| YouTube Channel

गम्भीरवेदी (gambhIravedI)

 
शब्दकल्पद्रुमः
Sanskrit
गम्भीरवेदी, [न्]
पुं,
(गम्भीरं मन्दं यथा स्यात्तथा चिरकालात् इत्यर्थः यद्वा गम्भीरं अङ्कुश-बेधनं निषादिदत्तशिक्षामादेशं वा वेत्तीति विद्+ णिनि ।) दुर्द्धरहस्ती तत्पर्य्यायः अङ्कश-दुर्द्धरः चालकः व्यालकः इति त्रिकाण्ड-शेषः
अवमताङ्कुशः इति हेमचन्द्रः
(यथा, रघौ ३९ ।“स प्रतापं महेन्द्रस्य मूर्द्ध्नि तीक्ष्णं न्यवेशयत् ।अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः
”अस्य लक्षणम् ।“चिरकालेन यो वेत्ति शिक्षां परिचितामपि ।गम्भीरवेदी विज्ञेयः गजो गजवेदिभिः
”इति शब्दार्थचिन्तामणिधृतराजपुत्त्रीयवचनम्
मतभेदेन लक्षणान्तरमपि दृश्यते ।“त्वग्भेदाच्छोणितस्रावात् मांसस्य क्रथनादपि ।आत्मानं यो जानाति स्याद् गम्भीर-वेदिता
”इति रघुटीकायां मल्लिनाथः
)