| YouTube Channel

गन्धतन्मात्र (gandhatanmAtra)

 
Shabdartha Kaustubha
Kannada
गन्धतन्मात्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಉತ್ಕಟಾವಸ್ಥೆಯನ್ನು ಹೊಂದದ ಮತ್ತು ಪೃಥಿವಿಗೆ ಉಪಾದಾನಕಾರಣವಾದ ಸ್ಥೂಲ ಮತ್ತು ಪೃಥಿವ್ಯಾರಂಭಕ ದ್ರವ್ಯ /ಸ್ಥೂಲಪೃಥಿವಿಯ ಅವಸ್ಥೆಯನ್ನು ಹೊಂದುವ ಮೊದಲು ಸ್ಥೂಲಪೃಥಿವಿಗೆ ಕಾರಣವಾದ ಗಂಧಗುಣವುಳ್ಳ ದ್ರವ್ಯ /ಸೂಕ್ಷ್ಮವಾದ ಪಾರ್ಥಿವಾಂಶ
वाचस्पत्यम्
Sanskrit
गन्धतन्मात्र
न०
सांख्यमतप्रसिद्धे शान्तघोरादिविशेषशून्य-गन्धमात्रगुणके स्थूलपृथिव्यारम्भके सूक्ष्मपार्थिवांशेयथाह “स्थूलात् पञ्चतन्मात्रस्य” सा० प्र० सूत्रभाष्ये“तन्मात्राणि यज्जातीयेषु शान्तादिविशेषत्रयं नतिष्ठति तज्जातीयानां शब्दस्पर्शरूपरसगन्धानामाधार-भूतानि सूक्ष्मद्रव्याणि स्थूलानां हेतवोऽविशेषाः “तस्मिं-स्तस्मिंस्तु तन्मात्रास्तेन तन्मात्रता स्मृता शान्तानापि घोरास्ते मूढाश्चाविशेषिणः” इति विष्णुपुरा-दिभ्यः अस्यायमर्थः तेषु तेषु भूतेषु तन्मात्रास्तिष्ठन्तीतिकृत्वा धर्मधर्म्यभेदाद्द्रव्याणामपि तन्मात्रता स्मृता तेच पदार्थाः शान्तघोरमूढाख्यैः स्थूलशब्दादिगतविशेषैःशून्या एकरूपत्वात् तथा शान्तादिविशेषशून्यशब्दा-दिमत्त्वमेव भूतानां शब्दादितन्मात्रत्वमित्याशयः ।अतोऽविशेषिणोऽविशेषसंज्ञिता इति शान्तं सुखात्मकंघोरं दुःखात्मकं मूढं मोहात्मकम् तन्मात्राणि चदेवादिमात्रभोग्यानि केवलं सुखाधिक्यादिति”