| YouTube Channel

गणपतिकल्प (gaNapatikalpa)

 
Shabdartha Kaustubha
Kannada
गणपतिकल्प
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿಘ್ನ ಪರಿಹಾರಕ್ಕಾಗಿ ಮಾಡುವ ಗಣಪತಿಯ ಪೂಜೆಯ ವಿಧಾನ
व्युत्पत्तिः - > गणपत्युद्देशेन कल्पः
Aufrecht Catalogus Catalogorum
English
गणपतिकल्प tantr. B. 4, 254. Oppert 1804.
गणपतिकल्प tantr. Fl. 132.
गणपतिकल्प tantr. Adyar Libr. 39. Bd. 933.
वाचस्पत्यम्
Sanskrit
गणपतिकल्प
पु०
गणपत्युद्देशेन कल्पः विधानभेदः ।गणेशोद्देशेन विघ्नविघाताय तत्स्नपनादिरूप, विधान-भेदे कल्पः याज्ञ० उक्तो यथा ।“विनायकः कर्म्मविघ्नसिद्ध्यर्थं विनियोजितः ग-णानामाधिपत्ये रुद्रेण ब्रह्मणा तथा तेनोपसृष्टोयस्तस्य लक्षणानि निबोधत स्वप्नेऽवगाहतेऽत्यर्थं जलंमुण्डांश्च पश्यति काषायवाससश्चैव क्रव्यादांश्चाधि-रोहति अन्त्यजैर्गर्द्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ब्र-व्रजल्लपि तथात्मानं मन्यतेऽनुगतं परैः विमना विफ-लारम्भः संसीदत्यनिमित्ततः तेनोपसृष्टो लभते नराज्यं राजनन्दनः कुमारी भर्त्तारमपत्यं नच गर्भिणी आचार्य्यत्वं श्रोत्रियश्च शिष्योऽध्ययनंतथा बणिग्लाभं चाप्नोति कृषिञ्चैव कृषी बलः ।स्नपनं तस्य कर्त्तव्यं पुण्येऽह्नि विधिपूर्वकम् गौर-सर्षपकल्केन साज्येनोत्सादितस्य सर्व्वौषधैः सर्व-गन्धैः प्रलिप्तशिरसस्तथा भद्रासनोपविष्टस्य स्वसिवाच्या द्विजाः शुभाः अश्वस्थानाद्गजस्थानाद्वल्मी-कात् सङ्गमात् ह्रदात् मृत्तिकां रोचनां गन्धान् गु-ग्गुलुञ्चाप्सु निःक्षिपेत् या आहृता एकवर्णैश्चतुर्भिःकलशैर्ह्रदात् चर्म्मण्यानडुहे रक्ते स्थाप्यं भद्रासनंतथा सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते भगन्तेवरुणो राजा भगं सूर्य्यो वृहस्पतिः भगमिन्द्रश्चवायुश्च भगं सप्तर्षयो ददुः यत्ते केशेषु दौर्भाग्यंसीमन्ते यच्च मूर्द्धनि ललाटे कर्णयोरक्ष्णोरापस्तद्-घ्नन्तु सर्वदा स्नातस्य सार्षपं तैलं स्रुवेणोडुम्बरेणच जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृह्य ।मितश्च संमितश्चंव तथा शालकटङ्कटौ कुष्माण्डोराजपुत्रश्चेत्थन्ते स्वाहासमन्वितैः नामभिर्बलिमन्त्रैश्चनमस्कारसमन्वितैः दद्याच्चतुष्पथे सूर्पे कुशानास्तीर्य्यसर्वतः कृताकृतांस्तण्डुलांश्च पललौदनमेव ।मत्स्यान् पक्वांस्तथैवामान् मांसमेतावदेव तु पुष्पंचित्रं सुगन्धञ्च सुराञ्च त्रिविधामपि मूलकं पूरिका-पूपांस्तथैवैरण्डिकाः स्रजः दध्यन्नं पायसञ्चैव गुड-पिष्टं समोदकम् एतान् सर्वानुपाहृत्य भूमौ कृत्वाततः शिरः विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम् रूपं देहियशो देहि भाग्यं भगवति! देहि मे पुत्रान् देहिधनं देहि सर्वान् कामांश्च देहि मे ततः शुक्लाम्बरधरःशुक्लगन्धानुलेपनः ब्राह्मणान् भोजयेद्दद्याद्वस्त्रयुग्मंगुरोरपि एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।कर्म्मणां फलमाप्नोति श्रियञ्चाप्नोत्यनुत्तमाम् आदित्यस्यसदा पूजां तिलकं स्वामिनस्तथा महागणपतेश्चैवकुर्वन् सिद्धिमवाप्नुयात्”