| YouTube Channel

गन्धाष्टकं (gandhASTakaM)

 
शब्दकल्पद्रुमः
Sanskrit
गन्धाष्टकं,
क्ली,
(गन्धानां गन्धात्मकागुरुचन्दना-दीनां अष्टकम् ।) पञ्चदेवतादेयाष्टप्रकारगन्ध-द्रव्यम् यथा, --“चन्दनागुरुकर्पूरचोरकुङ्कमरोचनाः ।जटामांसी कपियुता शक्तेर्गन्धाष्टकं विदुः
*
चन्दनागुरुह्रीवेरकुष्ठकुङ्कुमसेव्यकाः ।जटामांसी मुरमिति विष्णोर्गन्धाष्टकं विदुः
*
चन्दनागुरुकर्पूरतमालजलकुङ्कुमम् ।कुशीदं कुष्ठसंयुक्तं शैवं गन्धाष्टकं शुभम्
*
स्वरूपं चन्दनं चोरं रोचनागुरुमेव ।मदं मृगद्वयोद्भूतं कस्तूरीचन्द्रसंयुतम् ।गन्धाष्टकं विनिर्द्दिष्टं गणेशस्य महेशितुः
”इति शारदातिलकम्
*
अपि ।“चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदम् ।रक्तचन्दनह्रीवेरं गाणपत्यमुदाहृतम्
*
जलकाश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः ।उशीरागुरुकर्पूरैः सौरं गन्धाष्टकं विदुः
”इति मेरुतन्त्रम्