| YouTube Channel

गणपतिः (gaNapatiH)

 
Wordnet
Sanskrit
Synonyms:
गणेशः, गजाननः, गणपतिः, लम्बोदरः, वक्रतुण्डः, विनायकः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गणनाथः, हेरम्बः, भालचन्द्रः, विघ्नराजः, द्वैमातुरः, गणाधिपः, विघ्नेशः, पर्शुपाणिः, आखुगः, शूर्पकर्णः, गणः
noun
हिन्दूनां एका प्रधाना तथा अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
"गणेशस्य वाहनं मूषकः अस्ति।"
Synonyms:
गणपतिः
noun
एकः वंशः
"गणपतेः उल्लेखः प्रवरग्रन्थे वर्तते"
Synonyms:
गणपतिः
noun
एकः टीकाकारः
"गणपतेः चौरपञ्चाशिकायाः टीका ख्याता"
शब्दकल्पद्रुमः
Sanskrit
गणपतिः,
पुं,
(गणानां गणसंज्ञकानां देवानांपतिः अधीश्वरः स्वामी वा ।) गणेशः इतिहलायुधः
(यथा, पञ्चतन्त्रे १७० ।“अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्त्तःफणीतं क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपिनागाशनम्
”अग्रपूजनीयप्रधानदेवताविशेषः यथा, यजु-र्वेदीयवाजसनेयसंहितायाम् १६ २५ “नमोगणेभ्यो गणपतिभ्यश्च वो नमो नम इति
”बृहस्पतिः यथा, ऋग्वेदे २३ ।“गणानां त्वा गणपतिं हवामहेकविं कवीनामुपमश्रवस्तमम्
”शिवः यथा, महाभारते १३ १७ ४१ ।“गणकर्त्ता गणपतिर्दिग्वासाः काम एव ।मन्त्रवित् परमो मन्त्रः सर्व्वभावकरो हरः
”आथर्व्वणोपनिषद्विशेषः यथा, मौक्तिकोप-निषदि प्रथमाध्याये ।“त्रिपुरातपनदेवीभावनाभस्मजावालगणपति-महावाक्यगोपालतपनकृष्णहयग्रीवेति
”)