| YouTube Channel

गण्डिक (gaNDika)

 
Shabdartha Kaustubha
Kannada
गण्डिक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬೆಣಚುಕಲ್ಲು /ನೊರೆಯಂತಿರುವ ಸಣ್ಣ ಕಲ್ಲುಗಳು
निष्पत्तिः - > "ठन्" (५-२-११५)
व्युत्पत्तिः - > गण्डः बुद्बुद इवाकारोऽस्त्यस्य
वाचस्पत्यम्
Sanskrit
गण्डिक
त्रि०
गण्डः बुद्बुद इवाकारेणास्त्यस्य ठन् बुद्वुदो-पमे क्षुद्रपाषाणादौ “गन्धमादनपार्श्वे तु परे त्वपर-गण्डिकाः” भा० भी० अ० “अपरे अस्य गन्धमादनस्यै-वावयवभूता बुद्बुदोपमाः क्षुद्रशैलाः” नील० अल्पार्थेङीप् स्वार्थे ह्रस्वः गण्डिका क्षुद्रगण्डपाषाणे स्त्री“तथा माल्यवतः शृङ्गे पूर्वपूर्वानुगण्डिका” भा० भी० अ० ।अत्र “नगं डिकाकारयोगं करेऽणुमिति” भा० आश्व०९ श्लोकं कश्चिदुदाजहार तच्चिन्त्यं तस्य श्लोकस्य नग-मितिच्छेदः तदर्थस्तु नीलकण्ठेनोक्तः यथा नगं पर्वतं, डीयते विहायसा गच्छति डीः पक्षी ततः अल्पार्थे कन्डिका मशकादि तस्याकारेण योगोऽस्य तथाभूतं करेकुर्वे तथा पर्वतमपि मशकीकर्तुं शक्नोमीति”