| YouTube Channel

गदः (gadaH)

 
Apte
English
गदः [gadḥ], [गद्-अच्]
Speaking, speech.
A sentence.
Disease, sickness
असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा
Śi.*
2.84
जनपदे गदः पदमादधौ
R.*
9.4
17.81.
Thunder.
The younger brother of Krisna.
N.
of Kubera.
A weapon. ... गदो$स्त्रियाम् आयुधे धनदे रोगे पुंसि कृष्णा- नुजे$पि Nm. -दम् A kind of poison.
Comp.
-अगदौ (du. ) the two Aṣvins, physicians of gods. -अग्रजः an epithet of Krisna
जगादाग्रे गदाग्रजम्
Śi.*
2.69
यावद्- गदाग्रजकथासु रतिं कुर्यात् Bhāg. -अग्रणीः the chief of all diseases. i. e. consumption. -अम्बरः a cloud. -अरातिः a drug, medicament. -गदम् indistinct utterance.
Apte 1890
English
गदः [गद्-अच्] 1 Speaking, speech.
2 A sentence.
3 Disease, sickness
असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा Śi. 2. 84
जनपदे गदः पदमादधौ R. 9. 4, 17. 81.
4 Thunder.
दं A kind of poison.
Comp.
अगदौ (du.) the two Aśvins, physicians of gods.
अग्रजः an epithet of Kṛṣṇa
Śi. 2. 69.
अग्रणीः the chief of all diseases. i. e. consumption.
अंबरः a cloud.
अरातिः a drug, medicament.
गदं indistinct utterance.
Apte Hindi
Hindi
गदः
पुं*
- गद् - अच्
"बोलना, भाषण"
गदः
पुं*
- गद् - अच्
वाक्य
गदः
पुं*
- गद् - अच्
"रोग, बीमारी"
गदः
पुं*
- गद् - अच्
"गर्जन, गड़गड़ाहट"
गदः
पुं*
- गद्+अच्
कृष्ण के भाई का नाम
गदः
पुं*
- गद्+अच्
कुबेर
गदः
पुं*
- गद्+अच्
"शस्त्रास्त्र, हथियार"
Wordnet
Sanskrit
Synonyms:
व्याधिः, गदः, आमयः, अपाटवः, आमः, आतङ्कः, भयः, उपघातः, भङ्गः, अर्तिः, रुक्, रुजा, उपतापः
noun
शरीरादिषु आगतः दोषः।
"शरीरं व्याधीनां गृहम्।"
Synonyms:
गदः
noun
वसुदेवस्य पुत्रः
"गदः कृष्णस्य अनुजः अस्ति"
Synonyms:
गदः
noun
वाद्यविशेषः
"गदस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
गदः,
पुं,
(गद्यते रुज्यतेऽनेन गदयति वा गद +करणे अप् कर्त्तरि णिच् अच् वा ।) रोगः ।(यथा, हारीते चिकित्सितस्थाने द्बितीयेऽध्याये ।“शत्रुः स्थानबलं प्राप्य विक्रमं कुरुते बली ।तथा धान्वन्तरं प्राप्य विक्रमं कुरुते गदः
“यावत् स्थानं समाश्रित्य विकारं कुरुते गदः ।तावत्तस्य प्रतीकारः स्थानत्यागाद्बलीयसः
”)श्रीकृष्णभ्राता इति हेमचन्द्रः १२७
(यथा, भागवते १४ २८ ।“हृदीकः ससुतोऽक्रूरो जयन्तगदशारणाः
”)भाषणञ्च (औषधम् यथा, महाभारते ।४३ २१ ।“अथ श्रुश्राव गच्छन् तक्षको जगतीपतिम् ।मन्त्रैर्गदैर्विषहरै रक्ष्यमाणं प्रयत्नतः
”असुरविशेषः यथा, वायुपुराणे अध्याये“गदो नामासुरो ह्यासीत् वज्राद्वज्रतरो दृढः
”)
कृदन्तरूपमाला
Sanskrit
1 {@“गद व्यक्तायां वाचि”@} 2 ‘णौ देवशब्दे गदयेत्, व्यक्तवाचि गदेच्छपि।’ 3 इति देवः।
गादकः-दिका, गादकः-दिका, जिगदिषकः-षिका, जागदकः-दिका
गदिता-त्री, गादयिता-त्री, जिगदिषिता-त्री, जागदिता-त्री
4 व्यतिगदन् 5 -न्ती, प्रणिगदन्-न्ती 6, गादयन्-न्ती, जिगदिषन्-न्ती
गदिष्यन्-न्ती-ती, गादयिष्यन्-न्ती-ती, जिगदिषिष्यन्-न्ती-ती
-- -- गादयमानः, गादयिष्यमाणः, -- जागद्यमानः, जागदिष्यमाणः
सुगद्-सुगदौ-सुगदः
-- -- -- गदितम्-तः- 7 तवान्, गादितः, जिगदिषितः, जागदितः-तवान्
गदः, 8 आनुगादिकः, गादः, जिगदिषुः, जागदः
9 गदितव्यम्, गादयितव्यम्, जिगदिषितव्यम्, जागदितव्यम्
गदनीयम्, गादनीयम्, जिगदिषणीयम्, जागदनीयम्
10 गद्यम्, 11 प्रगाद्यम्, गाद्यम्, जिगदिष्यम्, जागद्यम्
ईषद्गदः-दुर्गदः-सुगदः
-- -- -- गद्यमानः, गाद्यमानः, जिगदिष्यमाणः, जागद्यमानः
12 गदः, 13 गादः, 14 गद्गदः, 15 निगदः 16, निगादः, गादः, जिगदिषः, जागदः
गदितुम्, गादयितुम्, जिगदिषितुम्, जागदितुम्
17 गदा, गादना, जिगदिषा, जागदा
गदनम्, गादनम्, जिगदिषणम्, जागदनम्
गदित्वा, गादयित्वा, जिगदिषित्वा, जागदित्वा
प्रणिगद्य, प्रणिगाद्य, प्रजिगदिष्य, प्रजागद्य
गादम् २, गदित्वा २, गादम् २, गादयित्वा २, जिगदिषम् २, जिगदिषित्वा २, जागदम्
जागदित्वा २।
प्रासङ्गिक्यः
01
=>
(३७२)
02
=>
(१-भ्वादिः-५२। सक। सेट्। पर।)
03
=>
(श्लो। ११०)
04
=>
[[२। ‘प्रतिषेधे हसादीनाम्--’ (वा। १-३-१५) इत्यत्रास्य धातोः ग्रहणान्न कर्मव्यतीहारे तङ्।]]
05
=>
[[C। ‘पलान्यखाद्यानि खदन् बदद्वपुः गदन् अवाच्यानि रदन् सतां मनः। नदन् मदादर्दितसङ्क्षयोऽधुना क्षणं खलो नर्दतु गर्दभस्वरैः।।’ धा। का। १-८।]]
06
=>
[[३। ‘नेर्गदनद--’ (८-४-१७) इत्यादिना णत्वम्।]]
07
=>
[[ड्। ‘इति निगदितवन्तं राघवस्तं जगाद व्रज भरत गृहीत्वा पादुके त्वं मदीये। च्युतनिखिलविशङ्कः पूज्यमानो जनौघैः सकलभुवनराज्यं कारयास्मन्मतेन।।’ भ। का। ३-५६।]]
08
=>
[[४। अनुगदतीत्यनुगादी। ‘अनुगादिनष्ठक्’ (५-४-१३) इति स्वार्थे ठक्।]]
09
=>
[पृष्ठम्०३६७+ २५]
10
=>
[[१। ‘गदमदचरयमश्चानुपसर्गे’ -- (३-१-१००) इति यत्। सोपसर्गात् तु ण्यदेव। निगाद्यमिति यथा।]]
11
=>
[[आ। ‘लभ्या कथं नु वैदेही शक्यो द्रष्टुं कथं रिपुः। सत्यः कथं वियोगश्च गद्यमेतत् त्वया मम।।’ भ। का। ६-४७।]]
12
=>
[[२। ‘पुंसि संज्ञायां घः’ (३-३-११८) इति रोगार्थे घः।]]
13
=>
[[३। ‘हलश्च’ (३-३-१२१) इति घञ्।]]
14
=>
[[४। ‘पृषोदरादीनि--’ (६-३-१०९) इत्यत्र पाठात् गद्गद इति सिद्धिरिति क्षीरतर- ङ्गिणी। अस्पष्टाक्षरं यथा तथोच्चार्यमाण शब्दः गद्गद इत्युच्यते।]]
15
=>
[[५। ‘नौ गदनद--’ (३-३-६४) इत्यप्।]]
16
=>
[[B। ‘संचेरुः सहसाः केचिदस्वनाः केचिदाटिषुः। संयामवन्तो यतिवत् निगदानपरेऽमुचन्।।’ भ। का। ७-५७।]]
17
=>
[[६। ‘षिद्भिदादिभ्यः--’ (३-३-१०४) इत्यत्र पाठात् अङ्।]]