| YouTube Channel

गणयन्-न्ती (gaNayan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गण सङ्ख्याने”@} 2 3 गणकः-गणिका, 4 जिगणयिषकः-षिका
गणयिता-त्री, जिगणयिषिता-त्री
गणयन्-न्ती, जिगणयिषन्-न्ती
गणयिष्यन्-न्ती-ती, जिगणयिषिष्यन्-न्ती-ती, गणयमानः, जिगणयिषमाणः
गणयिष्यमाणः, जिगणयिषिष्यमाणः
5 सुगण्-सुगणौ-सुगणः
6 सुगाण्-सुगाणौ-सुगाणः
7 गणितम्-तः, जिगणयिषितः-तवान्
गणः, जिगणयिषुः
गणयितव्यम्, जिगणयिषितव्यम्
8 गणनीयम्, जिगणयिषणीयम्
9 गण्यम्, जिगणयिष्यम्
ईषद्गणः-दुर्गणः-सुगणः
-- गण्यमानः, जिगणयिष्यमाणः
गणः, जिगणयिषः
गणयितुम्, जिगणयिषितुम्
गणना, जिगणयिषा
10 11 गणनम्, जिगणयिषणम्
गणयित्वा, जिगणयिषित्वा
12 विगणय्य, 13 विजिगणयिष्य
गणम् २, गणयित्वा २, जिगणयिषम्
जिगणयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(३७१)
02
=>
(१०-चुरादिः-१८५४। सक। सेट्। उभ। अदन्तः।)
03
=>
[[१। अल्लोपस्य स्थानिवत्त्वात् ‘अत उपधायाः’ (७-२-११६) इति वृद्धिर्न। एवं सर्वत्र बोध्यम्।]]
04
=>
[[२। या गणयित्री सैवमुच्यते
\n\n या तु वेश्या, तत्र गणः = लम्पटजनोऽस्याः भर्तृत्वेन अस्तीति मत्वर्थीये ठनि गणिका।]]
05
=>
[[३। विचि, एवं रूपम्।]]
06
=>
[[४। क्विपि तु ‘क्वौ विधिं प्रति स्थानिवत्--’ (वा। १-१-५८) इति निषेधाद्दीर्घे रूपम्।]]
07
=>
[[५। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः।]]
08
=>
[[६। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
09
=>
[[७। ‘अचो यत्’ (३-१-९७) इति यत्।]]
10
=>
[पृष्ठम्०३६६+ २५]
11
=>
[[आ। ‘क्रुद्धेनाकथि चाप्यवर्यगणने शठ्येन भोः श्वठ्यतां मन्त्री तौ प्रपटय्य पाशवटनैः पापौ विरह्यौ पुरात्। के मूढाः स्तनयित्नुनिर्गदनवत् तूर्यध्वनिं कुर्वते मल्लौघोऽपतयद् रिपुर्न तु पतांचक्रे पातोचितः।।’ धा। का। ३-५३।]]
12
=>
[[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
13
=>
[[B। ‘विगणय्य कारणमनेकगुणं निजयाऽथ वा कथितमल्पतया। असदप्यदः सहितुमर्हसि नः क्व वनेचराः क्व निपुणा मतयः।।’ किरातार्जुनीये-६-३७।]]