्थेषु विहितस्य ठकः "अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायाम्'' इति लुक् क्रियते, द्विगुत्वं च "तद्धितार्थोत्तरपद'' इति समासे "सख्यापूर्वो द्विगुः'' इति द्विगोश्च "द्विगुश्च'' इति तत्पुरुषत्वात् अस्ति टचः प्रसङ्गः, पञ्चगवधन इत्यत्र पञ्च गावो धनमस्येति त्रिपदे बहुव्रीहौ "तद्धितार्थोत्तरपद'' इति पूर्वयोः समासे संख्यापूर्वत्वेन द्विगुत्वात् तत्पुरुषत्वे टच् पञ्चानां गवां समाहारः पञ्चगवम् "तद्धितार्थ''इति समासे पूर्ववत् द्विगुतत्पुरुषयोश्च टच्, अत्र समासार्थादुत्तरपदादकृत एव समासे समासान्ता इति अकारान्तोत्तरपदद्विगुत्वात् [ आकारान्तोक्तरपदो द्विगुः स्त्रियां भाष्यत ] इति प्राप्तस्य स्त्रीत्वस्य [पात्रादिभ्यःप्रतिषेध]इति निषेधः ( चित्रा गावो यस्य चित्रगुः ) "गोस्त्रियोरुपसर्जनस्य'' इति उपसर्जनगोशब्दान्तप्रातिपदिकत्वात् ह्रस्वः, अत्र "गोः पूर्वत्वणित्त्वात्वस्वरेषु''इति स्थानिवत्त्वनिषेधात् न गोतो णित्त्वम् ननु तत्कालव्यावृत्त्यर्थाद् गोत इति तपरकरणादेव न भविष्यति, अस्त्वत्र परिहारः चित्रगो चित्रगव इत्यत्र सम्बुद्धौ "जसि च'' इति गुणे विकृतं गोरूपमिति स्याण्णित्त्वं नन्वेवमत्राप्यनेन निषेधेन स्थानिवत्त्वकृतमेव णित्त्वं निवार्यतां न तु स्वाश्रयमपीति गोरूपस्याव्याहततत्वात् तदाश्रयं णित्त्वं स्यादेव, नैष दोषः यदत्र गोरूपस्य लाक्षणिकत्वाल्लक्षणप्रतिपदोक्तपरिभाषया तदपि न भविष्यति वृत्तौतुगोत इति षष्ठ्यन्तमाश्रित्य गोशब्दार्थसम्बन्धिसर्वनामस्थानं णिदिति व्याख्यातमत्र मते न कुत्रापि णित्त्वप्रसङ्गः यदत्र सर्वनामस्थानं तदन्यपदार्थंस्य, सम्बन्धिनो गोशब्दार्थस्य, तपरकरणं त्वोकारान्तोपलक्षणार्थं, वर्णनिर्देशेषु प्रसिद्धत्वात्, तेन द्योशब्दस्यापि णित्कार्यं भवति, अपरे तु ओत इति पठन्तीति चोक्तं वृत्तौ ( गोऽयम् गोअयम् ) "सर्वत्र विभाषा गोः'' इति छन्दसि भाषायां चाति परे वा प्रकृतिभावः अन्यदा "एङः पदान्तादति'' इति पूर्वत्वम् ( गवाग्रम् ) "अवङ् स्फोटायनस्य'' इति अवङादेशः, अयं च व्यवस्थितविभाषात्वात् गवाक्षमित्यत्र नित्यः, चित्रग्वप्रमित्यत्र "गोः पूर्व''इति स्थानिवत्त्वनिषेधान्न प्रकृतिभावादि (गवाश्वम् गवाविकम् गवैडकम् ) अत्र "गवाश्वप्रभृतीनि च'' इति समाहार एव द्वन्द्वः, अयं च नियतो गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्वे वृत्तमिति वृत्तावुक्तत्वात् अवङभाव इति "विभाषा वृ9'' इत्यादिना पशुद्वन्द्वं विभाषैव तेन गोश्वं गोश्वा इत्यादि (गङ्गा) "गन् गम्यादेः'' इति गन् प्रत्ययः ( गङ्गाया अपत्यं गाङ्गेयः ) "शुभ्रादिभ्यश्च'' इत्यत्र चकारेणाकृतिगणत्वद्योतनाठ्ठक् तिकादिपाठादपत्येति फिञि गाङ्गायनिरित्यपि भवति (सर्पति ससर्प ससृपतुः ससर्पिथ ससृपिव)क्रादिनियमादिट् (स्रप्ता सर्प्ता सर्प्स्यति स्रप्स्यति) "अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्'' इति, झलादावकिति प्रत्यये पक्षे मित्त्वादन्त्यादचः परेऽमागमे यणादेशः अन्यदागुणः ( सर्पतु असर्पत् सर्पेत् आशिषि सृप्यात् असृपत् असृपताम्) लृदित्वादङ् सिसृप्सति "हलन्ताच्च'' इति सनः कित्त्वान्नगुणो नाप्यमागमः सरीसृप्यते "रीगृत्वतः'' इति रीक् (सरीसृपीति सरीसर्प्ति सरीस्रप्ति ) प्रकृतिग्रहणन्यायेन "अनुदात्त'' इति अमागमः' ( सरीसृपः ) पचाद्यचि "यङोचि च'' इति यङो लुकि "न धातुलोपः'' इति लघूपधगुणाभावः, यङ्लुगन्तात् इगुपधलक्षणः को वा ( सर्पयति अससर्पत् असीसृपत्) "उरृत्''वा (सृप्यः) "ऋदुपधाच्च'' इति क्यप् ( सर्पः) पचादित्वादच् ( स्रप्ता सृप्तः ) पीठेन स्रप्तुं शीलमस्येति पीठसर्पी, णिनिः "सुप्यजातौ'' इति (पीठसर्पिण इमे पैठसर्पा ) "इनण्यनपत्ये'' इति प्रकृतिभावं बाधित्वा "नान्तस्य टिलोपे पीठसर्पि'' इत्यादिना टिलोपः (सर्पिः) "अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसि'' इतीस्प्रत्ययः ( प्रियसर्पिष्कः ) उरःप्रभृतित्वात् नित्यं कप् "इणः षः'' अपदाद्योः कुप्वोविंसर्जनीयस्य षत्वम् ( सृप्रः ) "ऋज्रेन्द्र'' इत्यादिना रक् 963
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
कृदन्तरूपमाला
Sanskrit1 {@“गमॢ गतौ”@} 2 गामकः-मिका, 3 गमकः-मिका, 4 जिगमिषकः-षिका, 5 जङ्गमकः-जंगमकः-मिका
गन्ता-त्री, गमयिता-त्री, जिगमिषिता-त्री, जङ्गमिता-त्री
6 गच्छन्-न्ती, गमयन्-न्ती, 7 जिगमिषन्-न्ती
-- 8 गमिष्यन्-न्ती-ती, गमयिष्यन्-न्ती-ती, जिगमिषिष्यन्-न्ती-ती
9 सङ्गच्छमानः, गमयमानः, 10 आगमयमानः, 11 सञ्जिगंसमानः, जङ्गम्यमानः
सङ्गंस्यमानः, गमयिष्यमाणः, आगमयिष्यमाणः, सञ्जिगंसिष्यमाणः, जङ्गमिष्यमाणः
12 अङ्गगत्, 13 मार्गगत्, अग्रेगूः, 14 जगत् 15 16 अग्रेगाः
17 गतम्- 18 गतः- 19 प्रगतः-तवान्, 20 अन्तिकादागतः-अभ्याशादागतः- दूरादागतः-विप्रकृष्टादागतः, गमितः, जिगमिषितः, जङ्गमितः-तवान्
गमः, 21 सुतङ्गमः, 22 अन्तगः, 23 अत्यन्तगः, अध्वगः, दूरगः, पारगः, सर्वगः, अनन्तगः, सर्वत्रगः, 24 पन्नगः 25 उरगः, सुगः, 26 दुर्गः 27 निर्गः, 28 29 30 स्त्र्यगारगः-ग्रामगः, भुजङ्गः 31 -भुजङ्गमः-भुजगः, तुरङ्गमः-तुरगः-तुरङ्गः, हृदयङ्गमः, 32 विहङ्गः-विहङ्गमः, जग्मिः, 33 जग्मिवान् 34 -जगन्वान्, 35 गमी- 36 आगामी-गामी, 37 गत्वरः 38 - 39 गत्वरी, 40 41 गामी, 42 नगः, 43 44 45 पद्गः 46 प्लवङ्गः, विहगः, 47 अध्वगामी, 48 अग्रेगावा 49, 50 गामुकः, 51 52 हंसगामिनी, 53 54 सुगन्मा, 55 जनङ्गमः, गमः, जिगमिषुः, 56 जङ्गमः
57 गन्तव्यम्, गमयितव्यम्, जिगमिषितव्यम्, जङ्गमितव्यम्
58 प्रगमनीयम्, 59 प्रगमनीयम्, जिगमिषणीयम्, जङ्गमनीयम्
60 61 गम्यम्, गम्यम्, जिगमिष्यम्, जङ्गम्यम्
ईषद्गमः- 62 दुर्गमः-दुरधिगमः-सुगमः
-- -- गम्यमानः, गम्यमानः, जिगंस्यमानः, जङ्गम्यमानः
63 गमः, 64 एकाहगमः, 65 निगमः, 66 अभिगमः, 67 आगमः, गमः, जिगमिषः, जङ्गमः
गन्तुम्, गमयितुम्, जिगमिषितुम्, जङ्गमितुम्
गतिः, 68 अग्रगामिका, गमना, जिगमिषा, जङ्गमा
69 प्रगमनम्, प्रगमनम्, जिगमिषणम्, जङ्गमनम्
गत्वा, गमयित्वा, जिगमिषित्वा, जङ्गमित्वा
अवगत्य- 70 अवगम्य, 71 अवगमय्य, सञ्जिगंस्य, प्रजिगमिष्य, सञ्जङ्गम्य
72 गामम् २, गत्वा २, 73 गमम् २, गामम् २, गमयित्वा २, जिगमिषम् २, जिगमिषित्वा २, जङ्गमम् २
जङ्गमित्वा २
74 इत्यादिना तुन्प्रत्ययः।
गन्तुः = पथिकः।
आगन्तुः--अतिथिः।]] गन्तुः-आगन्तुः, 75 इति डोप्रत्ययः।
गच्छतीति गौः।]] गौः, 76 इति त्रन्प्रत्ययः।
गात्रं = शरीरम्।]] गात्रम्।
01 (३७६)
02 (१-भ्वादिः-९८२। अक। अनि। पर।)
03 [[१। ‘जनीजॄष्क्रसु--’ (ग। सू। भ्वादौ) इत्यादिना अमन्तत्वेनास्य धातोर्मित्त्वम्। ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वः। एवं ण्यन्ते सर्वत्र बोध्यम्।]]
04 [[२। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इति सन इडागमः। तत्र ‘परस्मैपदेषु’ इत्यस्य तङानयोरभावे--इत्यर्थः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05 [[३। ‘यस्य हलः’ (६-४-४९) इति यङो यकारस्य लोपः। ‘अतो लोपः’ (६-४-४८) इत्यकारलोपः। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इत्यभ्यासस्य नुगागमः। यङवयवाकारलोपस्य स्थानिवद्भावेनाजादिक्ङित्प्रत्ययपरकत्वात् ‘गमहन--’ (६-४-९८) इत्युपधालोपो न शङ्क्यः। तत्र, ‘अनङि’ इति पर्युदासेन, औपदे- शिकाजादिप्रत्यये एव लोप इति भट्टोजिदीक्षितैः ‘न धातुलोप--’ (१-१-४) इत्यत्रोक्तत्वात्। तदनुसारेण अकारलोपाघटितानि रूपाणि प्रदर्शितानि। नागेश- भट्टैस्तु--औपदेशिकाजादावित्यर्थो नाश्रितः। अतः ‘जङ्ग्मकः’ इति रूपं, ‘न धातुलोप--’ (१-१-४) इति सूत्रे उद्योते प्रदर्शितम्। प्राचीननवीनयोर्बहुषु लक्ष्येषु आशयमेदो यथा भवति, तथाऽत्रापीति बोध्यम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06 [[४। ‘इषगमियमां छः’ (७-३-७७) इति शिति प्रत्यये धातोः छकारादेशः। ‘छे च’ (६-१-७३) इति तुक्। तस्य चर्त्वेन चकारः।]]
07 [[आ। ‘पारं जिगमिषन् सोऽथ पुनरावर्त्स्यतां द्विषाम्। मत्तद्विरदवद् रेमे वने लङ्कानिवासिनाम्।।’ भ। का। ९-४३।]]
08 [[५। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इतीडागमः।]]
09 [[६। ‘समो गम्यृच्छिभ्याम्’ (१-३-२९) इति शानच्।]]
10 [[७। ‘आगमेः क्षमायामात्मनेपदं वक्तव्यम्’ (वा। १-३-२१) इति ण्यन्तात् आङ्पूर्वका- दस्मात् आत्मनेपदमेव।]]
11 [[८। सम्पूर्वकत्वेन आत्मनेपदनिमित्तसद्भावादिडागमो न। ‘अज्झनगमां सनि’ (६-४-१६) इति दिर्घस्तु--अजादेशगमेरेव, न त्वस्य।]]
12 [पृष्ठम्०३७०+ ३४]
13 [[१। ‘गमः क्वौ’ (६-४-४०) इत्यनुनासिकलोपे ‘ह्रस्वस्य पिति--’ (६-१-७१) इति तुक्।]]
14 [[२। ‘ऊङ् च गमादीनाम्--’ (वा। ६-४-४०) इत्यनुनासिकलोपः ऊकारादेशश्च।]]
15 [[३। ‘द्युतिगमिजुहोतीनां द्वे च’ (वा। ३-२-१७८) इति क्विपि द्विर्वचनम्, अनुनासिक- लोपः। तुक्।]]
16 [[४। ‘जनसनखनक्रमगमो विट्’ (३-२-६७) इति विट्। ‘विङ्वनोरनुनासिकस्यात्’ (६-४-४१) इत्यनुनासिकस्याकारादेशः। सवर्णदीर्घः। अग्रगामी इत्यर्थः।]]
17 [[५। ‘क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणे क्तः। ‘इदमेषां गतम्’ इत्यधिकरणे। ‘गत्यर्थाकर्मक--’ (३-४-७२) इति कर्तरि क्तः ‘देवदत्तो गतः’ इत्यत्र। ‘गतमनेन’ इत्यत्र भावे क्तः। ‘अनुदात्तोपदेश--’ (६-४-३७) इत्यनुनासिकलोपः। एवं क्तिन्यपि।]]
18 [[आ। ‘ततो मन्दगतः पक्षी तेषां प्रायोपवेशनम्। अशनीयमिवाशंसुः महानायादशोभनः।।’ भ। का। ७-७९।]]
19 [[६। ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति आदिकर्मणि क्तः। गन्तुमारब्धवान् इत्यर्थः।]]
20 [[७। ‘पञ्चम्याः स्तोकादिभ्यः’ (६-३-२) इति पञ्चम्या अलुक्।]]
21 [[८। ‘गमश्च’ (३-३-४७) संज्ञायां खच्। ‘खित्यनव्ययस्य’ (६-३-६६) इति वर्तमाने, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। एवं हृदयङ्गमः, जनङ्गमः इत्यादीनि ज्ञेयानि।]]
22 [[९। ‘अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः’ (३-२-४८) इति डप्रत्ययः। टेर्लोपः। एबम् अत्यन्तग इत्यादि अनन्तग इति पर्यन्तम्।]]
23 [[B। ‘दूरगैरन्तगैर्बाणैर्भवान् अत्यन्तगः श्रियः। अपि सङ्क्रन्दनस्य स्यात् क्रद्धः किमुत वालिनः।।’ भ। का। ६-११०।]]
24 [[१०। ‘सर्वत्रपन्नयोरुपसंख्यानम्’ (वा। ३-२-४८) इति डः।]]
25 [[११। ‘उरसो लोपश्च’ (वा। ३-२-४८) इति डः सकारलोपश्च। उरसा गच्छतीति उरगः सर्पः।]]
26 [[१२। ‘सुदुरोरधिकरणे’ (वा। ३-२-४८) इति डः। सुखेन दुःखेन चात्र गच्छन्तीति सुगः दुर्गः।]]
27 [[C। ‘सुगेषु दुर्गेषु च तुल्यविक्रमैर्जवादहंपूर्विकया यियासुभिः। गणैरविच्छेदनिरुद्धमाबभौ वनं निरुच्छ्रवासमिवाकुलाकुलम्।।’ किरातार्जुनीये-- १४-३२।]]
28 [[१३। ‘निसो देशे’ (वा। ३-२-४८) इति डः। देशविशेषस्य नाम। निरन्तरं गच्छन्त्य- त्रेति अधिकरणे डः।]]
29 [पृष्ठम्०३७१+ ३२]
30 [[१। ‘डप्रकरणे--डोऽन्यत्रापि दृश्यते’ (वा। ३-२-४८) इति डः। एवं गुरुतल्पगः ग्रामगः इत्यादिकं ज्ञेयम्।]]
31 [[२। ‘खच्च डिद्वा वक्तव्यः’ (वा। ३-२-३८) इति वा डित्त्वेन टिलोपः। मुम्। एवं प्लवङ्ग-तुरङ्ग-विहङ्गादयः।]]
32 [[३। ‘विहायसो विह च’ (वा। ३-२-३८) इति विहायसो ‘विह’ इत्यादेशः, खचो डित्त्वं च वा भवति। मुम्। डित्त्वपक्षे ‘विहग’ इति। एवं तुरग-प्लवगादयः।]]
33 [[४। ‘भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः--’ (वा। ३-२-१७१) इति किः, किन् वा प्रत्ययः। तस्य लिड्वद्भावातिदेशात् द्वित्वादिकम्। ‘गमहन--’ (६-४-९८) इत्युपधालोपः।]]
34 [[५। ‘क्वसुश्च’ (३-२-१०७) इति लिटः क्वसुः। द्विर्वचनम्। ‘विभाषा गमहनविद- विशाम्’ (७-२-६८) इतीड्विकल्पः। जगन्वान् इत्यत्र ‘म्वोश्च’ (८-२-६५) इति मकारस्य नकारः।]]
35 [[६। ‘भविष्यति गम्यादयः’ (३-३-३) इति भविष्यत्काले इनिप्रत्ययः। “गमी गामी तथाऽऽगामी प्रयायिप्रतियायिनौ। प्रबोधी प्रतिबोधी च भावी प्रस्थाय्यमी नव।।” इति प्रक्रियासर्वस्वे गम्यादेः परिगणनं कृतम्। ‘आङि च णित्’ (ग। सू। ३-३-३) इति इनिप्रत्ययस्य णिद्वद्भावात् ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः।]]
36 [[आ। ‘साधोरपि स्वः खलु गामिताऽथो गमी न तु स्वर्गमितः प्रयाणे। इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न।।’ नैषधे ६-९९।]]
37 [[७। ‘गत्वरश्च’ (३-२-१६४) इति गमेः क्वरपि अनुनासिकलोपे तुक् निपात्यते तच्छीलादिषु कर्तृषु। स्त्रियां ‘टिड्ढाणञ्--’ (४-१-१५) इति ङीप्।]]
38 [[B। ‘सृमरोऽभङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुः। विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्।।’ भ। का। ७-२२।]]
39 [[C। ‘निद्रावशेन निभृतेक्षणमुत्थितानां द्वित्राणि मन्थरपदान्यपगत्वरीणाम्। काले गृहीतमुचिते रशनाः कथञ्चित् मौनव्रतं जहति मुग्धवधूजनानाम्।।’ यादवाभ्युदये १९-६।]]
40 [व्रजं]
41 [[८। ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इति णिनिः। ‘अकेनोर्भविष्यदाध- मर्ण्ययोः’ (२-३-७०) इति षष्ठीनिषेधः।]]
42 [[९। ‘नगोऽप्राणिष्वन्यतरस्याम्’ (६-३-७७) इति नञ्समासे नलोपाभावो विकल्पेन। पक्षे--अगः। न गच्छतीति नगः पर्वतः। गमेर्डः।]]
43 [[ड्। ‘परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसु। विन्ध्ये तिग्मांशुमार्गस्य चेरुः परिभवोपमे।।’ भ। का। ७-५४।]]
44 [पृष्ठम्०३७२+ ३०]
45 [[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्। अध्यापयन्तं विनयात्प्रणेमुः पद्गाः भरद्वाजमुनिं सशिध्यम्।। भ। का। ३-४१।]]
46 [[१। ‘डोऽन्यत्रापि दृश्यते’ (वा। ३-२-४८) इति गमेर्डप्रत्ययः। ‘पादस्य पदा- ज्यातिगोपहतेषु’ (६-३-५२) इति पद्भावः। पादाभ्यां गच्छन्तीति पद्गाः = पदातयः।]]
47 [[२। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
48 [[३। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्। ‘विड्वनोरनुनासिकस्य--’ (६-४-४१) इत्यात्वे रूपम्। स्त्रियाम् अग्रेगावा इति भवति। ‘वनो न हशः’ (वा। ४-१-७) इति ङीब्रेफादेशनिषेधात्।]]
49 [[B। ‘अग्रेगावा च शूराणाम् अभिभूः सर्वविद्विषाम्। शंस्थरूपः स्थिरप्रज्ञः पपात सहसा भुवि।।’ भ। का। ६-१२५।]]
50 [[४। ‘लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ (३-२-१५४) इति तच्छीलादिषु कर्तृषु उकञ्। स्त्रियां गामुका इति रूपम्।]]
51 [[C। ‘अतीते वर्षुके काले प्रमत्तः स्थायुको गृहे। गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्।।’ भ। का। ७-१८।]]
52 [[५। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः। हंस इव गच्छतीति हंसगामिनी।]]
53 [[ड्। ‘योषिद्बृन्दारिका तस्य दयिता हंसगामिनी। दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला।।’ भ। का। ५-१८।]]
54 [[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्। ‘नेड् वशि कृति’ (७-२-८) इतीण्णिषेधः। ‘म्वोश्च’ (८-२-६५) इति मकारस्य नकारः।]]
55 [[E। ‘औदुम्बरे वैदिशनैम्बमुख्ये देशेऽवसन् ये स जनङ्गमौघाः। ये चाघिकौशाम्बि जनास्तदानीमाकस्मिकीं प्रीतिमयासिषुस्ते।।’ वासुदेवविजये ३-१९।]]
56 [[F। ‘आ त्रिकूटमकार्षुर्ये त्वत्का निर्जङ्गमं जगत्।’ दशग्रीव कथं ब्रूषे तानवध्यान् महीपतेः।।’ भ। का। ९-१२६।]]
57 [[७। यङन्तात् पचाद्यच् (३-१-१३४)। ‘यङोऽचि च’ (२-४-७४) इति यङो लुक्।]]
58 [[८। ‘न भाभूपूकमिगमि--’ (८-४-३४) इति निषेधात् ‘कृत्यचः’ (८-४-२९) इति णत्वं न।]]
59 [[९। ‘ण्यन्तभादीनामुपसंख्यानम्--’ (वा। ८-४-३४) इति वार्तिकात् ण्यन्तादपि णत्वं न।]]
60 [पृष्ठम्०३७३+ २८]
61 [[१। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्ययः।]]
62 [[आ। ‘बलिनावमुमद्रीन्द्रं युवां स्तम्बेरमाविव। आचक्षाथामिथः कस्मात् शङ्करेणापि दुर्गमम्।।’ भ। का--६-९३।]]
63 [[२। ‘ग्रहवृदृनिश्चिगमश्च’ (३-३-५८) इति, भावे अकर्तरि च कारके घञपवादोऽप्- प्रत्ययः।]]
64 [[३। एकाहेन गम्यते इत्येकाहगमः = अध्वा। कर्मणि अप्। ‘परिमाणाख्यायां सर्वेभ्यः’ (३-३-२०) इति प्राप्तस्य घञोऽपवादत्वेन ‘अश्वस्यैकाहगमः’ (५-२-१९) इति सूत्रे निपातनादप्।]]
65 [[४। ‘गोचरसंचरवहव्रजव्यजापणनिगंमाश्च’ (३-३-११९) इति घञपवादः घप्रत्ययान्तो निपातः। निगम्यते = ज्ञायतेऽनेन--इति निगमः = वेदः। करणे घः। गत्यर्थानां ज्ञानार्थकत्वात् ज्ञायमानत्वम्।]]
66 [[B। ‘ततः प्रविव्राजयिषुः कुमारम् आदिक्षदस्याभिगमं वनाय। सौमित्रिसीतानुचरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन्।।’ भ। का। ३-९।]]
67 [[C। ‘प्रग्राहैरिव पत्राणामन्वेष्या मैथिली कृतैः। ज्ञातव्या चेङ्गितैर्धर्म्यैर्ध्यायन्ती राघवाऽऽगमम्।।’ भ। का। ७-४४।]]
68 [[५। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति पर्यायार्थे ण्वुच् स्त्रियाम्। ‘अग्रगा- मिका अद्य भवतः।’ अग्रगामिका = अग्रगमनम्।]]
69 [[ड्। ‘हरेः प्रगमनं नास्ति न प्रभानं हिमद्रुहः। नातिप्रवेपनं वायोर्मया गोपायिते वने।।’ भ। का--९-१०७।]]
70 [[६। ‘वा ल्यपि’ (६-४-३८) इति मान्तानिटां धातूनाम्, अनुनासिकलोपविकल्पः। लोपपक्षे तुक्। तेन रूपद्वयम्।]]
71 [[७। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
72 [पृष्ठम्०३७४+ २६]
73 [[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति ण्यन्ताण्णमुलि उपधादीर्घविकल्पः।]]
74 [[२। ‘सितनिगमि--’ [द। उ। १-१२२]
75 [[३। ‘गमेर्डोः’ [द। उ। २-११]
76 [[४। ‘गमेरा च’ [द। उ। ८-८५]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
