| YouTube Channel

गन्धकाली (gandhakAlI)

 
शब्दसागरः
English
गन्धकाली
f.
(-ली) The mother of the poet VYASA.
E.
गन्ध perfume, कल् to
make, affixes अण् and ङीष् having a strong scent.
Yates
English
गन्ध-काली (ली) 3.
f.
Idem.
Wilson
English
गन्धकाली
f.
(-ली) The mother of the poet VYĀSA.
E.
गन्ध perfume, कल to make, affixes अण् and ङीप् having a
strong scent.
Monier Williams Cologne
English
गन्ध—काली
f.
N.
of the mother of the poet Vyāsa,
MBh.
i, 3801
Hariv.
1088.
Apte Hindi
Hindi
गन्धकाली
स्त्री*
गन्धः-काली -
व्यास की माता सत्यवती
Shabdartha Kaustubha
Kannada
गन्धकाली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸತ್ಯವತಿ /ವ್ಯಾಸಮಹರ್ಷಿಯ ತಾಯಿ
प्रयोगाः - > "भीष्मः पुनः पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयन् यामाहुर्गन्धकालीमिति"
उल्लेखाः - > भा० आदि०
L R Vaidya
English
gaMDa-kAlI {% f. %} Name of Satyavatī, mother of Vyāsa.
Mahabharata
English
Gandhakālī = Satyavatī: I, ††3801 (C. has by error Gabdhaº).
पुराणम्
English
गन्धकाली / GANDHAKĀLĪ. Another name of satyavatī. (Ādi Parva, Chapter 95, Verse 48).
शब्दकल्पद्रुमः
Sanskrit
गन्धकाली,
स्त्री,
(गन्धं प्रशस्तदूरवाहिगात्र-सौरभं कलयतीति कल् + णिच् अच् ङीष्च ।यद्वा, गन्धवती काली मध्यपदलोपि-समासः ।) व्यासमाता इति शब्दरत्नावली
(इयं हि दाशराजकन्या पुरा बाल्यसमये मत्स्य-गन्धा कालीत्येतन्नाम्ना ख्यातासीत् ततःकदाचित् नदीपरपारं जिगमिषुणा मुनि-प्रवरपराशरेण सङ्गता तस्यैव ऋषेर्वरप्रभा-वेन निजगात्रे पद्मपुष्पवत् सौरभमवाप्यततः प्रभृति पद्मगन्धा गन्धकालीति नाम्नाच विश्रुताऽभवत् परं तस्यामेव कन्यायां तदापराशरौरसात् कानीनपुत्त्रो महर्षिर्व्यासःसञ्जातः ततो गच्छति काले महात्मनांभीष्मेण राज्यं दारपरिग्रहञ्च करिष्या-मीति निदारुणं प्रतिश्रुत्य दाशराजसकाशात्समानीता भुवनविश्रुता सा पद्मगन्धाढ्या गन्ध-काली तत्कामुकाय पित्रे शान्तवे समर्पिता ।एतद्विवरणं महाभारते सम्भवे ९९-१०० ।अध्याययोर्विशेषतो दर्शनीयम्
अस्या हेतो-रेव नरपतिरुग्रायुधः समरे भीष्मेणे निहतः ।यथा, हरिवंशे २० ४७-५० ।“स चाप्युग्रायुधस्तात ! दुर्ब्बुद्धिरभवत्तदा ।प्रदीप्तचक्रो बलवान् नीपान्तकरणोऽभवत्
दर्पपूर्णो हत्वाजौ नीपानन्यांश्च पार्थिवान् ।पितर्य्युपरते मह्यं श्रावयामास किल्विषम्
माममात्यैः परिवृतं शयानं धरणीतले ।उग्रायुधस्य राजेन्द्र ! दूतोऽभ्येत्य वचोऽब्रवीत्
अद्यत्वं जननीं भीष्म ! गन्धकालीं यशस्विनीम् ।स्त्रीरत्नं मम भार्य्यार्थे प्रयच्छ कुरुनन्दन !
”ईदृशं जुगुप्सितवाक्यं दूतमुखादाकर्ण्यामित-प्रतापो महात्मा भीष्मः अशौचान्ते तं दुरा-त्मानं समराङ्गणे समाहूय निपात्य राज्ञेकाम्पिल्याय तत् पैतृकं राज्यं समर्पयत् अस्मि-न्नेवाध्याये एतत् सर्व्वं वृत्तं सविशेषं द्रष्टव्यम्
)
वाचस्पत्यम्
Sanskrit
गन्धकाली स्त्री प्रशस्तः गन्धस्तस्मै अलति पर्य्याप्नोतिअल--अच् गोरा० ङीष् सत्यवत्यां व्यास-मातरि “भीष्मः खलु पितुः प्रियचिकीर्षया सत्य-वतीं मातरमुदवाहयत् यामाहुर्गन्धकालीमिति तस्यांपूर्वं कानीनो गर्भः पराशरात् द्वैपायनोऽभवत् त-स्यामेव शान्तनोरन्यौ द्वौ पुत्रौ बभूवतुः विचित्रवीर्य्य-श्चित्राङ्गदश्च” भा० आ० ९१५ अ० “अद्य त्वं जननींभीष्म! गन्धकालीं यशस्विनीम्” भा० हरि० २० अ० ।गन्धवतीशब्दे दृश्यम् स्वार्थे गन्धकालिकाऽप्यत्रहेमच०