| YouTube Channel

गन्धर्व्ववेदः (gandharvvavedaH)

 
शब्दकल्पद्रुमः
Sanskrit
गन्धर्व्ववेदः,
पुं,
(वेत्त्यस्मादनेन वा विद् +अपादाने करणे वा वञ् वेदः गन्धर्व्वाणांसङ्गीतविद्योपजीविनां यो वेदंः सामवेदस्योप-वेदविशेषः यद्वा गन्धर्व्वः गन्धर्व्वसम्बद्धिनीगन्धर्व्वकलेत्यर्थः सङ्गीतरूपा विद्या विद्यतेऽनेना-स्माद् वा विद् ज्ञाने + करणे अपादने वा घञ् ।)संगीतविद्या यथा, “ऋग्वेदस्यायुर्व्वेदोपवेदोयजुर्व्वेदस्य धनुर्व्वेदोपवेदः सामवेदस्य गन्धर्व्व-वेदोपवेदोऽथर्व्ववेदस्य शस्त्रशास्त्राणीति ।” इतिशौनकोक्तचरणव्यूहः