गन्धर्व्व (gandharvva)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Yates
Englishवाचस्पत्यम्
Sanskritगन्धर्व्व गन्धमामोदमर्वति अर्व--अच् ६ त० शक०, गाः स्तुतिरूपा गीतिरूपा वा वाचः रश्मीन् वा धार-यति धृ--व गोर्गमादेशो वा । १ घोटके २ मृगभेदे कस्तूरी-मृगे ३ अन्तराभवसत्त्वे च अमरः । अन्तराभवसत्वस्तुजन्ममरणयोर्मध्यभवः यातनाशरीरवान्, गुप्तप्राणीवा । “गन्धर्वाः पतयोमम” भा० वि० १० अ० । सैरिन्ध्रीरूपद्रौ-पदीवाक्यम् । अन्तराभवसत्तः सत्वान्तरमध्ये आवेश-कारी सत्वभेद इत्येव युक्तम् । स च सुश्रुते दर्शितो यथा“अथातोऽमानुषप्रतिषेधीयं व्याख्यास्यामः” इत्युपक्रमे“देवास्तथा शत्रुगणाश्च तेषां, गन्धर्वयक्षाः पितरो भुजङ्गाः ।रक्षांसि या चापि पिशाचजातिरेषोऽष्टधा देवगणोग्रहाख्यः” इत्यष्टधा विभज्य । “हृष्टात्मा पुलिनवनान्तरो-पसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः । नृत्यन् वाप्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः”इति तद्ग्रहाविष्टलक्षणमुक्तम् । “ते पतञ्जलस्य काप्यस्यगृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता” शत० ब्रा०१४ । ६ । ३ । १ । “गन्धर्वेणामानुषेण गृहीतां आविष्टा”भा० । ४ एरण्डे भावप्र० “गन्धर्वतैलसिद्धां हरितकीं गोऽ-म्बुना पिबेत्” अस्य व्याख्यायां “गन्धर्वतैलमेरण्डतैलम्”तदुक्तेः तस्य च गन्धर्वरूपमृगभेदपादतुल्यपत्नकत्वात्त-थात्वम् । ५ गायनमात्रे मेदि० । ६ देवगायने देवयोनि-भेदे अमरः । तत्राश्वे “रथं संयोजयामासुर्गन्धर्वैर्हेम-मालिभिः” भा० व० १६१ अ० । “गावः रश्मयः वृष्ट्युदकानिवा धारयति गवि उपपदे धृ--व गेर्गमादेशः इतिता० ब्रा० भाष्ये माधोवोक्तेः ७ रश्मिधारके सोमा-दित्यादौ । “गन्धर्वोऽस्य रसनामगृभ्नात्” ऋ० १, १६३, २, “गन्धर्वः सोमः” भा० । “ऊर्द्ध्वे गन्धर्वो अधिनाके अस्थात्”ऋ० ९, ८५, १२ । “गन्धर्वो रश्मीनां धारकः” भा० ।“गन्धर्व इत्था पदमस्य रक्षति” ९, ८३, ४ । “गन्धर्वः उदकानांस्तुतीनां वा धारक आदित्यः” भा० “शतक्रतुरत्सरत्गन्धर्वमस्तुतम्” ऋ० ८, १, ११ । “गन्धर्वः गवां रश्मीनांधर्त्तारं सूर्य्यम्” भा० “दिव्यो गन्धर्वः केतपूः” यजु० ११, ७, “गां वाचं स्तुतिरूपाम् धारयतीति गन्धर्वः सविता”वेददी० । गायने । “विश्वावसुरसि तन्नोगृणातु दिव्योगन्धर्वः” ऋ० १०, १३९, ५ दिव्य इति विशेषणात् गायनमात्रपरत्वम् । अत एव शब्दार्थचि० “अस्मिन् कल्पेमनुष्यः सन् पुण्यपाकविशेषतः । गन्धर्वत्वं समापन्नोमर्त्यगन्धर्व उच्यते । पूर्वकल्पकृतात् पुण्यात् कल्पादावस्यचेद्भवेत् । गन्धर्वत्वं, तादृशोऽत्र दिव्यगन्धर्व उच्यते”इति गायनरूपगन्धर्वाभिप्रायेण द्वैविध्यमुक्तम् देवयोनिगन्धर्वाश्च वह्निपुराणे एकादशविधा उक्ता यथा“अभ्राजोऽङ्घारिवम्भारी सूर्य्यवर्चास्तथा कृधुः । हस्तःसुहस्तः स्वाम्येव मूर्द्धवांश्च महामनाः । विश्वावसुःकृशानुश्च गन्धर्वैकादशोगणः” ।जटाधरेण तन्नामान्यन्यथोक्तानि यथा “हाहा हूहू-श्चित्ररथो हंसो विश्वावसुस्तथा । गोमायुस्तुम्बुरु-र्नन्दिरेवमाद्याश्चते स्मृताः” । देवगन्धर्व्वाश्च द्विविधाःकेचित् मौनेयाः केचित् प्राधेयाश्च तत्र मौनेयाः कश्य-पपत्न्यां दक्षसुतायां मुनिनामिकायां जाताः षोडश, प्राधे-याश्च प्राधायां तत्पत्न्यां जाता दश इत्येवं भा० आ० ६५ अ०उक्ता यथा “भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा ।गोपतिर्धृतराष्ट्रश्च सूर्य्यवर्च्चाश्च सप्तमः । सत्यवागर्कपर्णश्चप्रयुतश्चाभिविश्रुतः । भीमश्चित्ररथश्चैव विख्यातः सर्व-विद्वशी । तथा शालिशिरा राजन् पर्जन्यश्च चतुर्दशः ।कलिः पञ्चादशस्तेषां नारदश्चैव षोडशः । इत्येते देव-गन्धर्वा मौनेयाः परिकीर्त्तिताः । अथ प्रभूतान्यन्यानिकीर्त्तमिष्यामि भारत! । अनवद्यां मनुं वंशामसुरांमार्गणप्रियाम् । अनूपां सुभगां भासीमिति प्राधा व्य-जायत । सिद्धः पूर्णश्च वर्ही च पूर्णायुश्च महायशाः ।ब्रह्मचारी रतिगुणः सुपर्णश्चैव सत्तमः । विश्वावसुश्च भा-नुश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वाः प्राधेयाःपरिकीर्त्तिताः” स्वारोचिषमन्वन्तरे तु गब्धर्वा अरि-ष्ठायाः पुत्राः यथा हरिवं० ३ अ० । “अरिष्टा तु महा-सत्वान् गन्धर्वानमितौजसः” इत्युक्त्वा “एष मन्वन्तरेतात! सर्गः स्वारोचिषे स्मृतः” । जातिपरत्वे स्त्रियांङीप् । “नैव देवी न गन्धर्वी न यक्षी न च किन्नरी”रामा० आर० ८३ अ० । पत्न्यामपि ङीष् “गन्धर्वा गुह्यकायक्षा विबुधानुचराश्च वे । तथैवाप्सरसः सर्वा राक्षसेषू-त्तमा गतिः” । “दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्”मनुः । ८ द्वीपभेदे “भारतस्यास्य वर्षस्य नव भेदान्नि-शामय । इन्द्रद्वीपकशेरुमाँस्ताम्रवर्णो गभस्त्रिमान् ।नागद्वीपस्तथा सौम्यः गन्धर्वस्त्वथ वारुणः । अयन्तु नव-मस्तेषां द्वीपः सागरसंवृतः” । गन्धर्वो देवताऽस्य अण् ।गान्धर्व अस्त्रभेदे “संमोहनं नाम सखे! ममास्त्रंप्रयोगसंहारविभक्तमन्त्रम् । गान्धर्वमादत्स्व यतः प्रयो-क्तुर्न चारिहिंसा विजयश्च हस्ते” रघुः । विवाहभेदे च“गान्धर्वः समयान्मिथः” मनुः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
