| YouTube Channel

गतायुस (gatAyusa)

 
Apte Hindi
Hindi
गतायुस
वि* गत-आयुस -
"जीर्ण, निर्बल, अतिवृद्ध"
वाचस्पत्यम्
Sanskrit
गतायुस
त्रि०
गतं गतप्रायमायुर्जीवनकालोऽस्य प्राप्त-चरमकाले, गतायुर्लक्षणं सुश्रुतेनोक्तं यथा“शरीरशीलयोर्यस्य प्रकृतेर्व्विकृतिर्भवेत् तस्यारिष्टं स-मासेन व्यासतस्तु निबोध मे शृणोति विविधान्शब्दान् यो दिव्यानामभावतः समुद्रपूरमेघानाम-सम्पत्तौ निःस्वनान् तान् स्वनान्नावगृह्णातिमन्यते चान्यशब्दवत् ग्राम्यारण्यस्वनांश्चापि विपरीतान्शृणोत्यपि द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति नशृणोति योऽकस्मात्तं ब्रुवन्ति गतायुषम् यस्तूष्ण-मिव गृह्लाति शीत, मुष्णञ्च शीतवत् सञ्जातशीतपिडकोयश्च दाहेन पीड्यते उष्णगात्रोऽतिमात्रञ्च यः शीतेनप्रवेपते प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा ।पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते वर्ण्णान्य-भावराज्यो वा यस्य गात्रे भवन्ति हि स्नातानु-लिप्तं यञ्चापि भजन्ते नीलमक्षिकाः सुगन्धिर्वातियोऽकस्मात्तं ब्रुवन्ति गतायुषम् विपरीतेन गृह्णातिरसान् यश्चोपयोजितान् उपयुक्ताः क्रमाद्यस्य रसादोषाभिवृद्धये यस्य दोषाग्निसाम्यञ्च कुर्थ्युर्म्मिथ्योप-योजिताः यो वा रसान्न संवेत्ति गतासुं तं प्रच-क्षते सुगन्धिं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् ।गृह्णीते योऽन्यथा गन्धं शान्ते दीपे नीरुजः योवा गन्धान्न जानाति गतासुं तं विनिर्दिशेत् द्वन्द्वा-न्युष्णहिमादीनि कालावस्था दिशस्तथा विपरीतेनगृह्णाति भावानन्यांश्च यो नरः दिवाज्योतींषियश्चापि ज्वलितानीव पश्यति रात्रौ सूर्य्यं ज्वलन्तंवा दिवा वा चन्द्रवर्चसम् अमेघोपप्लवे यश्च शक्रचाप-तडिद्गुणान् तडित्वतोऽसितान् यो वा निर्मले गगनेघनान् विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम् यश्चा-निलं मूर्त्तिमन्तमन्तरीक्षञ्च पश्यति धूमनीहारवासो-भिरावृतामिव मेदिनीम् प्रदीप्तमिब लोकञ्च यो वाप्लुतमिवाम्भसा भूमिभष्टापदाकारां लेखाभिर्य्यश्चपश्यति पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम् ।ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् ज्योत्स्ना-दर्पणतोयेषु छायां यश्च पश्यति पश्यत्येकाङ्ग-हीनां वा विकृतां वाऽन्यसत्वजाम् श्वकाककङ्कगृध्राणांप्रेतानां यक्षरक्षसाम् पिशाचोरगनागानां भूतानांविकृतामपि यो वा मयूरकण्ठाभं विधूमं वह्निमी-क्षते आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् ।”अधिकं कालचिह्नशब्दे १९९६ पृ० उक्तम्