| YouTube Channel

गद्यानकं (gadyAnakaM)

 
शब्दकल्पद्रुमः
Sanskrit
गद्यानकं,
क्ली,
(गद्येन औषधादिपरिमाणभेदेनआनीयते इति + नी + डः ततः स्वार्थेकन् ।) अष्टचत्वारिंशत्रक्तिकापरिमाणम् ।(“तुल्या यवाभ्यां कथिताऽत्र गुञ्जावल्लस्त्रिगुञ्जो धरणं गतेऽष्टौ ।गद्यानकन्तद्द्बयमिन्द्रतुल्यै-र्वल्लैस्तथैको घटकः प्रदिष्टः
”इति लीलावती
)चतुःषष्टिगुञ्जापरिमाणम् इति वैद्यकम्
गद्यालकमिति कुत्रचित् पाठः