| YouTube Channel

गन्धर्व्वः (gandharvvaH)

 
शब्दकल्पद्रुमः
Sanskrit
गन्धर्व्वः,
पुं,
(गन्धं सङ्गीतवाद्यादिजनितप्रमोदंअर्व्वति प्राप्नोतीति अर्व्व गतौ + अण् ।शकन्ध्वादित्वात् अलोपे साधुः ।) स्वर्गगायकः ।स तु देवयोनिः तत्पर्य्यायः गातुः दिव्य-गायनः तद्भेदा यथा, --“हाहा हूहूश्चित्ररथो हंसो विश्वावसुस्तथा ।गोमायुस्तुम्वुरुर्नन्दिरेवमाद्याश्च ते स्मृताः
”इति जटाधरः
*
तस्य एकादश गणा यथा, --“अभ्राजोऽङ्घारिवम्भारी सूर्य्यवर्च्चास्तथा कृधुः ।हस्तः सुहस्तः स्वाञ्चेव मूर्द्धन्वांश्च महामनाः ।विश्वावसुः कृशानुश्च गन्धर्व्वैकादशा गणाः
”इति वह्निपुराणे गणभेदनामाध्यायः
(असौ देवमर्त्यभेदेन गानधर्म्मिगन्धर्व्वोऽपिद्विविधः यथाह शब्दार्थचिन्तामणिः ।“अस्मिन् कल्पे मनुष्यः सन् पुण्यपाकविशेषतः ।गन्धर्व्वत्वं समापन्नो मर्त्यगन्धर्व्व उच्यते
पूर्व्वकल्पकृतात् पुण्यात् कल्पादावेव चेद् भवेत् ।गन्धर्व्वत्वं तादृशोऽत्र देवगन्धर्व्व उच्यते
”तत्र दिव्यगन्धर्व्वो यथा, ऋग्वेदे १० १३९ ।“विश्वावसुरभि तन्नो गृणातुदिव्यो गन्धर्व्वो रजसो विमानः
”तथाच महाभारते १६१ २६ ।“स तमास्थाय भगवान् राजराजो महारथम् ।प्रययौ देवगन्धर्व्वैः स्तूयमानो महाद्युतिः
”मर्त्यगन्धर्व्वः यथा, रामायणे ११ ।“भ्रातरौ स्वरसम्पन्नौ गन्धर्व्वाविव रूपिणौ
”)गुह्यकलोकोपरि विद्याधरलोकस्याधो गन्धर्व्व-लोकः यथा, --“ततो विलोकयामास लोकं लोचनशर्म्मदम् ।शिवशर्म्मा ततः प्राह तुष्टस्तौ विष्णुपार्षदौ
केऽमी जनास्त्वसौ लोकः किन्नाम वदताङ्गणौ
गणावूचतुः ।गान्धर्व्वस्त्वेष लोकोऽमी गन्धर्व्वाश्च शुभव्रताः ।देवानां गायना ह्येते चारणाः स्तुतिपाठकाः
गीतज्ञा अतिगीतेन तोषयन्ति नराधिपान् ।स्तुवन्ति धनाढ्यांश्च धनलोभेन मोहिताः
राज्ञां प्रसादलब्धानि सुवासांसि धनानि ।द्रव्याण्यपि सुगन्धीनि कर्पूरादीन्यनेकशः
ब्राह्मणेभ्यः प्रयच्छन्ति गीतं गायन्त्य हर्निशम् ।स्तुतावेव मनस्तेषां नाट्यशास्त्रकृतश्रमाः
तेन पुण्ये गान्धर्व्वो लोकस्त्वेषां विधीयते ।ब्राह्मणास्तोषिता यद्वै गीतविद्यार्जितैर्धनैः
गीतविद्याप्रभावेण देवर्षिर्नारदो महान् ।मान्यो वैष्णवलोके वै श्रीशम्भोश्चातिवल्लभः
तुम्वुरुर्नारदश्चोभौ देवानामपि दुर्ल्लभौ ।नादरूपी शिवः साक्षात् नादतत्त्वविदौ हि तौ
यदि गीतं क्वचिद्गीतं श्रीमद्धरिहरात्मकम् ।मोक्षन्तु तत्फलं प्राहुः सान्निध्यमथवा तयोः
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ।रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते
अस्मिँल्लोके सदा कालं स्मृतिरेषा प्रगीयते ।तद्गीतमालया पूज्यौ देवौ हरिहरौ सदा
इति शृण्वन् क्षणात् प्राप पुनरन्यं मनोहरम् ।शिवशर्म्माथ पप्रच्छ किंसंज्ञं नगरन्त्विदम्
”इति काशीखण्डम्
*
घोटकः (यथा, महाभारते १६१ २३ ।“रथं संयोजयामासुर्गन्धर्व्वैहेममालिभिः
”)पशुजातिविशेषः तु कस्तूरीमृगः अन्तरा-भवसत्वः इत्यमरः १३२
“अन्तरा-भवसत्वस्तु जन्ममरणयोर्मध्यभवः प्राणी यो मृतोनैव कायान्तरं प्राप्तः नापि जन्म मरण-जन्मनोरन्तरा भवत्वादन्तराभवसत्वः चयातनाशरीरः इत्येके इति मुकुटः गुप्त-प्राणीति केचित् गन्धर्व्वाः पतयो मम इतिविराटे इति रमानाथः ।” इत्यमरटीकायांभरतः
(यथा, महाभारते ३४ ।“न चाप्यहं चालयितुं शक्या केनचिदङ्गने ! ।दुःखशीला हि गन्धर्व्वास्ते मे बलवत् प्रियाः ।प्रच्छन्नाश्चापि रक्षन्ति ते मां नित्यं शुचिस्मिते !
”)पुंस्कोकिलः गायनमात्रम् इति मेदिनी वे ।११
(शिवः यथा, महाभारते १३ १७ ९७ ।“गन्धर्व्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः
”ग्रहविशेषः यथा, सुश्रुते ।“देवास्तथा शत्रुगणाश्च तेषांगन्धर्व्वयक्षाः पितरो भुजङ्गाः ।रक्षांसि या चापि पिशाचजाति-रेषोऽष्टधा देवगणो ग्रहाख्यः
”एतैर्ग्रहैर्ग्रस्तस्य मनुष्यस्य लक्षणं यथा तत्रैव ।“हृष्टात्मा पुलिनवनान्तरोपसेवीस्वाचारः प्रियपरिगीतगन्धमाल्यः ।नृत्यन् वा प्रहसति चारुचाल्पशब्दंगन्धर्व्वग्रहपरिपीडितो मनुध्यः
”अस्योदाहरणं श्रुतावपि यथा, बृहदारण्यके७ ब्राह्मणे जनकगोदानप्रकरणे ।“मद्रेषु चरकाः पर्य्यव्रजाम ते पतञ्जलस्य काप्यस्यगृहानैम तस्यासीद्दुहिता गन्धर्व्वगृहीता
”“मद्रेषु मद्रानाम जनपदास्तेषु चरकाः अध्यय-नार्थे व्रतचरणात् चरका अध्यर्य्यवो वा पर्य्य-व्रजाम पर्य्यटितवन्तः ते वयं पर्य्यटन्तः पत-ञ्जलस्य नामतः काप्यस्य कपिगोत्रस्य गृहानैमगतवन्तः तस्यासीद्दुहिता गन्धर्व्वगृहीता ।गन्धर्व्वेण अमानुषेण सत्वेन केनचिदाविष्टा
*
गाः रश्मीन् वृषणोपयोगीनि वारीणि वा धार-यति इति गो + धृ + वः गोर्गमादेशश्च भाष्यं-कृद्भिर्भगवन्माधवाचार्य्यपादैरित्येवं व्युत्पत्तिकृतेसोमः रश्मिमात्रधारकः उदकधारकसूर्य्यां-शादित्यविशेषः सूर्य्यश्च एते सर्व्वे एव बोधिताइत्यर्थः एतेषां क्रमात्वयेनोदाहरणम् यथा, ऋग्वेदे १६३ ।“गन्धर्व्वो अस्य रशना मगृभ्नात् सूरादश्वंवसवो नितरष्ट
“गन्धर्व्वः सोमः ।” इतिभाष्यम् तत्रैव ५८६ १२ “ऊर्द्ध्वोगन्धर्व्वो अधिनाके अस्थात् विश्वारूपा प्रति-चक्षाणो अस्य
“गन्धर्व्वो रश्मीनां धारकः ।”इति भाष्यम् तत्रैव वेदे ८३ “गन्धर्व्वइत्था पदमस्य रक्षति पाति देवानां जनि-मान्यद्भुतः ।” “गन्धर्व्वः उदकानां स्तुतीनां वाधारक आदित्यः ।” इति भाष्यम् तत्रैव ।८ ११ “वहत् कुत्समार्ज्जुनेयं शतक्रतुः त्स-रद्गन्धर्व्वमस्तृतम् ।” “गन्धर्व्वः गवां रश्मीनांधर्त्तारं सूर्य्यम् इति भाष्यम्
अहः दिवस-समूह इत्यर्थः यथा, भागवते २९ २१ ।“तस्याहानीह गन्धर्व्वा गन्धर्व्व्यो रात्रयः स्मृताः ।”राज्ञां स्तुतिपाठकः यथा, भागवते ११ २० ।“नटनर्त्तकगन्धर्व्वाः सूतमागधवन्दिनः ।गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि
”अनूढानां बालास्त्रीणां भर्त्तृभोगात् प्रागेवप्रथमव्यञ्जद्यौवनोपभोक्तृरूपशरीराधिष्ठातृदेव-विशेषः यथा, ऋग्वेदे १० ८५ ४० ।“सोमः प्रथमो विविदे गन्धर्व्वो विविद उत्तरः ।तृतीयो अग्निष्टे पतिस्तुरीषस्ते मनुष्यजाः
”तथाच पञ्चतन्त्रे २१०-२१३ ।“स्त्रियः पूर्व्वं सुरैर्भुक्ताः सोमगन्धर्व्ववह्निभिः ।भुञ्जते मानुषाः पश्चात् तस्माद्दोषो विद्यते
सोमस्तासां ददौ शौचं गन्धर्व्वाः शिक्षितं गिरम् ।पावकः सर्व्वमेध्यत्वं तस्मानिष्कल्मषाः स्त्रियः
असम्प्राप्तरजा गौरी प्राप्ते रजसि रोहिणी ।अव्यञ्जना भवेत् कन्या कुचहीना नग्निका
व्यञ्जनैस्तु समुत्पन्नैः सोमो भुङ्क्ते हि कन्यकाम् ।पयोधराभ्यां गन्धर्व्वा रजस्यग्निः प्रतिष्ठितः
”)