गणक (gaNaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishगणक - gaNaka - - calculator
गणकयन्त्र - gaNakayantra - - calculator
गुणक - guNaka - - calculator
कलच - kalaca - - calculator
गणक - gaNaka - - calculator of nativities
योग्य - yogya - - calculator of expedients
सुगणक - sugaNaka - - good calculator or astronomer
Wilson
EnglishApte
Englishगणक [gaṇaka], [गण्-ण्वुल्] (-णिका ) Bought for a large sum.
कः An arithmetician.
An astrologer
Vāj.3.2
रे पान्थ पुस्तकधर क्षणमत्र तिष्ठ वैद्योसि किं गणकशास्त्र- विशारदोसि । केनौषधेन मम पश्यति भर्तुरम्बा किं वा गमिष्यति पतिः सुचिरप्रवासी ॥ Subhāṣ.
An assemblage of eight stars
तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ Bri. 11.25. -की The wife of an astrologer.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiगणक
वि* - गण् - ण्वुल्
बहुत धन देकर खरीदा हुआ
गणकः
- -
अङ्कगणित का ज्ञाता
Shabdartha Kaustubha
Kannadaगणक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೈವಜ್ಞ /ಜ್ಯೌತಿಷಿಕ /ಜೋಯಿಸ
निष्पत्तिः - > गण (सङ्ख्याने) + णिच् - "ण्वुल्" (३-१-१३३)
व्युत्पत्तिः - > गणयति
गणक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಎಣಿಸುವವನು /ಲೆಕ್ಕ ಮಾಡುವವನು
गणक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೇವಲನಿಂದ ವೈಶ್ಯ ಹೆಂಗಸಿನಲ್ಲಿ ಹುಟ್ಟಿದ ಬೆರಕೆ ಜಾತಿಯವನು
गणक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಚರ್ಮಕಾರನ ಮಗ /ಒಬ್ಬ ಸಂಕೀರ್ಣಜಾತಿಯವನು
L R Vaidya
EnglishIndian Epigraphical Glossary
EnglishGaṇaka (EI 18), official designation
cf. Tamil kaṇakaṉ
(SITI), a village accountant
also vāśal-kaṇakkaṉ (SITI),
accountant at the vāśal (palace or palace-gate)
ūrkkaṇakkar-
jīvitam (SITI), land assigned in lieu of salary to the village
accountant or perquisites of the office of the village accountant
(i. e. the Paṭvārī as he is called in many parts of India).
Kridanta Forms
Sanskritगण (ग꣡ण꣡ सङ्ख्याने - चुरादिः - सेट्)
ल्युट् = गणनम्
अनीयर् = गणनीयः - गणनीया
ण्वुल् = गणकः - गणिका
तुमुँन् = गणयितुम्
तव्य = गणयितव्यः - गणयितव्या
तृच् = गणयिता - गणयित्री
क्त्वा = गणयित्वा
ल्यप् = प्रगणय्य
क्तवतुँ = गणितवान् - गणितवती
क्त = गणितः - गणिता
शतृँ = गणयन् - गणयन्ती
शानच् = गणयमानः - गणयमाना
Sanskrit Tibetan
Tibetanskar mkhan
गणक
अभिधानचिन्तामणिः
Sanskritसांवत्सरो ज्यौतिषिको मौहूर्तिको निमित्तवित् ।
दैवज्ञगणकादेशिज्ञानिकार्तान्तिका अपि ॥ ४८२ ॥
विप्रश्निकेक्षणिकौ च सैद्धान्तिकस्तु तान्त्रिकः ।
सांवत्सर (पुं), ज्यौतिषिक (पुं), मौहूर्तिक (पुं), निमित्तविद् (पुं), दैवज्ञ (पुं), गणक (पुं), आदेशिन् (पुं), ज्ञानिन् (पुं), कार्तान्तिक (पुं), विप्रश्निक (पुं), ईक्षणिक (पुं), सैद्धान्तिक (पुं), तान्त्रिक (पुं)
अभिधानरत्नमाला
Sanskritसांवत्सर
सांवत्सर, ज्योतिषिक, ज्ञानिन्, मौहूर्तिक, कार्तान्तिक, दैवज्ञ, आदेशिन्, गणक
सांवत्सरो ज्योतिषिको ज्ञानी मौहूर्तिकस्तथा ।
कार्तान्तिकस्तु दैवज्ञ आदेशी गणकः स्मृतः ॥ ४०३ ॥
verse 2.1.1.403
page 0047
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritगणकः, (गणयति शुभाशुभग्रहभोगजनितफलंनिरूपयतीति । गण त् क सङ्ख्याने + कर्त्तरिण्वुल् ।) दैवज्ञः । ज्योतिर्वित् । तत्पर्य्यायः । साम्बत्-सरः २ ज्योतिषिकः ३ दैवज्ञः ३ मौहूर्त्तिकः ५मौहूर्त्तः ६ ज्ञानी ७ कार्त्तान्तिकः ८ । इत्यमरः ।२ । ८ । १४ ॥
ज्योतिषिकः ९ । इति तट्टीका ॥
स तुवर्णसङ्करजातिविशेषः । देवलाद्वैश्यागर्भजातः ।तस्य कर्म्म तिथिवारादिज्ञापनम् । इति परा-शरपद्धतिः ॥
स तु अस्पृश्यः । यथा, --“कलिकाले महाशानि ! पाषण्डा बहवो जनाः ।सङ्गदोषान्महेशानि ! तत्क्षणाद्धानितां व्रजेत् ॥
तस्मात् प्रयत्नतो देवि ! संसर्गं वर्ज्जयेत् सुधीः ।वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः ॥
तथाप्यस्पृ श्यगणकं सर्व्वदा तं परित्यजेत् ॥
”इति शाक्तानन्दतरङ्गिण्यां षोडशोल्लासे महिष-मर्द्दिनीतन्त्रवचनम् ॥
तस्य लक्षणं यथा, --“ज्योतिःशास्त्रविशेषज्ञः सुन्दराङ्गः सभापटुः ।कुलक्रमागतः शुद्धो गणकः स्यान्महीपतेः ॥
”इति युक्तिकल्पतरुः ॥
(यदि च शास्त्रविशेषे गणकस्य निन्दादिकंश्रूयते तत्तु केवलं नक्षत्रजीविन एवेतिबोध्यम् । प्रकृतज्योतिःशास्त्रन्तु द्बिजातिभिरेवा-वश्यमध्ययनीयं वेदाङ्गत्वात् । यथा, --“संयुतोऽपीतरैः कर्णनासादिभि-श्चक्षुषाङ्गेन हीनो न किञ्चित् करः ।तस्माद्द्विजैरध्ययनीयमेतत्पुण्यं रहस्यं परमञ्च तत्त्वम् ॥
”इति सिद्धान्तशिरोमणिः ॥
* ॥
प्रजापतिपुत्त्रास्ताराविशेषकेतवः । यथा, --“ताराः पुञ्जनिकाशा गणका नाम प्रजापतेरष्टौपुत्त्राः ॥
”इति बृहत्संहिता । ११ । २५ ॥
संकीर्णजातिविशेषः । यथोक्तम् ।“चर्म्मकारस्य द्वौ पुत्त्रौ गणको वाद्यपूरकः ॥
”)
वाचस्पत्यम्
Sanskritगणक गण--ण्वुल् । १ संख्याकारके २ सांवत्सरिके ।तस्य लक्षणगुणदोषादिकमुक्तं वृ० सं० २ अ० यथा“ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम् तत्कार्त्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता ।स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौहोरान्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः ।“अथातः सांवत्सरसूत्रं व्याख्यास्यामः । तत्र सांवत्-सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवागनसूयकःसमसुसंहतोपचितगात्रसन्धिरविकलश्चारुकरचरणनखन-यनचिवुकदशनश्रवणललाटभ्रूत्तमाङ्गो वपुष्मान् गम्भी-रोदात्तघोषः । प्रायः शरीराकारानुवर्त्तिनो हि गुणाश्चदोषाश्च भवन्ति । तत्र गुणाः । शुचिर्दक्षः प्रगल्भोवाग्मी प्रतिभानवान् देशकालवित् सात्विको न पर्षद्भीरुःसहाध्यायिभिरनभिमवनीयः कुशलोऽव्यसनी शान्ति-पौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतोपवास-निरतः स्वतन्त्राश्चर्योत्पादितज्ञानप्रभावः पृष्टाभिधाय्य-न्यत्र दैवात्ययाद्ग्रहगणितसंहिताहोराग्रन्थार्थवेत्ता ।तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु प-ञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्रयाम-मुहूर्त्तनाडीविनाडीप्राणत्रुटित्रुट्यवयवाद्यस्य कालस्यक्षेत्रस्य च वेत्ता । चतुर्णां च मासानां सौरसावन-नाक्षत्रचन्द्राणामधिमासकावमसम्भवस्य च कारणाभिज्ञः ।षष्ट्यव्दयुगवर्षमासदिनहोराधिपतीनां प्रतिपत्तिविच्छेद-वित् । सौरादीनाञ्च मानानां सदृशासदृशयोग्या-योग्यत्वप्रतिपादनपटुः । सिद्धान्तभेदेऽप्ययननिवृत्तौ प्रत्यक्षंसममण्डलरेखासम्प्रयोगाभ्युदितांशकानाञ्च छायाजल-यन्त्रदृग्गणितसाम्येन प्रतिपादतकुशलः । सूर्य्यादीनाञ्चग्रहाणां शीघ्रमन्दयाम्योत्तरनीचोच्चगतिकारणाभिज्ञःसूर्य्यचन्द्रमसोश्च ग्रहणे ग्रहणादिमोक्षकालदिक्प्रमाण-स्थितिविमर्दवर्णदेशानामनागतग्रहसमागमयुद्धानामा-देष्टा । प्रत्येकग्रहभ्रमणयोजनकक्षाप्रमाणप्रतिविषय-योजनपरिच्छेदकुशलो भूभगणभ्रमणसंस्थानाद्यक्षाबल-म्बकाहर्व्यासचरदलकालराश्युदयच्छायानाडीकरणप्रभृ-तिंषु क्षेत्रकालकरणेष्वभिज्ञो नानाचोद्यप्रश्नभेदोपलब्धि-जनितवाक्सारो निकषसन्तापाभिनिवेशैर्विशुद्धस्य कनक-स्येवाधिकतरममलीकृतस्य शास्त्रस्य वक्ता तन्त्रज्ञो भवति ।उक्तञ्च न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः ।निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः ।ग्रन्थोऽन्यथान्यथार्थः करणं यच्चान्यथा करोत्यबुधः । सपितामहमुपगम्य स्तौति नरो वैशिकेनार्य्याम् । तन्त्रेसुपरिज्ञाते लग्ने छायाम्बुयन्त्रसोवदिते । होरार्थेच सुरूढे नादेष्टुर्भारती बन्ध्या । उक्तञ्चार्य्यविष्णु-गुप्तेन । अप्यर्णवस्य पुरुषः प्रतरन् कदाचिदासादयेद-निलवेगवशेन पारम् । न त्वस्य कालपुरुषाख्यमहा-र्णवस्य गच्छेत् कदाचिदनृषिर्मनसापि पारम् । होरा-शास्त्रेऽपि राशिहोराद्रेक्काणनवांशकद्वादशभागत्रिंश-द्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभि-रनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टादि-परिग्रहो निषेकजन्मकालविस्मापनप्रत्ययादेशसद्योमर-णायुर्दायदशान्तर्दशाष्टवर्गराजयोगचन्द्रयोगद्विग्रहादियो-गानां नाभसादीनाञ्च योगानां फलान्याश्रयभावाबलो-कननिर्याणगत्यनूकानि तात्कालिकप्रश्नशुभाशुभनिमि-त्तानि विवाहादीनाञ्च कर्मणां करणम् । यात्रायाञ्चतिथिदिवसकरणनक्षत्रमुहूर्त्तविलग्नयोगदेहस्पन्दनस्वप्नवि-जयस्नानग्रहयज्ञगणयागाग्निलिङ्गहस्त्यश्वेङ्गितसेनाप्रवाद-चेष्टादिग्रहषाङ्गुण्योपायमङ्गलामङ्गलशकुनसैन्यनिवेशभूम-योऽग्निवर्णा मन्त्रिचरदूताटविकानां यथाकालं प्रयोगाःपरदुर्गलम्भोपायाश्चेत्युक्तं चाचार्यैः । जगति प्रसा-रितमिवालिखितमिव मतौ निषिक्तमिव हृदये । शास्त्रंयस्य सभगणं नादेशा निष्फलास्तस्य । संहितापारगश्चदैवचिन्तको भवति । यत्रैते संहितापदार्थाः । दिनकरा-दीनां ग्रहाणां चारास्तेषु च तेषां प्रकृतिविकृतिप्रमाण-वर्णकिरणद्युतिसंस्थानास्तमनोदयमार्गमार्गान्तरवक्रानुव-क्रर्क्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेनदेशेष्वगस्तिचारः सप्तर्षिचारो ग्रहभक्तयो नक्षत्रव्यूह-ग्रहशृङ्गाटकग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भलक्षण-रोहिणीस्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरि-धिपरिवेषपरिघपवनोल्कादिग्दाहक्षितिचलनसन्ध्यारा-गगन्धर्बनगररजोनिर्घातार्घकाण्डसस्यजन्मेन्द्रध्वजेन्द्र-चापवास्तुविद्याङ्गविद्यावायसविद्यान्तरचक्रमृगचक्राश्व-चक्रवातचक्रप्रासादलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायु-र्वेददगार्गलनीराजनखञ्जनोत्पातशान्तिमयूरचित्रकघृत-कम्बलखङ्गपट्टकृकवाकुकूर्मगोऽजाश्वेभपुरुषस्त्रीलक्षणान्य-न्तःपुरचिन्तापिटकलक्षणोपानच्छेदवस्त्रच्छेदचामरदण्ड-शय्यासनलक्षणरत्नपरीक्षादीपलक्षणदन्तकाष्ठाद्याश्रितानिशुभाशुभानि निमित्तानि सामान्यानि च जगतः प्रति-षुरुषं पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैव-ज्ञेन चिन्तयितव्यानि । न चैकाकिना शक्यन्तेऽहर्निश-मवधारयितुं निमित्तानि । तस्मात् सुभृतेनैव दैवज्ञे-नान्ये तद्विदश्चत्वारो भर्त्तव्याः । तत्रैकेनैन्द्री वाग्नेयीच दिगवलोकयितव्या । याम्या नैरृती चान्येनैवंवारुणींवायव्या, चोत्तरा चैशानी चेति । यस्मादुल्का-पातादीनि निमित्तानि शीघ्रमुपगच्छन्तीति । तेषां चा-कारबर्णस्नेहप्रमाणादिग्रहर्क्षामिघातादिभिः फलानिभवन्ति । उक्तञ्च गर्गेण महर्षिणा “कृत्स्नाङ्गोपाङ्ग-कुशलं होरागणितनैष्ठिकम् । यो न पूजयते राजा सनाशमुपगच्छति । वनं समाश्रिता येऽपि निर्ममा निःपरि-ग्रहाः । अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ।अप्रदीपा यथा रात्रिरनादित्यं यथा नभः । तथाऽसां-वत्सरो राजा भ्रमत्यन्ध इवाध्वनि । मुहूर्त्तं तिथि-नक्षत्रमृतवश्चायने तथा । सर्वाण्येवाकुलानि स्युर्न स्यात्सांवत्सरो यदि । तस्माद्राज्ञाभिगन्तव्यो विद्वान् सांवत्-सरोऽग्रणीः । जयं यशः श्रियं भोगान् श्रेयश्च सम-भीप्सता । नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता ।चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते । न सांवत्-सरपाठी च नरकेषूपपद्यते । व्रह्मलोकप्रतिष्ठाञ्च लभतेदैवचिन्तकः । ग्रन्थतश्चार्थतश्चैतत्कृत्स्नं जानाति योद्विजः! अग्रभुक् स भवेच्छ्राद्धे पूजितः पङ्क्तिपाबनः ।म्लेच्छा हि यवनास्तेषु सम्यक् शास्त्रमिदं स्थितम् ।ऋषिवत्तेऽपि पूज्यन्ते किं पुनर्दैवविद्द्विजः! कुहका-वेशपिहितैः कर्णोपश्रुतिहेतुभिः । कृतादेशो न सर्वत्रप्रष्टव्यो न स दैववित् । अविदित्वैव यः शास्त्रं दैवज्ञत्वंप्रपद्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ।नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः । स ब्रजत्यन्ध-तामिस्रं सार्द्धमृक्षविडम्बिना । नगरद्वारलोष्टस्य यद्वत्स्यादुपयाचितम् । आदेशस्तद्वदज्ञानां यः सत्यः स वि-भाव्यते । सम्पत्त्या योजितादेशस्तद्विच्छिन्नकथाप्रियः! ।मत्तः शास्त्रैकदेशेन त्याज्यस्तादृग्महीक्षिता । यस्तुसम्यग्विजानाति होरागणितसंहिताः । अभ्यर्च्यः सनरेन्द्रेण स्वीकर्त्तव्यो जयैषिणा । न तत्सहस्रं करिणांवाजिनां वा चतुर्गुणम् । करोति देशकालज्ञो यदेकोदैवचिन्तकः । दुःस्वप्नदुर्विचिन्तितदुःप्रेक्षितदुःकृतानिकर्माणि । क्षिप्रं प्रयान्ति नाशं शशिनः श्रुत्वा भसं-वादम् । न तथेच्छति भूपतेः पिता जननी वा स्वजनोऽथवा सुहृत् । स्वयशोऽभिविवृद्धये यथा हितमाप्तःसवलस्य दैववित्” ।सि० शि० ज्योतिःशास्त्रस्य वेदनेत्र रूपाङ्गत्वप्रतिपा-दनेन तदध्ययने द्विजातिमात्रस्यैवाधिकारं प्रतिपाद्य त-द्वेत्तुर्गणकस्य प्रशंसा दर्शिता यथा“त्रुट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमाच्चारश्चद्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः । भूधिष्ण्यग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तः सउदाहृतोऽत्र गणितस्कन्धप्रवन्धे बुधैः ॥
जानन् जातक-संहिताः सगणितस्कन्धैकदेशा अपि ज्योतिःशास्त्रविचारसारचतुरः प्रश्नेष्वकिञ्चित्करः । यः सिद्धान्तमनन्तयुक्ति-विततं नो वेति भित्तौ यथा राजा चित्रमयोऽथवा सुव-टितः काष्ठस्य कण्ठीरवः ॥
गर्जत्कुञ्जरवर्जिता नृपच-मूरप्यूर्जिताऽश्वादिकैरुद्यानं च्युतचूतवृक्षमथवा पाथो-विहीनं सरः । योषित् प्रोषितनूतनप्रियतमा यद्वन्नभात्युच्यकैर्ज्योतिःशास्त्रमिदं तथैव विबुधाः सिद्धान्त-हीनं जगुः” ॥
“इदानीं ज्योतिःशास्त्रस्य वेदाङ्गत्वंनिरूय वेदाङ्गत्वादवश्यमध्येतव्यं तद्द्विजैरेव नान्यैःशूद्रादिभिरित्येतत्प्रतिपादनार्थं श्लोकचतुष्टयमाह” प्रमि०“वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण ।शास्त्रादस्मात् कालबोधो यतः स्याद्वेदाङ्गत्वं ज्योतिष-स्योक्तमस्मात् ॥
शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषीश्रोत्रमुक्तं निरुक्तं च कल्पः करौ । या तु शिक्षास्यवेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ।वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्यतेनोच्यते । संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गेनहीनो न किञ्चित्करः । तस्माद्द्विजैरध्ययनीयमेतत् पुण्यंरहस्यं परमं च तत्त्वम् । यो ज्योतिषं वेत्ति नरः ससम्यग् धर्मार्थकामान् लभते यशश्च” सि० शि० । एवं गणकस्यप्रशंसायां स्थितायाम् सिद्धान्तानभिज्ञस्य नक्षत्रसूचिनोनिन्दाश्रवणाच्च “वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधको-त्तमः! तथाप्यस्पृश्यगणकं सर्वदा तु परित्यजेत्” महिष-मर्द्दिनीतन्त्रवाक्यम् नक्षत्रसूचिविषयम् “चमकारस्य द्वौपुत्रौ गणको वाद्यपूरकः, इत्युक्त सङ्कीर्णवर्णरूपगणकपरत्वेसङ्कोचाभावाच्च तस्याधमशूद्रतया वेदाङ्गज्योतिषेऽनधिकारात्अनधिकृतशास्त्राध्यायिनो निन्दौचित्यात् । “द्विजातेऽस्तुयथोक्त स्कन्धादित्रयवेत्तृरूपगणकस्य प्रशंस्यत्वात् । न तथा ।यथाहपी० धा० “सिद्धान्तसंहिताहोरारूपस्कन्दत्रयात्मकम् ।वेदस्य निर्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम् । विनैतदखिलंश्रौतं स्मार्तकर्म न सिध्यति । तस्माज्जगद्धितायेदं ब्रह्मणानिर्मितं पुरा । अतएव द्विजैरेतदध्येतव्यं प्रयत्नतः” इति ।तत्रैव ज्योतिःशास्त्राध्येतुर्माहात्म्यमाह माण्डव्यः “एवं-विधस्य श्रुतिनेत्रशास्त्रस्वरूपवेत्तुः खलु दर्शनं वै । निह-न्त्यशेषं कलुषं जनानां षडव्दजं धर्मसुखास्पदं स्यात्” अत्रज्ञानविशेषेण ज्योतिर्विदः पूज्यतातारतम्यं जीर्णैरभ्य-धायि “दशदिनकृतपापं हन्ति सिद्धान्तवेत्ता त्रिदिनजनि-तदोषं तन्त्रबिज्ञः स एव । करणभगणवेत्ता हन्त्यहोरा-त्रदोषं जनयति घनमंहश्चात्र नक्षत्रसूची” । नक्षत्रसूचीदैवज्ञो घनं बहु अंहः पापं जनयति । तल्लक्षणं वरा-हसंहितायां “अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रप-द्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः” अन्यच्च“तिथ्युत्पत्तिन्न जानन्ति ग्रहाणां नैव साधनम् । पर-वाक्येन वर्त्तन्ते ते वै नक्षत्रसूचकाः” व्युत्पत्तिस्तु गृहे गृहेगत्वाऽपृष्ट एव नक्षत्राण्यश्विन्यादीनि शुभाशुभफलसूच-कानि सूचयतीति नक्षत्रसूची । वराहः “नक्षत्रसूच-कोद्दिष्टमुपवासं करोति यः । स व्रजत्यन्धतामिस्रं सा-र्द्धमृक्षविडम्बिना नक्षत्रसूचकं पापं भिषजं शुल्क-जीविनम् । तादृक् पौराणिकादींश्च वाङ्मात्रेणापिनार्चयेत्” अतएव वसिष्टः “त्रिस्कन्धपारङ्गम एव पूज्यःश्राद्धे सदा भूसुरवृन्दमध्ये । नक्षत्रसूची खलु पापरूपोहेयः सदा सर्वसुधर्मकृत्ये” । वराहोऽपि ग्रन्थतश्चाऽर्थत-श्चैव कृत्स्नं जानाति यो द्विजः । अग्रभुक् स भवे-च्छ्राद्धे पूजितः पङ्क्तिपावनः । नासांवत्सरिके देशेवस्तव्यं भूतिमिच्छता । चक्षुर्भूतोऽपि यत्रैव पापं तत्रन विद्यते । मुहूर्त्तं तिथिनक्षत्रमृतवश्चायनानि च ।सर्वाण्येवाकुलानि स्पुर्न स्यात् सांवत्सरो यदि” । अतएव यद्धर्मशास्त्रे सुमन्तुः “तस्करकितवेत्यादिना महतागद्येन यत् “सांवत्सरिकोऽपाङ्क्तेयः” इत्याह यच्च महा-भारतेऽपि “कितवो भ्रूणहा यक्ष्मीत्यादिपद्यषट्कमध्येक्रुशीलवो देवलको नक्षत्रैर्यश्च जीवति । एतानिहविजानीयाद्ब्राह्मणान् पङ्क्तिदूषकानित्युक्तं तन्नक्षत्र-सूचकज्योतिर्विद्विषयं यदाह कश्यपः “दारर्त्विगृभ्रूण-हन्तॄंश्च व्यङ्गान्नक्षत्रसूचकान् । वर्ज्जयेत् ब्राह्मणानेतान्सर्वकर्मसु यत्नतः” इति “नक्षत्रसूचकश्चैव पर्वकारश्च ग-र्हितः” इति ब्रह्मपुराणेऽप्युक्तम् मनुः “तिथिं पक्षस्यन ब्रूयान्न नक्षत्राणि निर्दिशेत्” इत्याह स्मअपृष्ट इति शेषः । यमोऽपि “नक्षत्रतिथिपुण्याहान्मु-हूर्त्तान् मङ्गलानि च । न निर्दिशन्ति ये विप्रा-स्तैर्भुक्तं ह्यक्षयं भवेदिति” वसिष्ठवाक्यन्तु “प्राग-भिहितम् महाप्रयोजनं त्वेतच्छास्त्रस्य सम्यग्ज्ञा-नाद्ब्रह्म सायुज्यमिति” तदुक्तं गर्गेण “ज्योतिश्चक्रतु लोकस्य सर्वस्योक्तं शुभाऽशुभम् । ज्योतिर्ज्ञानं च योवेद स याति परमां गतिम्” । गतिं ब्रह्मसायुज्यमितिसूर्य्यसिद्धान्तेऽपि “दिव्यञ्चक्षुर्ग्रहर्क्षाणां दर्शितं ज्ञान-मुत्तमम् । विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्व-तम्” वराहसंहितायामपि “न साम्बत्सरपाठी च नरकेपरिपच्यते । ब्रह्मलोके प्रतिष्ठाञ्च लभते दैवचिन्तक” इतिगणकस्य पत्नी ङीष् गणकी तत्पत्न्यां जटा० । “तस्मिन्मग्नं गणक! कथय क्षिप्रमम्भः प्रमाणम् “गणक! पव-नवेगादेकदेशे स भग्नः” लीला० । “गणकचक्रचूडामणिः”सि० शि० । “चर्म्मकारस्य द्वौ पुत्रौ गणको वाद्यपूरकः”इत्युक्ते ३ सङ्कीर्णजातिभेदे प्रजापतिपुत्रे तारापुञ्जा-त्मके अष्टसंख्यके ४ केतुभेदे “तारापुञ्जनिकाशा गणकानाम प्रजापतेरष्टौ” वृह० सं० ११ अ० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
