गद्यं (gadyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritगद्यं, (गव्यते च्छन्दसा विना केवलं कथाप्रबन्धै-रेव विरच्यत इति । गद + “गदमदचरयमश्चानुप-मर्गे ।” ३ । १ । १०० । इति पत् ।) पद्यभिन्नम् ।कविकृतम् । अपादः पदसन्तानः । इत्यमरः ।३ । ५ । ३१ ॥
कविकृतभिन्ने त्रि । यथा गद्योव्यवहारः गद्या वाक् गद्यं वचः । इति तट्टी-काया भरतः ॥
(यथा, महाभारते । ३ । २६ । ३ ।“यजषामृचा साम्नाञ्च गद्यानाञ्चैव सर्व्वशः ।आसीदुच्चाय्यमाणानां निस्वनो हृदयङ्गमः ॥
”)“अपादः पदसन्तानो गद्यमाख्यायिका कथा ॥
इति दण्डी ॥
आस्यायिका तु आचष्टे प्रातपादयति अत्यर्थंआख्यायिका अत्र नायकेन स्वयमुपलब्धोऽर्थआख्यायते इत्येके । ज्ञातायां सत्यार्थायां कथाया-माख्यायिका । सा च माधविका-वासवदत्ता-हर्षचरितादिः । कथा तु । प्रबन्धस्य कल्पनारचना बह्वनृता स्तोकसत्या कथा ।प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः ।परम्पराश्रया यस्मात् सा मताख्यायिका क्वचित् ॥
इति कोलाहलाचार्य्यः ॥
कथा कादम्बर्य्यादिः ।” इत्यमरटीकायां भरतः ॥
(गद्यन्तु त्रिधा विभक्तं यथा छन्दोमञ्जर्य्याम् ।“अपादं पदसन्तानं गद्यं तत्तु त्रिधा मतम् ।वृत्तकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः ॥
”एतेषामपि लक्षणं यथा तत्रैव ।“अकठोराक्षरं स्वल्पसमासं वृत्तकं सतम् ।तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥
भवेदुत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् ।वृत्तैकदेशसम्बन्धात् वृत्तगन्धि पुनः स्मृतम् ॥
”मतभेदेनैतत् क्वचित् चतुर्द्धापि दृश्यते । यथा, साहित्यदर्पणे । ६ । २९५ ।“वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च ।भवेदुत् कलिकाप्रायं चूर्णकञ्च चतुर्व्विधम् ॥
आद्यं समासरहितं वृत्तभागयुतं परम् ।अन्यद्दीर्घसमासाढ्यं तुर्य्यञ्चाल्पसमासकम् ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
