| YouTube Channel

गण्डदूर्व्वा (gaNDadUrvvA)

 
शब्दकल्पद्रुमः
Sanskrit
गण्डदूर्व्वा,
स्त्री,
(गण्डा ग्रन्थिला दूर्व्वेति कर्म्म-धारयः ।) दूर्व्वाविशेषः गाँटिया दूर्व्वा इतिभाषा
तत्पर्य्यायः गण्डाली अतितीव्रा ३मत्स्याक्षी वारुणी मीनपर्णी सूची-नेत्रा श्यामग्रन्थिः ग्रन्थिला ग्रन्थि-पर्णी सूचीपत्रा १० श्यामकाण्डा ११ जलस्था१२ शकुलाक्षी १३ कलाया १४ चित्रा १५ ।अस्या गुणाः मधुरत्वम् वातपित्तज्वरभ्रम-तृष्णाश्रमद्वन्द्वदोषनाशित्वम् शिशिरत्वञ्च इतिराजनिर्घण्टः
यथा, भावप्रकाशे ।“गण्डदूर्व्वा तु गण्डाली मत्स्याक्षी शकुलाक्षकः ।गण्डदूर्व्वा हिमा लोहद्राविणी ग्राहिणी लघुः
तिक्ता कषाया मधुरा वातकृत् कटुपाकिनी ।दाहतृष्णावलाशास्रकुष्ठपित्तज्वरापहा
वाचस्पत्यम्
Sanskrit
गण्डदूर्व्वा स्त्री गण्डयुक्ता ग्रन्थिमती दूर्वा (गाँटदूर्वा)दूर्वाभेदे राजनि० “गण्डदूर्वा हिगा लौहद्राविणीग्राहिणी लघुः तिक्ता कषाया मधुरा वातकृत् कटुपाकिनी दाहतृष्णावलासास्रकुष्ठपित्तज्वरापहा”भावप्र०