| YouTube Channel

गणेशः (gaNezaH)

 
Apte Hindi
Hindi
गणेशः
पुं*
गण-ईशः -
शिव का पुत्र गणपति
Wordnet
Sanskrit
Synonyms:
गणेशः, गजाननः, गणपतिः, लम्बोदरः, वक्रतुण्डः, विनायकः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गणनाथः, हेरम्बः, भालचन्द्रः, विघ्नराजः, द्वैमातुरः, गणाधिपः, विघ्नेशः, पर्शुपाणिः, आखुगः, शूर्पकर्णः, गणः
noun
हिन्दूनां एका प्रधाना तथा अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
"गणेशस्य वाहनं मूषकः अस्ति।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Synonyms:
गणेशः
noun
एकः टीकाकारः
"विश्वनाथदीक्षितपुत्रस्य गणेशस्य चिच्चन्द्रिकायाः टीका ख्याता"
Synonyms:
गणेशः
noun
एकः टीकाकारः
"रामदेवपुत्रस्य गणेशस्य नलोदये लिखिता टीका ख्याता"
Synonyms:
गणेशः
noun
एकः ज्योतिषिकी
"गणेशः षोडशतमे संवत्सरे अभवत्"
अमरकोशः
Sanskrit
Word: गणेशः
Root: गणेशः
Gender: undefined
Number: undefined
Meaning(s):
guide
buddha
leader
Remover
obstacle
removing
impediment
Guru or spiritual preceptor
particular class of demons [pl.]
taking away [removing, impediment, obstruction]
Shloka(s):
1|1|38|1 विनायको विघ्नराजद्वैमातुरगणाधिपाः। (स्वर्गवर्गः)
1|1|38|2 अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥ (स्वर्गवर्गः)
Synonym(s):
1|1|38|1 विनायकः (विनायक) (पुं) guide, buddha, leader, Remover, obstacle, removing, impediment, Guru or spiritual preceptor, particular class of demons [pl.], taking away [removing, impediment, obstruction]
1|1|38|1 विघ्नराजः (विघ्नराज) (पुं)
1|1|38|1 द्वैमातुरः (द्वैमातुर) (पुं)
1|1|38|1 गणाधिपः (गणाधिप) (पुं)
1|1|38|2 एकदन्तः (एकदन्त) (पुं)
1|1|38|2 हेरम्बः (हेरम्ब) (पुं)
1|1|38|2 लम्बोदरः (लम्बोदर) (पुं) voracious, potbellied, having a large or protuberant belly
1|1|38|2 गजाननः (गजानन) (पुं)
Related word(s):
परा_अपरासंबन्धः देवः
जन्य_जनकसंबन्धः शिवः
जातिः देवता
शब्दकल्पद्रुमः
Sanskrit
गणेशः,
पुं,
(गणानां प्रमथसमूहानां यद्वागणानां जीवजातानां ईशः ईश्वरः ।) शिवः ।इति हारावली
(यथा, महाभारते ।कैराते ३९ ७८ ।“प्रसादये त्वां भगवन् ! सर्व्वभूतमहेश्वर ! ।गणेशं जगतः शम्भुं लोककारणकारणम्
”गणानां गणाख्यदेवविशेषाणां विघ्नाख्यदेवानांवा ईशः नियन्ता ।) शिवपुत्त्रः (यथा, महा-भारते ७३ ।“काव्यस्य लेखनार्थाय गणेशः स्मर्य्यतां मुने !
”)तत्पर्य्यायः विनायकः विघ्नराजः द्वैमा-तुरः गणाधिपः एकदन्तः हेरम्बः ७लम्बोदरः गजाननः इत्यमरः ४०
विघ्नेशः १० पर्शुपाणिः ११ गजास्यः १२आखुगः १३ इति हेमचन्द्रः १२१
शूर्पकर्णः १४ इति ब्रह्मवैवर्त्तपुराणम्
*
तस्योत्पत्तिः तत्र पार्व्वतीं प्रति वृद्धब्राह्मण-रूपश्रीकृष्णवाक्यम् यथा, --“न भवेद्विष्णुभक्तिश्च विष्णुमाये ! त्वया विना ।त्वद्व्रतं लोकशिक्षार्थं त्वत्तपस्तव पूजनम्
सर्व्वेज्याफलदात्री त्वं नित्यरूपा सनातनी ।गणेशरूपः श्रीकृष्णः कल्पे कल्पे तवात्मजः
त्वत्क्रोडमागतः क्षिप्रमित्युक्त्वान्तरधीयत ।कृत्वान्तर्द्धानमीशश्च बालरूपं विधाय सः
जगाम पार्व्वतीतल्पं मन्दिराभ्यन्तरस्थितम् ।तल्पस्थे शिवबीर्य्ये मिश्रितः बभूव
ददर्श गेहशिखरं प्रसूतबालको यथा ।शुद्धचम्पकवर्णाभः कोटिचन्द्रसमप्रभः
सुखदृश्यः सर्व्वजनैश्चक्षूरश्मिविवर्द्धकः ।अतीवसुन्दरतनुः कामदेवविमोहनः
मुखं निरुपमं बिभ्रत् शारदेन्दुविनिन्दकम् ।सुन्दरे लोचने बिभ्रत् चारुपद्मविनिन्दके
ओष्ठाधरपुटं बिभ्रत् पक्वविम्बविनिन्दकम् ।कपालञ्च कपोलन्तदतीव सुमनोहरम्
नासाग्रं रुचिरं बिभ्रत् खगेन्द्रचञ्चुनिन्दकम् ।त्रैलोक्येषु निरुपमं सर्व्वाङ्गं विभ्रदुत्तमम्
शयानः शयने रम्ये प्रेरयन् हस्तपादकम्
”तस्य शनैश्चरदर्शनात् मस्तकविनाशः विष्णु-कर्त्तृकगजमस्तकसंयोगश्च यथा, --“सा देववशीभूता शनिं प्रोवाच कौतुकात् ।पश्य मां मत्शिशुमिति नियतिः केन वार्य्यते
पार्व्वतीवचनं श्रुत्वा सोऽनुमेने हृदा स्वयम् ।पश्यामि किं पश्यामि पार्व्वतीसुतमित्यहो
बालं द्रष्टुं मनश्चक्रे बालमातरं शानि ।विषण्णमानसः पूर्व्वं शुष्ककण्ठौष्ठतालुकः
सव्यलोचनकोणेन ददर्श शिशोर्मुखम् ।शनिश्च दृष्टिमात्रेण चिच्छेद मस्तकं मुने !
विस्मितास्ते सुराः सर्व्वे चित्रपुत्तलिका यथा ।देव्यश्च शैला गन्धर्व्वाः शिवः कैलासवासिनः
तान् सर्व्वान् मूर्च्छितान् दृष्ट्वा चारुह्य गरुडं हरिः ।जगाम पुष्पभद्रां उत्तरस्यां दिशि स्थिताम्
पुष्पभद्रानदीतीरे ददर्श काननस्थितम् ।गजेन्द्रं निद्रितं तत्र शयानं हस्तिनीयुतम्
शीघ्रं सुदर्शनेनैव चिच्छेद तच्छिरो मुदा ।स्थापयामास गरुडे रुधिराक्तं मनोहरम्
आगत्य पार्व्वतीस्थानं बालं कृत्वा स्ववक्षसि ।रुचिरं तच्छिरः कृत्वा योजयामास बालके
ब्रह्मस्वरूपो भगवान् ब्रह्मज्ञानेन लीलया ।जीवनं जीवयामास हूंकारोच्चारणेन
”इति ब्रह्मवैवर्त्तपुराणम्
*
अस्य ध्यानम् ।“खर्व्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरंप्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम् ।दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरंबन्देशैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम्
”इति पुराणम्
*
ध्यानान्तरं यथा, --“सिन्दूराभं त्रिनेत्रं पृथतरजठरं हस्तपद्मैर्दधानंदन्तं पाशाङ्कुशेष्टान्युरुकरविलसद्बीजपूराभिरामम् ।बालेन्दुद्योतमौलिं करिपतिवदनं दानपूरार्द्रगण्डंभोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्ग-रागम्
”इति तन्त्रसारः
(तस्य नमस्कारमन्त्रो यथा, --“देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः ।विघ्नं हरन्तु हेरम्बचरणाम्बुजरेणवः
”इति पूजापद्धतिः
)एकपञ्चाशद्गणेशाः यथा, --“विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ।विघ्नकृत् विघ्नहर्त्ता गणैकद्बिसुदन्तकाः
गजवक्त्रनिरञ्जनौ कपर्द्दी दीर्घजिह्वकः ।शङ्ककर्णश्च वृषभध्वजश्च गणनायकः
गजेन्द्रः सूर्पकर्णश्च स्यात्त्रिलोचनसंज्ञकः ।लम्बोदरमहानन्दौ चतुर्म्मूर्त्तिसदाशिवौ
आमोददुर्म्मुखौ चैव सुमुखश्च प्रमोदकः ।एकपादो द्विजिह्वश्च सुरवीरः सषण्मुखः
वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ।सेनानीर्ग्रामणीर्म्मत्तो विमत्तो मत्तवाहनः
जटौ मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ।भक्षप्रियो गणेशश्च मेघनादकसंज्ञकः
व्यापी गणेश्वरः प्रोक्ताः पञ्चाशद्गणपा इमे ।तरुणारुणसङ्काशा गजवक्त्रास्त्रिलोचनाः
पाशाङ्कुशवराभीतिहस्ताः शक्तिसमन्विताः
*
तेषामेकपञ्चाशच्छक्तयश्च यथा, --“ह्रीः श्रीश्च पुष्टिः शान्तिश्च स्वस्तिश्चैव सरस्वती ।स्वाहामेधाकान्तिकामिन्यो मोहिन्यपि वैनटी
पार्व्वती ज्वलिनी नन्दा सुयशाः कामरूपिणी ।उमा तेजोवती सत्या विघ्नेशानी सुरूपिणी
कामदा मदजिह्वा भूतिः स्याद्भौतिका सिता ।रमा महिषी प्रोक्ता शृङ्गिणी विकर्णपा
भ्रुकुटिः स्यात्तथा लज्जा दीर्घघोणा धनुर्द्धरा ।यामिनी रात्रिसंज्ञा कामान्धा शशिप्रभा
लोलाक्षी चञ्चला दीप्तिः सुभगा दुर्भगा शिवा ।भर्गा भगिनी चैव भोगिनी सुभगा मता
कालरात्रिः कालिका पञ्चाशच्छक्तयः स्मृताः ।सर्व्वालङ्करणोद्दीप्ताः प्रियाङ्कस्थाः सुशोभनाः
रक्तोत्पलकरा ध्येया रक्तमाल्याम्बरारुणाः
”इति शारदातिलकटीकायां राघवभट्टः