गतिः (gatiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishगतिः [gatiḥ], [गम्-भावे क्तिन्]
Motion, going, moving, gait
गतिर्विगलिता 4.78
अभिन्नगतयः 1.14
(न) भिन्दन्ति मन्दां गतिमश्वमुख्यः 1.11 do not mend their slow gait (do not mend their pace)
so गगनगतिः 1
लघुगतिः 16
6.23.
Access, entrance
मणौ वज्रसमुत्कीर्णे सूत्रस्येवा- स्ति मे गतिः 1.4.
Scope, room
अस्त्रगतिः 3.19
मनोरथानामगतिर्न विद्यते 5.64
नास्त्यगतिर्मनोरथानाम् 2.
Turn, course
दैवगतिर्हि चित्रा, 7.16.
Going to, reaching, obtaining
वैकुण्ठीया गतिः 1 obtaining Heaven.
Fate, issue
भर्तुर्गतिर्गन्तव्या 13.
State, condition
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य 2.43
1.16.
Position, station, situation, mode of existence
परार्ध्यगतेः पितुः 8.27
कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनाम् 2.14
1.41, 42.
A means, expedient, course, alternative
अनुपेक्षणे द्वयी गतिः 3
का गतिः what help is there, can't help (oft en used in dramas) 1.319
अन्या गतिर्नास्ति 158
also अगतिका हि एषा गतिः यत् कृत्स्नसंयोगे सति विकल्पसमुच्चयौ स्याताम् ŚB. on MS.* 1.5.47.
Recourse, shelter, refuge, asylum, resort
विद्यमानां गतिर्येषाम् 1.32, 322
आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः Sk.
Source, origin, acquisition
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति 2.43
1.5.
a way, path.
A march, procession.
An event, issue, result.
The course of events, fate, fortune.
Course of asterisms.
The diurnal motion of a planet in its orbit.
A running wound or sore, fistula.
Knowing
अपेन पूर्वं न मयेति का गतिः 14.15
knowledge, wisdom.
Transmigration, metempsychosis
6.73
12.3, 23, 4-45
त्यज बुद्धिमिमां गतिप्रवृत्ताम् Bu. Ch.5.36
1.17.1.
A stage or period of life, (as शैशव, यौवन, वार्धक).
(In ) A term for preposition and some other adverbial prefixes (such as अलम्, तिरस् ) when immediately connected with the tenses of a verb or verbal derivatives.
Position of a child at birth.Comp. -अनुसरः following the course of another.-ऊन impassable, desert. -भङ्गः stoppage. -हीन without refuge, helpless, forlorn.
Apte 1890
Englishगतिः f. [गम्-भावे क्तिन्] 1 Motion, going, moving, gait
गतिर्विगलिता Pt. 4. 78
अभिन्नगतयः Ś. 1. 14
(न) भिंदंति मंदां गतिमश्वमुख्यः Ku. 1. 11 do not mend their slow gait (do not mend their pace)
so गगनगतिः Pt. 1
लघुगतिः Me. 16, 10, 46
U. 6. 23.
2 Access, entrance
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R. 1. 4.
3 Scope, room
अस्त्रगतिः Ku. 3. 19
मनोरथानामगतिर्न विद्यते Ku. 5. 64
नास्त्यगतिर्मनोरथानां V. 2.
4 Turn, course
दैवगतिर्हिचित्रा, Mu. 7. 16.
5 Going to, reaching, obtaining
वैकुंठीया गतिः Pt. 1. obtaining Heaven.
6 Fate, issue
भर्तुर्गतिर्गंतव्या Dk. 103.
7 State, condition
दानं भोगो नाशस्तिस्रो गतयो भवंति वित्तस्य Bh. 2. 43
Pt. 1. 106.
8 Position, station, situation, mode of existence
परार्ध्यगतेः पितुः R. 8. 27
कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनां Bh. 2. 104
Pt. 1. 41, 420.
9 A means, expedient, course, alternative
अनुपेक्षणे द्वयी गतिः Mu. 3
का गतिः what help is there, can't help (often used in dramas)
Pt. 1. 319
अन्या गतिर्नास्ति K. 158.
10 Recourse, shelter, refuge, asylum, resort
विद्यमाना गतिर्येषां Pt. 1. 320, 322
आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः Sk.
11 Source, origin, acquisition
Bg. 2. 43
Ms. 1. 50.
12 A way, path.
13 A march, procession.
14 An event, issue, result.
15 The course of events, fate, fortune.
16 Course of asterisms.
17 The diurnal motion of a planet in its orbit.
18 A running wound or sore, fistula.
19 Knowing
Ki. 14. 15
knowledge, wisdom.
20 Transmigration, metempsychosis
Ms. 6. 73, 12. 3, 23, 40-45.
21 A stage or period of life (as शैशव, यौवन, वार्धक).
22 (In gram.) A term for prepositions and some other adverbial prefixes (such as अलं, तिरस् &c.) when immediately connected with the tenses of a verb or verbal derivatives.
23 Position of a child at birth.
Comp.
अनुसरः following the course of another.
ऊन a. impassable, desert.
भंगः stoppage.
हीन a. without refuge, helpless, forlorn.
Hindi
Hindiप्रवेश द्वार
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiगतिः
- गम् - क्तिन्
"गति, गमन, जाना, चाल"
गतिः
- -
"पहुँच, प्रवेश"
गतिः
- -
"कार्यक्षेत्र, गुंजायश"
गतिः
- -
"मोड़, चर्या"
गतिः
- -
"जाना, पहुँचना, प्राप्त करना"
गतिः
- -
"भाग्य, फल"
गतिः
- -
"अवस्था, दशा"
गतिः
- -
"प्रस्थापना, संस्थान, स्थिति, अवस्थिति"
गतिः
- -
"साधन, तरकीब, प्रणाली, दूसरा उपाय"
गतिः
- -
"आश्रय, रक्षास्थल, शरण, शरणागार, अवलंब"
गतिः
- -
"स्रोत, उद्गम, प्राप्तिस्थान"
गतिः
- -
"मार्ग, पथ"
गतिः
- -
"प्रयाण, प्रयात्रा"
गतिः
- -
"घटना, फल, परिणाम"
गतिः
- -
"घटनाक्रम, बाग्य, किस्मत"
गतिः
- -
नक्षत्र पथ
गतिः
- -
ग्रह की अपने ही कक्ष में दैनिक गति
गतिः
- -
"रिसने वाला घाव, नासूर"
गतिः
- -
"ज्ञान, बुद्धिमत्ता"
गतिः
- -
"पुनःर्जन्म, आवागमन"
गतिः
- -
जीवन की अवस्थाएँ
गतिः
- -
उपसर्ग तथा क्रिया विशेषणात्मक अव्यय जबकि यह किसी क्रिया या कृदन्तक से पूर्व लगाये जाये।
Wordnet
Sanskrit गतिः
देवहूतिकर्दमयोः नवसु कन्यासु एका यस्याः विवाहः पुलहऋषिणा सह जातः।
"गतिः अनसूयायाः अनुजा आसीत्।"
प्रयाणम्, गमनम्, प्रगमनम्, गतिः, अग्रगमनम्, अग्रसरणम्, अग्रगतिः, प्रसरणम्, प्रसरः, यात्रा, प्रक्रमः, क्रमः, क्रमणम्, क्रन्तिः
अग्रे गमनम्।
"सेनापतिः सैनिकानां प्रयाणस्य विषये अकथयत्।"
चलनम्, सरणम्, यानम्, गतिः, व्राजः
एकं स्थानं विहाय अन्यस्थानं प्रापणम्।
"तस्य चलनं सवेगम् अस्ति।"
वृत्तिः, वृत्तम्, आचारः, रीतिः, व्यवहारः, चरित्रम्, चरितम्, आचरणम्, गतिः, चेष्टितम्, स्थितिः
जीवने वर्तनस्य रीतिः।
"साधोः आचारात् सः समाजे प्रतिष्ठाम् अलभत।"
व्यवहारः, वृत्तिः, वृत्तम्, आचारः, रीतिः, चरित्रम्, चरितम्, आचरणम्, गतिः, चेष्टितम्, स्थितिः
समाजे अन्यैः सह कृतम् आचरणम्।
"तस्य व्यवहारः सम्यक् नास्ति।"
सञ्चलनम्, गमनम्, यानम्, यात्रा, गमः, गतिः, व्रज्या, सरणम्, संसरणम्
जनानां यानानां वा गतिशीलः समुदायः।
"आरक्षकाः सञ्चलने कारणाद् विना दण्डप्रहारान् कुर्वन्ति।"
Tamil
Tamilக3தி: : நடை, செல்லல், போதல், நுழைவு, திருப்பம், திசை, அடைதல், தலைவிதி, தசை, நிலை, பயன்.
अमरकोशः
SanskritWord: गतिः
Root: गतिः
Gender: undefined
Number: undefined
Meaning(s):
⇒ going
⇒ moving
⇒ walking
⇒ smallest division of an army
Shloka(s):
3|3|72|2 ► पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः॥ (नानार्थवर्गः)
3|3|119|2 ► निर्वर्तनोपकरणानुव्रज्यासु च साधनम्॥ (नानार्थवर्गः)
3|3|176|1 ► शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ। (नानार्थवर्गः)
Synonym(s):
➠ 3|3|72|2 ⇢ पत्तिः (पत्ति) (स्त्री) ⇒ going, moving, walking, smallest division of an army
➠ 3|3|119|2 ⇢ साधनम् (साधन) (नपुं) ⇒ cure, gain, army, goods, means, result, battle, conflict, argument, denoting, efficient, expedient, obtaining, summoning, preparing, effective, procuring, instrument, furthering, perfection, fulfilment, computation, designating, acquisition, preparation, guiding well, carrying out, conjuring up, productive of, proof [Logic], expressive of, requisite for, reason [Logic], act of mastering, device [computer], means of enjoyment, subduing by charms, subduing a disease, establishment of a truth, finding out by calculation, leading straight to a goal, army or portion of an army, means of correcting or punishing, means of summoning or conjuring up a spirit
➠ 3|3|176|1 ⇢ यात्रा (यात्रा) (स्त्री) ⇒ way, usage, feast, going, means, march, travel, custom, journey, practice, festival, expedient, expedition, procession, livelihood, maintenance, intercourse, setting off, festive train, support of life, passing away time, going on a pilgrimage
Related word(s):
जातिः ➡ क्रिया
परा_अपरासंबन्धः ➡ पक्षिगतिविशेषः
शब्दकल्पद्रुमः
Sanskritगतिः, (गम् + भावे क्तिन् ।) गमनकर्म्म ।(यथा, रघुवंशे । १ । ४ ।“अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्व्वसूरिभिः ।मणौ बज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥
”)तत्पर्य्यायः । वर्त्तते १ अयते २ लोटते ३लोठते ४ स्यन्दते ५ कसति ६ सर्पति ७ स्यमति ८स्रवति ९ स्रंशते १० अवति ११ श्चोतति १२ध्वंसति १३ वेनति १४ मार्ष्टि १५ गुरण्यति १६शवति १७ कालयति १८ पेलयति १९ कण्टति २०पिस्यति २१ विस्यति २२ मिस्यति २३प्रवते २४ प्लवते २५ च्यवते २६ कवते २७गवते २८ नवते २९ क्षोदति ३० नक्षति ३१सक्षति ३२ म्यक्षति ३३ सचति ३४ ऋच्छति ३५तुरीयति ३६ चतति ३७ अतति ३८ गाति ३९इयक्षति ४० सश्चति ४१ सरति ४२ रंहति ४३यतते ४४ भ्रमति ४५ धजति ४६ रजति ४७लजति ४८ क्षियति ४९ घमति ५० मिनाति ५१ऋण्वति ५२ ऋणोति ५३ स्वरति ५४ सिसर्त्ति ५५वेषिष्टिः ५६ योषिष्टिः ५७ ऋणाति ५८ ऋयते ५९तेजति ६० दध्यति ६१ दध्नोति ६२ युध्यति ६३घन्वति ६४ अरुषति ६५ आर्य्यन्ति ६६ डीयते ६७तकति ६८ टीयते ६९ इषति ७० फणति ७१हनति ७२ अर्द्धति ७३ मर्द्दति ७४ ससृते ७५नसते ७६ हर्षति ७७ इयर्त्ति ७८ ईर्त्ते ७९ईङ्खते ८० ज्रयति ८१ स्वात्रति ८२ गन्ति ८३आगनीगन्ति ८४ जंगन्ति ८५ जिन्वति ८६जसति ८७ गमति ८८ ध्रति ८९ ध्नाति ९०ध्रयति ९१ वहते ९२ रथर्य्यति ९३ जेहते ९४स्वःकति ९५ क्षुम्पति ९६ प्साति ९७ वाति ९८याति ९९ दृयति १०० द्राति १०१ डूलति १०२एजति १०३ जमति १०४ जवति १०५ वञ्चति १०६अनिति १०७ पवते १०८ हन्ति १०९ सेधति ११०अगन् १११ अजगन् ११२ जिगाति ११३ पतति११४ इन्वति ११५ द्रमति ११६ द्रवति ११७ वेति११८ हयन्तात् ११९ एति १२० जगायात् १२१अयुथुः १२२ । इति द्वाविंशं शतं गतिकर्म्म ।इति वेदनिघण्टौ २ अध्यायः ॥
(गम्यतेऽस्या-मिति । गम् + अधिकरणे क्तिन् ।) मार्गः ।(यथा, भगवद्गीतायाम् । ८ । २६ ।“शुक्लकृष्ण गती ह्येते जगतः शाश्वते मते ।एकया यात्यनावृत्तिमन्यया वर्त्तते पुनः ॥
”)दशा । (यथा, तत्रैव । ६ । ३७ ।“अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण ! गच्छति ॥
”गम्यते ज्ञायतेऽनया । करणे क्तिन् ।) ज्ञानम् ।(यथा, श्रीमद्भागवते । ७ । ५ । ३१ ।“न ते विदुः स्वार्थगतिं हि विष्णुंदुराशया ये बहिरर्थमानिनः ।अन्धा यथान्धैरुपणीयमानास्तेऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ॥
”“स्वस्मिन्नेव आत्मन्येव अर्थः प्रयोजनं येषां तेस्वार्थास्तत्त्वविदस्तेषां गतिर्ज्ञानस्वरूपं विष्णुंदुराशया वहिरर्थमानिनो न विदुः जानन्ति ।”इति तट्टीकायां स्वामी ॥
) यात्रा । (गम्यतेप्राप्यतेऽनया इति । गम् + करणे क्तिन् ।)अभ्युपायः । (यथा, महाभारते । १३ । १४९ । ६१ ।“यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ॥
”)नाडीव्रणम् । सरणी । इति मदिनी । १४ ॥
(गम् + भावे क्तिन् । परिणति । यथा, किराता-र्जुनीये । १० । ४० ।“मदनमुपदधे स एव तासादुरधिगमा हि गतिः प्रयोजनानाम् ॥
”“गतिः प्ररिणतिः ।” इति तट्टीकाकृन्मल्लि-नाथः ॥
प्रमाणम् । यथा, तत्रैव । १४ । १५ ।कृपेति चेदस्तु मृगः क्षतः क्षणा-दनेन पूर्व्वं न मयेति का गतिः ॥
“मया नेत्यत्र का गतिः किं प्रमाणम् ।” इतितट्टीकायां मल्लिनाथः ॥
मन्यते इति । गम् +कर्म्मणि क्तिन् । स्वरूपम् । यथा, तत्रैव । ६ । ३६ ।चरतस्तपस्तव वनेषु सहान वयं निरूपयितुमस्य गतिम् ।”“तव वनेषु तपश्चरतोऽस्य गतिं स्वरूप निरू-पयितुम् ।” इति मल्लिनाथः ॥
विषयः । यथा, कुमारे । ५ । ६४ ।“तपः किलेदं तदवाप्तिसाधनंमनोरथानामगतिर्न विद्यते ।”“मनोरथानां कामानां अगतिः अविषयःइति मल्लिनाथः ॥
कर्म्मफलम् । यथा, भगव-द्गीतायाम् । । ९ । १८ ।“गतिर्भर्त्ता प्रभुः साक्षी निवासः शरणं सुहृत् ॥
”“गतिः कर्म्मफलम् ।” इति शाङ्करभाष्यम्ग्रहभेदेन गतिभेदो यथा, --“अदृश्यरूपा कालस्य मूर्त्तयो भगणाश्रिताः ।शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ॥
”इति सूर्य्यसिद्धान्तः ॥
तत्र तु नक्षत्रभेदेन बुधग्रहस्य गतिभेदो यथा, बृहत्संहितायाम् । ७ अध्याये ।“नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रज-त्युदयम् ।जलदहनपवनभयकृत् धान्यार्घक्षयविवृद्ध्यै वा ॥
विचरच्छ्रवणधनिष्ठा प्राजापत्येन्दुविश्वदैवानि ।मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ॥
रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजे प्रजापीडा ।शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥
हस्तादीनि विचरन् षडृक्षाण्युपपीडयन् गवा-मशुभः ।स्नेहरसार्घविवृद्धिं करोति चोर्व्वीं प्रभूतान्नाम् ॥
आर्य्यम्णं हौतभुजं भद्रपदामुत्तरां यमेशञ्च ।चन्द्रस्य सुतो निघ्नन प्राणभृतां धातुसङ्क्षयकृत् ॥
आश्विनवारुणमूलान्युपमृद्नन् रेवतीञ्च चन्द्रसुतः ।पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः ॥
पूर्व्वाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नी-यात् ॥
क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥
प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोर-पापाख्याः ।सप्तपराशरतन्त्रे नक्षत्रैः कीर्त्तिता गतयः ॥
प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च ।मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदैवानि ॥
सङ्क्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति ।तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम् ॥
योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः ।घोराश्रवणस्त्वाष्ट्रं वसुदेवं वारुणं चैव ॥
पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति ।उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥
चत्वारिंशत्त्रिंशद्द्बिसमेता विंशतिर्द्विनवकञ्च ।नव मासार्द्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥
प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् ।सङ्क्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ॥
ऋज्व्यतिवक्रा वक्रा विकला च मतेन देवल-स्यैताः ।पञ्च चतुर्द्ब्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥
ऋज्वी हिता प्रजानामतिवक्रार्थं गतिर्वि-नाशयति ।शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी ॥
पौषाषाढश्रावणवैशाखेष्विन्दजः समाघेषु ।दृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु ॥
कार्त्तिकेऽश्वयजि वा यदि मासेदृश्यते तनुभवः शिशिरांशोः ।शस्त्रचौरहुतभुग्गदतोय-क्षुद्भयानि च तदा विदधाति ॥
रुद्धानि सौम्येऽस्तमिते पुराणियान्युद्गते तान्युपयान्ति मोक्षम् ।अन्ये तु पश्चादुदिते वदन्तिलाभः पुराणां भवतीति तज्ज्ञाः ॥
हेमकान्तिरथवा शुकवर्णःसम्यकेन मणिना सदृशो वा ।स्निग्धमूर्त्तिरलघुश्च हितायव्यत्यये न शुभकृच्छशिपुत्रः ॥
”अन्येषामपि ग्रहाणां गतिस्तत्रव क्रमशो विशे-षतो द्रष्टव्या ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“गमॢ गतौ”@} 2 गामकः-मिका, 3 गमकः-मिका, 4 जिगमिषकः-षिका, 5 जङ्गमकः-जंगमकः-मिका
गन्ता-त्री, गमयिता-त्री, जिगमिषिता-त्री, जङ्गमिता-त्री
6 गच्छन्-न्ती, गमयन्-न्ती, 7 जिगमिषन्-न्ती
-- 8 गमिष्यन्-न्ती-ती, गमयिष्यन्-न्ती-ती, जिगमिषिष्यन्-न्ती-ती
9 सङ्गच्छमानः, गमयमानः, 10 आगमयमानः, 11 सञ्जिगंसमानः, जङ्गम्यमानः
सङ्गंस्यमानः, गमयिष्यमाणः, आगमयिष्यमाणः, सञ्जिगंसिष्यमाणः, जङ्गमिष्यमाणः
12 अङ्गगत्, 13 मार्गगत्, अग्रेगूः, 14 जगत् 15 16 अग्रेगाः
17 गतम्- 18 गतः- 19 प्रगतः-तवान्, 20 अन्तिकादागतः-अभ्याशादागतः- दूरादागतः-विप्रकृष्टादागतः, गमितः, जिगमिषितः, जङ्गमितः-तवान्
गमः, 21 सुतङ्गमः, 22 अन्तगः, 23 अत्यन्तगः, अध्वगः, दूरगः, पारगः, सर्वगः, अनन्तगः, सर्वत्रगः, 24 पन्नगः 25 उरगः, सुगः, 26 दुर्गः 27 निर्गः, 28 29 30 स्त्र्यगारगः-ग्रामगः, भुजङ्गः 31 -भुजङ्गमः-भुजगः, तुरङ्गमः-तुरगः-तुरङ्गः, हृदयङ्गमः, 32 विहङ्गः-विहङ्गमः, जग्मिः, 33 जग्मिवान् 34 -जगन्वान्, 35 गमी- 36 आगामी-गामी, 37 गत्वरः 38 - 39 गत्वरी, 40 41 गामी, 42 नगः, 43 44 45 पद्गः 46 प्लवङ्गः, विहगः, 47 अध्वगामी, 48 अग्रेगावा 49, 50 गामुकः, 51 52 हंसगामिनी, 53 54 सुगन्मा, 55 जनङ्गमः, गमः, जिगमिषुः, 56 जङ्गमः
57 गन्तव्यम्, गमयितव्यम्, जिगमिषितव्यम्, जङ्गमितव्यम्
58 प्रगमनीयम्, 59 प्रगमनीयम्, जिगमिषणीयम्, जङ्गमनीयम्
60 61 गम्यम्, गम्यम्, जिगमिष्यम्, जङ्गम्यम्
ईषद्गमः- 62 दुर्गमः-दुरधिगमः-सुगमः
-- -- गम्यमानः, गम्यमानः, जिगंस्यमानः, जङ्गम्यमानः
63 गमः, 64 एकाहगमः, 65 निगमः, 66 अभिगमः, 67 आगमः, गमः, जिगमिषः, जङ्गमः
गन्तुम्, गमयितुम्, जिगमिषितुम्, जङ्गमितुम्
गतिः, 68 अग्रगामिका, गमना, जिगमिषा, जङ्गमा
69 प्रगमनम्, प्रगमनम्, जिगमिषणम्, जङ्गमनम्
गत्वा, गमयित्वा, जिगमिषित्वा, जङ्गमित्वा
अवगत्य- 70 अवगम्य, 71 अवगमय्य, सञ्जिगंस्य, प्रजिगमिष्य, सञ्जङ्गम्य
72 गामम् २, गत्वा २, 73 गमम् २, गामम् २, गमयित्वा २, जिगमिषम् २, जिगमिषित्वा २, जङ्गमम् २
जङ्गमित्वा २
74 इत्यादिना तुन्प्रत्ययः।
गन्तुः = पथिकः।
आगन्तुः--अतिथिः।]] गन्तुः-आगन्तुः, 75 इति डोप्रत्ययः।
गच्छतीति गौः।]] गौः, 76 इति त्रन्प्रत्ययः।
गात्रं = शरीरम्।]] गात्रम्।
01 (३७६)
02 (१-भ्वादिः-९८२। अक। अनि। पर।)
03 [[१। ‘जनीजॄष्क्रसु--’ (ग। सू। भ्वादौ) इत्यादिना अमन्तत्वेनास्य धातोर्मित्त्वम्। ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वः। एवं ण्यन्ते सर्वत्र बोध्यम्।]]
04 [[२। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इति सन इडागमः। तत्र ‘परस्मैपदेषु’ इत्यस्य तङानयोरभावे--इत्यर्थः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05 [[३। ‘यस्य हलः’ (६-४-४९) इति यङो यकारस्य लोपः। ‘अतो लोपः’ (६-४-४८) इत्यकारलोपः। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इत्यभ्यासस्य नुगागमः। यङवयवाकारलोपस्य स्थानिवद्भावेनाजादिक्ङित्प्रत्ययपरकत्वात् ‘गमहन--’ (६-४-९८) इत्युपधालोपो न शङ्क्यः। तत्र, ‘अनङि’ इति पर्युदासेन, औपदे- शिकाजादिप्रत्यये एव लोप इति भट्टोजिदीक्षितैः ‘न धातुलोप--’ (१-१-४) इत्यत्रोक्तत्वात्। तदनुसारेण अकारलोपाघटितानि रूपाणि प्रदर्शितानि। नागेश- भट्टैस्तु--औपदेशिकाजादावित्यर्थो नाश्रितः। अतः ‘जङ्ग्मकः’ इति रूपं, ‘न धातुलोप--’ (१-१-४) इति सूत्रे उद्योते प्रदर्शितम्। प्राचीननवीनयोर्बहुषु लक्ष्येषु आशयमेदो यथा भवति, तथाऽत्रापीति बोध्यम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06 [[४। ‘इषगमियमां छः’ (७-३-७७) इति शिति प्रत्यये धातोः छकारादेशः। ‘छे च’ (६-१-७३) इति तुक्। तस्य चर्त्वेन चकारः।]]
07 [[आ। ‘पारं जिगमिषन् सोऽथ पुनरावर्त्स्यतां द्विषाम्। मत्तद्विरदवद् रेमे वने लङ्कानिवासिनाम्।।’ भ। का। ९-४३।]]
08 [[५। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इतीडागमः।]]
09 [[६। ‘समो गम्यृच्छिभ्याम्’ (१-३-२९) इति शानच्।]]
10 [[७। ‘आगमेः क्षमायामात्मनेपदं वक्तव्यम्’ (वा। १-३-२१) इति ण्यन्तात् आङ्पूर्वका- दस्मात् आत्मनेपदमेव।]]
11 [[८। सम्पूर्वकत्वेन आत्मनेपदनिमित्तसद्भावादिडागमो न। ‘अज्झनगमां सनि’ (६-४-१६) इति दिर्घस्तु--अजादेशगमेरेव, न त्वस्य।]]
12 [पृष्ठम्०३७०+ ३४]
13 [[१। ‘गमः क्वौ’ (६-४-४०) इत्यनुनासिकलोपे ‘ह्रस्वस्य पिति--’ (६-१-७१) इति तुक्।]]
14 [[२। ‘ऊङ् च गमादीनाम्--’ (वा। ६-४-४०) इत्यनुनासिकलोपः ऊकारादेशश्च।]]
15 [[३। ‘द्युतिगमिजुहोतीनां द्वे च’ (वा। ३-२-१७८) इति क्विपि द्विर्वचनम्, अनुनासिक- लोपः। तुक्।]]
16 [[४। ‘जनसनखनक्रमगमो विट्’ (३-२-६७) इति विट्। ‘विङ्वनोरनुनासिकस्यात्’ (६-४-४१) इत्यनुनासिकस्याकारादेशः। सवर्णदीर्घः। अग्रगामी इत्यर्थः।]]
17 [[५। ‘क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणे क्तः। ‘इदमेषां गतम्’ इत्यधिकरणे। ‘गत्यर्थाकर्मक--’ (३-४-७२) इति कर्तरि क्तः ‘देवदत्तो गतः’ इत्यत्र। ‘गतमनेन’ इत्यत्र भावे क्तः। ‘अनुदात्तोपदेश--’ (६-४-३७) इत्यनुनासिकलोपः। एवं क्तिन्यपि।]]
18 [[आ। ‘ततो मन्दगतः पक्षी तेषां प्रायोपवेशनम्। अशनीयमिवाशंसुः महानायादशोभनः।।’ भ। का। ७-७९।]]
19 [[६। ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति आदिकर्मणि क्तः। गन्तुमारब्धवान् इत्यर्थः।]]
20 [[७। ‘पञ्चम्याः स्तोकादिभ्यः’ (६-३-२) इति पञ्चम्या अलुक्।]]
21 [[८। ‘गमश्च’ (३-३-४७) संज्ञायां खच्। ‘खित्यनव्ययस्य’ (६-३-६६) इति वर्तमाने, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। एवं हृदयङ्गमः, जनङ्गमः इत्यादीनि ज्ञेयानि।]]
22 [[९। ‘अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः’ (३-२-४८) इति डप्रत्ययः। टेर्लोपः। एबम् अत्यन्तग इत्यादि अनन्तग इति पर्यन्तम्।]]
23 [[B। ‘दूरगैरन्तगैर्बाणैर्भवान् अत्यन्तगः श्रियः। अपि सङ्क्रन्दनस्य स्यात् क्रद्धः किमुत वालिनः।।’ भ। का। ६-११०।]]
24 [[१०। ‘सर्वत्रपन्नयोरुपसंख्यानम्’ (वा। ३-२-४८) इति डः।]]
25 [[११। ‘उरसो लोपश्च’ (वा। ३-२-४८) इति डः सकारलोपश्च। उरसा गच्छतीति उरगः सर्पः।]]
26 [[१२। ‘सुदुरोरधिकरणे’ (वा। ३-२-४८) इति डः। सुखेन दुःखेन चात्र गच्छन्तीति सुगः दुर्गः।]]
27 [[C। ‘सुगेषु दुर्गेषु च तुल्यविक्रमैर्जवादहंपूर्विकया यियासुभिः। गणैरविच्छेदनिरुद्धमाबभौ वनं निरुच्छ्रवासमिवाकुलाकुलम्।।’ किरातार्जुनीये-- १४-३२।]]
28 [[१३। ‘निसो देशे’ (वा। ३-२-४८) इति डः। देशविशेषस्य नाम। निरन्तरं गच्छन्त्य- त्रेति अधिकरणे डः।]]
29 [पृष्ठम्०३७१+ ३२]
30 [[१। ‘डप्रकरणे--डोऽन्यत्रापि दृश्यते’ (वा। ३-२-४८) इति डः। एवं गुरुतल्पगः ग्रामगः इत्यादिकं ज्ञेयम्।]]
31 [[२। ‘खच्च डिद्वा वक्तव्यः’ (वा। ३-२-३८) इति वा डित्त्वेन टिलोपः। मुम्। एवं प्लवङ्ग-तुरङ्ग-विहङ्गादयः।]]
32 [[३। ‘विहायसो विह च’ (वा। ३-२-३८) इति विहायसो ‘विह’ इत्यादेशः, खचो डित्त्वं च वा भवति। मुम्। डित्त्वपक्षे ‘विहग’ इति। एवं तुरग-प्लवगादयः।]]
33 [[४। ‘भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः--’ (वा। ३-२-१७१) इति किः, किन् वा प्रत्ययः। तस्य लिड्वद्भावातिदेशात् द्वित्वादिकम्। ‘गमहन--’ (६-४-९८) इत्युपधालोपः।]]
34 [[५। ‘क्वसुश्च’ (३-२-१०७) इति लिटः क्वसुः। द्विर्वचनम्। ‘विभाषा गमहनविद- विशाम्’ (७-२-६८) इतीड्विकल्पः। जगन्वान् इत्यत्र ‘म्वोश्च’ (८-२-६५) इति मकारस्य नकारः।]]
35 [[६। ‘भविष्यति गम्यादयः’ (३-३-३) इति भविष्यत्काले इनिप्रत्ययः। “गमी गामी तथाऽऽगामी प्रयायिप्रतियायिनौ। प्रबोधी प्रतिबोधी च भावी प्रस्थाय्यमी नव।।” इति प्रक्रियासर्वस्वे गम्यादेः परिगणनं कृतम्। ‘आङि च णित्’ (ग। सू। ३-३-३) इति इनिप्रत्ययस्य णिद्वद्भावात् ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः।]]
36 [[आ। ‘साधोरपि स्वः खलु गामिताऽथो गमी न तु स्वर्गमितः प्रयाणे। इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न।।’ नैषधे ६-९९।]]
37 [[७। ‘गत्वरश्च’ (३-२-१६४) इति गमेः क्वरपि अनुनासिकलोपे तुक् निपात्यते तच्छीलादिषु कर्तृषु। स्त्रियां ‘टिड्ढाणञ्--’ (४-१-१५) इति ङीप्।]]
38 [[B। ‘सृमरोऽभङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुः। विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्।।’ भ। का। ७-२२।]]
39 [[C। ‘निद्रावशेन निभृतेक्षणमुत्थितानां द्वित्राणि मन्थरपदान्यपगत्वरीणाम्। काले गृहीतमुचिते रशनाः कथञ्चित् मौनव्रतं जहति मुग्धवधूजनानाम्।।’ यादवाभ्युदये १९-६।]]
40 [व्रजं]
41 [[८। ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इति णिनिः। ‘अकेनोर्भविष्यदाध- मर्ण्ययोः’ (२-३-७०) इति षष्ठीनिषेधः।]]
42 [[९। ‘नगोऽप्राणिष्वन्यतरस्याम्’ (६-३-७७) इति नञ्समासे नलोपाभावो विकल्पेन। पक्षे--अगः। न गच्छतीति नगः पर्वतः। गमेर्डः।]]
43 [[ड्। ‘परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसु। विन्ध्ये तिग्मांशुमार्गस्य चेरुः परिभवोपमे।।’ भ। का। ७-५४।]]
44 [पृष्ठम्०३७२+ ३०]
45 [[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्। अध्यापयन्तं विनयात्प्रणेमुः पद्गाः भरद्वाजमुनिं सशिध्यम्।। भ। का। ३-४१।]]
46 [[१। ‘डोऽन्यत्रापि दृश्यते’ (वा। ३-२-४८) इति गमेर्डप्रत्ययः। ‘पादस्य पदा- ज्यातिगोपहतेषु’ (६-३-५२) इति पद्भावः। पादाभ्यां गच्छन्तीति पद्गाः = पदातयः।]]
47 [[२। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
48 [[३। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्। ‘विड्वनोरनुनासिकस्य--’ (६-४-४१) इत्यात्वे रूपम्। स्त्रियाम् अग्रेगावा इति भवति। ‘वनो न हशः’ (वा। ४-१-७) इति ङीब्रेफादेशनिषेधात्।]]
49 [[B। ‘अग्रेगावा च शूराणाम् अभिभूः सर्वविद्विषाम्। शंस्थरूपः स्थिरप्रज्ञः पपात सहसा भुवि।।’ भ। का। ६-१२५।]]
50 [[४। ‘लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ (३-२-१५४) इति तच्छीलादिषु कर्तृषु उकञ्। स्त्रियां गामुका इति रूपम्।]]
51 [[C। ‘अतीते वर्षुके काले प्रमत्तः स्थायुको गृहे। गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्।।’ भ। का। ७-१८।]]
52 [[५। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः। हंस इव गच्छतीति हंसगामिनी।]]
53 [[ड्। ‘योषिद्बृन्दारिका तस्य दयिता हंसगामिनी। दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला।।’ भ। का। ५-१८।]]
54 [[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्। ‘नेड् वशि कृति’ (७-२-८) इतीण्णिषेधः। ‘म्वोश्च’ (८-२-६५) इति मकारस्य नकारः।]]
55 [[E। ‘औदुम्बरे वैदिशनैम्बमुख्ये देशेऽवसन् ये स जनङ्गमौघाः। ये चाघिकौशाम्बि जनास्तदानीमाकस्मिकीं प्रीतिमयासिषुस्ते।।’ वासुदेवविजये ३-१९।]]
56 [[F। ‘आ त्रिकूटमकार्षुर्ये त्वत्का निर्जङ्गमं जगत्।’ दशग्रीव कथं ब्रूषे तानवध्यान् महीपतेः।।’ भ। का। ९-१२६।]]
57 [[७। यङन्तात् पचाद्यच् (३-१-१३४)। ‘यङोऽचि च’ (२-४-७४) इति यङो लुक्।]]
58 [[८। ‘न भाभूपूकमिगमि--’ (८-४-३४) इति निषेधात् ‘कृत्यचः’ (८-४-२९) इति णत्वं न।]]
59 [[९। ‘ण्यन्तभादीनामुपसंख्यानम्--’ (वा। ८-४-३४) इति वार्तिकात् ण्यन्तादपि णत्वं न।]]
60 [पृष्ठम्०३७३+ २८]
61 [[१। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्ययः।]]
62 [[आ। ‘बलिनावमुमद्रीन्द्रं युवां स्तम्बेरमाविव। आचक्षाथामिथः कस्मात् शङ्करेणापि दुर्गमम्।।’ भ। का--६-९३।]]
63 [[२। ‘ग्रहवृदृनिश्चिगमश्च’ (३-३-५८) इति, भावे अकर्तरि च कारके घञपवादोऽप्- प्रत्ययः।]]
64 [[३। एकाहेन गम्यते इत्येकाहगमः = अध्वा। कर्मणि अप्। ‘परिमाणाख्यायां सर्वेभ्यः’ (३-३-२०) इति प्राप्तस्य घञोऽपवादत्वेन ‘अश्वस्यैकाहगमः’ (५-२-१९) इति सूत्रे निपातनादप्।]]
65 [[४। ‘गोचरसंचरवहव्रजव्यजापणनिगंमाश्च’ (३-३-११९) इति घञपवादः घप्रत्ययान्तो निपातः। निगम्यते = ज्ञायतेऽनेन--इति निगमः = वेदः। करणे घः। गत्यर्थानां ज्ञानार्थकत्वात् ज्ञायमानत्वम्।]]
66 [[B। ‘ततः प्रविव्राजयिषुः कुमारम् आदिक्षदस्याभिगमं वनाय। सौमित्रिसीतानुचरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन्।।’ भ। का। ३-९।]]
67 [[C। ‘प्रग्राहैरिव पत्राणामन्वेष्या मैथिली कृतैः। ज्ञातव्या चेङ्गितैर्धर्म्यैर्ध्यायन्ती राघवाऽऽगमम्।।’ भ। का। ७-४४।]]
68 [[५। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति पर्यायार्थे ण्वुच् स्त्रियाम्। ‘अग्रगा- मिका अद्य भवतः।’ अग्रगामिका = अग्रगमनम्।]]
69 [[ड्। ‘हरेः प्रगमनं नास्ति न प्रभानं हिमद्रुहः। नातिप्रवेपनं वायोर्मया गोपायिते वने।।’ भ। का--९-१०७।]]
70 [[६। ‘वा ल्यपि’ (६-४-३८) इति मान्तानिटां धातूनाम्, अनुनासिकलोपविकल्पः। लोपपक्षे तुक्। तेन रूपद्वयम्।]]
71 [[७। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
72 [पृष्ठम्०३७४+ २६]
73 [[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति ण्यन्ताण्णमुलि उपधादीर्घविकल्पः।]]
74 [[२। ‘सितनिगमि--’ [द। उ। १-१२२]
75 [[३। ‘गमेर्डोः’ [द। उ। २-११]
76 [[४। ‘गमेरा च’ [द। उ। ८-८५]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
