| YouTube Channel

गणकः (gaNakaH)

 
Apte Hindi
Hindi
गणकः
पुं*
- -
अङ्कगणित का ज्ञाता
Wordnet
Sanskrit
Synonyms:
सामुद्रकः, दैवलेखकः, ईक्षणीकः, दैवज्ञः, गणकः, कार्तांतिकः, दैवचिन्तकः, नैमित्तः
noun
शुभाशुभदर्शनस्य विद्यायाः ज्ञाता।
"सामुद्रकेण उक्तानि सर्वाणि वचनानि सत्यं प्रमाणिभूतानि।"
Synonyms:
लेखापालः, आङ्किकः, गणकः
noun
यः आयव्ययादीनाम् अङ्कनं करोति।
"रामकृष्णाजीमहोदयः स्टेटबँक इति वित्तकोषे लेखापालः अस्ति।"
Synonyms:
नवमालिका, तारपुष्पः, तिलभाविनी, व्यक्तगन्धा, गणकः
noun
सुगन्धितानां पुष्पाणां क्षुपः।
"साधोः कुटेः प्राङ्गणे नवमालिका दृश्यते।"
Synonyms:
गणकः
noun
अष्टतारकाणां समूहः
"गणकस्य उल्लेखः बृहत्संहितायां वर्तते"
शब्दकल्पद्रुमः
Sanskrit
गणकः,
पुं,
(गणयति शुभाशुभग्रहभोगजनितफलंनिरूपयतीति गण त् सङ्ख्याने + कर्त्तरिण्वुल् ।) दैवज्ञः ज्योतिर्वित् तत्पर्य्यायः साम्बत्-सरः ज्योतिषिकः दैवज्ञः मौहूर्त्तिकः ५मौहूर्त्तः ज्ञानी कार्त्तान्तिकः इत्यमरः ।२ १४
ज्योतिषिकः इति तट्टीका
तुवर्णसङ्करजातिविशेषः देवलाद्वैश्यागर्भजातः ।तस्य कर्म्म तिथिवारादिज्ञापनम् इति परा-शरपद्धतिः
तु अस्पृश्यः यथा, --“कलिकाले महाशानि ! पाषण्डा बहवो जनाः ।सङ्गदोषान्महेशानि ! तत्क्षणाद्धानितां व्रजेत्
तस्मात् प्रयत्नतो देवि ! संसर्गं वर्ज्जयेत् सुधीः ।वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः
तथाप्यस्पृ श्यगणकं सर्व्वदा तं परित्यजेत्
”इति शाक्तानन्दतरङ्गिण्यां षोडशोल्लासे महिष-मर्द्दिनीतन्त्रवचनम्
तस्य लक्षणं यथा, --“ज्योतिःशास्त्रविशेषज्ञः सुन्दराङ्गः सभापटुः ।कुलक्रमागतः शुद्धो गणकः स्यान्महीपतेः
”इति युक्तिकल्पतरुः
(यदि शास्त्रविशेषे गणकस्य निन्दादिकंश्रूयते तत्तु केवलं नक्षत्रजीविन एवेतिबोध्यम् प्रकृतज्योतिःशास्त्रन्तु द्बिजातिभिरेवा-वश्यमध्ययनीयं वेदाङ्गत्वात् यथा, --“संयुतोऽपीतरैः कर्णनासादिभि-श्चक्षुषाङ्गेन हीनो किञ्चित् करः ।तस्माद्द्विजैरध्ययनीयमेतत्पुण्यं रहस्यं परमञ्च तत्त्वम्
”इति सिद्धान्तशिरोमणिः
*
प्रजापतिपुत्त्रास्ताराविशेषकेतवः यथा, --“ताराः पुञ्जनिकाशा गणका नाम प्रजापतेरष्टौपुत्त्राः
”इति बृहत्संहिता ११ २५
संकीर्णजातिविशेषः यथोक्तम् ।“चर्म्मकारस्य द्वौ पुत्त्रौ गणको वाद्यपूरकः
”)