| YouTube Channel

गन्धयुक्ति (gandhayukti)

 
Capeller Eng
English
गन्धयुक्ति
f.
preparation or application of perfumes.
Spoken Sanskrit
English
गन्धयुक्ति gandhayukti
f.
preparation of perfumes
गन्धयुक्ति gandhayukti
f.
blending of fragrant substances
Monier Williams Cologne
English
गन्ध—युक्ति
f.
the blending of fragrant substances, preparation of perfumes (one of the 64 Kalās See
s.v.
कला)
N.
of
VarBṛS.
lxxvii
Apte Hindi
Hindi
गन्धयुक्तिः
स्त्री*
गन्धः-युक्तिः -
सुगन्धद्रव्यों की तैयार करने की कला
Shabdartha Kaustubha
Kannada
गन्धयुक्ति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸುಗಂಧದ್ರವ್ಯಗಳ ಮೇಲನ /ಸುಗಂಧವಸ್ತುಗಳ ಮಿಶ್ರಣ /ಪರಿಮಳದ್ರವ್ಯಗಳನ್ನು ಸೇರಿಸಿ ಸಿದ್ಧಪಡಿಸುವುದು
व्युत्पत्तिः - > गन्धद्रव्याणां युक्तिः योजनम्
L R Vaidya
English
gaMDa-yukti {% f. %} preparation of perfumes.
वाचस्पत्यम्
Sanskrit
गन्धयुक्ति स्त्री गन्धानां गन्धद्रव्याणां युक्तिर्योजनविशेषः ।व० स० उक्ते गन्धद्रव्ययोजनप्रकारभेदे गन्धयुक्तिश्चसप्रयोजनभेदसहिता तत्र ७७ अ० दर्शिता यथा“स्रग्गन्धधूपाम्बग्भूषणाद्यं शोभते शुक्लशिरोरु-हस्य यस्मादतो मूर्धजरागसेवां कुर्यात्तथैवाञ्जनभूषणा-नाम् लौहे पात्रे तण्डुलान् कोद्रवाणां शुक्लेपक्वाँल्लोहचूर्णेन साकम् पिष्टान् सूक्ष्मं मूर्ध्नि शुक्ला-म्लकेशे दत्त्वा तिष्ठेद्वेष्टयित्वार्कपत्रैः याते द्वितीये प्र-हरे विहाय दद्याच्छिरस्यामलकप्रलेपम् सञ्छाद्य पत्रैःप्रहरद्वयेन प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम् पश्चाच्छिरःस्नानसुगन्धितैलैर्लोहाम्लगन्धं शिरसो ऽपनीय ।हृद्यैश्च गन्धैर्विविधैश्च धूपैरन्तःपुरे राजसुखं निषेवेत् ।त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैस्तुल्यैः केसर-पत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम् मञ्जिष्ठयाव्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः तैलेनयुक्तोऽर्कमयूखतप्तः करोति तच्चम्पकगन्धि तैलम् ।तुल्यैः पत्रतुरुष्कबालतगरैर्गन्धः स्मरोद्दीपनः सव्यामोबकुलो ऽयमेव कटुकाहिङ्गुप्रधूपान्वितः कुष्ठेनोत्पलग-न्धिकः समलयोमूर्वा भवेच्चम्पको जातीत्वक्सहितो ऽति-मुक्तकैति ज्ञेयः कुस्तुम्बुरुः शतपुष्पाकुन्दुरुकौ पा-देनार्धेन नखतुरुष्कौ मलयप्रियङ्गुभागौ गन्धोधूप्योगुडनखेन गुग्गुलुबालकलाक्षामुस्तानखशर्कराः क्रमा-द्धूपः अन्यो मांसीबालकतुरुष्कनखचन्दनैः पिण्डः ।हरीतकीशङ्खघनद्रवाम्बुभिर्गुडोत्पलैः शैलकमुस्तकान्वितैः ।नवान्तपादादिविवर्धितैः क्रमाद् भवन्ति धूपा बहवो म-नोहराः भागैश्चतुर्भिः सितशैलमुस्ताः श्रीसर्जभागौनखगुग्गुलू कर्पूरबोधो मधुपिण्डितोऽयं कोप-च्छदो नाम नरेन्द्रधूपः त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेनसंयुतैश्चूर्णः पटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ।घनबालकशैलेयककर्पूरोशीरनागपुष्पाणि व्याघ्रनखस्पृ-क्कागुरुदमनकनखतगरधान्यानि कर्पूरचोरमलयैःस्वेच्छापरिवर्तितैश्चतुर्भिरतः एकद्वित्रिचतुर्भिर्भागैर्गन्धा-र्णवो भवति अत्युल्बणगन्धत्वाद् एकांशो नित्यमेवधान्यानाम् कर्पूरस्य तदूनो नैतौ द्वित्र्यादिभिर्देयौं ।श्रीसर्जगुडनखैस्ते धूपयितव्याः क्रमान्न पिण्डस्थैः ।बोधः कस्तूरिकया देयः कर्पूरसंयुतया अत्र सहस्र-चतुष्टयमन्यानि सप्ततिसहस्राणि लक्षं शतानि सप्तविंशतियुक्तानि गन्धानाम् एकैकमेकभागं द्वित्रिचतुर्भा-गिकैर्युतं द्रव्यैः षड्गन्धकरं तद्वद् द्वित्रिचतुर्भागिकंकुरुते द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिर्यथैकस्य ।एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र षोडशकेद्रव्यगणे चतुर्विकल्पेन भिद्यमानाम् अष्टादश जा-यन्ते शतानि सहितानि विशत्या षण्णवतिभेदभिन्न-श्चतुर्विकल्पो गणो यतस्तस्मात् षण्णवतिगुणः कार्यःसा सङ्ख्या भवति गन्धानाम् पूर्वेण पूर्वेण गतेन युक्तंस्थानं विनान्त्यं प्रबदन्ति सङ्ख्याम् इच्छाबिकल्पैःक्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः द्वित्री-न्द्रियाष्टभागैरगुरुः पत्रं तुरुष्कशैलेयौ विषयाष्टपक्ष-दहनाः प्रियङ्गुमुस्तारसाः केशः स्पृक्कात्वक्तगराणांमांस्याश्च कृतैकसप्तषड्भागाः सप्तर्तुवेदचन्द्रैर्मलयनख-श्रीककुन्दुरुकाः षोडशके कच्छपुटे यथा तथा मिश्रितै-श्चतुर्द्रव्यैः येऽत्राष्टादशभागास्तेऽस्मिन् गन्धादयोयोगाः नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतो-द्बोधाः गुडगखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः ।जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः बहवोऽत्र परिजाताश्चतुर्भिरिच्छापरिगृहीतैः सर्जरसश्रीवा-सकसमन्विता ये ऽत्र धूपयोगास्तैः श्रीसर्जरसवियुक्तैःस्नानानि सबालकत्वग्भिः लोध्रोशीरलतागुरुमुस्ताप्रिय-ङ्गुवनपथ्याः नवकोष्ठोत्कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य ।चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा कटुहिङ्गुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः सप्ताह गोमूत्रेहरीतकीचूर्णसंयुते क्षिप्त्वा गग्धोदके भूयोविनिःक्िपेद्दन्तकाष्ठानि एलात्वक्पत्राञ्जनमधुमरिचैर्नाग-पुष्पकुष्ठैश्च गन्धाम्भः कर्तव्य कञ्चित्कालं स्थितान्य-स्मिन् जातीफलपत्रैलाकर्पूरैः कृतयमैकशिस्विभागैः ।अवचूर्णितानि भानोर्मरीचिभिः शोषणीयानि वर्ण-प्रसादं वदनस्य कान्तिं वैशद्यमास्यस्य सुगन्धितां ।संसेवितुः श्रोत्रसुखां वाचं कुर्वन्ति काष्ठान्यसमुद्भवा-नाम् कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमाव-हति वक्त्रसुगन्धितां ऊर्जं करोति कफजांश्च निहन्तिरोगांस्ताम्बूलमेवमपरांश्च गुणान् करोति युक्तेनचूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम् चूर्णा-धिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम् ।पत्राधिकं निशि हितं सफलं दिवा प्रोक्तान्यथाकर-णमस्य विडम्बनैव कक्वोलपूगलवलोफलपारिजातैरा-मोदितं मदमुदामुदितं करोति” “लेख्यमणिरागगन्ध-युक्तिविदः” वृ० स०