| YouTube Channel

गन्धनाम्नी (gandhanAmnI)

 
शब्दकल्पद्रुमः
Sanskrit
गन्धनाम्नी,
स्त्री,
(गन्धनामन् + संज्ञायां ङीष् जातौनान्तत्वाद् ङीप् वा ।) क्षुद्ररोगविशेषः ।तल्लक्षणम् यथा, --“बाहुकक्षांसपार्श्वेषु कृष्णस्फोटां सवेदनाम् ।पित्तप्रकोपसम्भूतां कक्षामिति विनिर्द्दिशेत्
एकान्तु तादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम् ।त्वग्जातां पित्तकोपेन गन्धनाम्नीं प्रचक्षते
”तादृशीं बाह्वादिषु कृष्णां सवेदनाञ्च
*
तच्चिकित्सा यथा, --“कक्षाञ्च गन्धनाम्नीञ्च चिकित्सति चिकित्सकः ।पैत्तिकस्य विसर्पस्य क्रियया पूर्व्वमुक्तया
”इति भावप्रकाशः