गजानन (gajAnana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiगजानन
गज-आनन -
गणेश का विशेषण
Shabdartha Kaustubha
Kannadaगजानन
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿನಾಯಕ /ಗಣಪತಿ
व्युत्पत्तिः - > गजस्याननमिव आननमस्य
शब्दकल्पद्रुमः
Sanskritगजाननः, (गजस्य हस्तिन आननं मुखमेवआननं यस्य ।) गणेशः । इत्यमरः । १ । १ । ४१ ॥
(यथा, ब्रह्मवैवर्त्ते गणेशखण्डे ६ अध्याये ।“शनिदृष्ट्या शिरश्छेदात् गजवक्त्रेण योजितः ।गजाननः शिशुस्तेन नियतिः केन बाध्यते ॥
”पुराणान्तरे मतभेदोऽपि दृश्यते यथा, स्कान्देगणेशखण्डे ११ अध्याये ।गुरुरुवाच ।“अवतारो यदि धृतः साधुत्राणाय भो विभो !प्रकाशयाशु वदनं सर्व्वेषां शोकनाशनम् ॥
नयस्व सर्व्वदेवानामानन्दं हृदये प्रभो ! ।शिव उवाच ।प्रत्युवाच गुरुं पुत्त्रः पार्व्वत्या हीनमस्तकः ॥
शिशुरुवाच ।महेशाख्येन राज्ञा ते प्रणतौ चरणौ यदा ।तदाशीर्या त्वया दत्ता तस्मै राज्ञे गुरो मुदा ॥
गजयोनौ जनिर्मुक्तिः शिवहस्तादुदीरिता ।तत् सर्व्वमभवत् तस्य विद्यते चारुमस्तकः ॥
पूज्यमानः शिवेनास्ते शुण्डादण्डः सुशोभनः ।अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम् ॥
शिव उवाच ।आश्चर्य्यपूर्णहृदयो गुरुरूचे पुनः शिशुम् ॥
गुरुरुवाच ।भगवत ! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः ।मया यदुदितं तस्मै त्वया ज्ञातं यतः प्रभो ! ॥
अहमीशस्वरूपं ते परिच्छेत्तुं न च क्षमः ।श्रुत्वैव ब्रह्मणः पुत्त्रो नारदस्तत्र चाब्रवीत् ॥
नारद उवाच ।एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो ! ।अथवा बालरूपस्य छिन्नं ते केन तच्छिरः ॥
एतन्मे संशयं छिन्धि कृपया परमेश्वर ! ।शिव उवाच ।निपीय नारदीं वाणीमुवाच शिशुरुच्चकैः ॥
शिशुरुवाच ।सिन्दूरः कोऽपि दैत्यो मे वायुरूपधरोऽच्छिनत् ।अष्टमे मासि सम्पूर्णे प्रविश्योमोदरं शिरः ॥
तमिदानीं हनिष्येऽहं गजास्यं साम्प्रतं द्बिज ! ।शिव उवाच ।श्रुत्वैव नारदः प्राह शिशुरूपिणमीश्वरम् ॥
नारद उवाच ।अकिञ्चिज्ज्ञा वयं देव ! योजनेऽस्य मुखस्य ते ।त्वमेव च स्वभावेन मखमेतन्नियोजय ॥
शिव उवाच ।वदतीत्थं मुनिर्यावत् तावत् स ददृशेऽखिलैः ।सर्व्वावयवसम्पूर्णो गजानन उमासुतः ॥
किरीटकुण्डलधरो युगबाहुः सुलोचनः ।वामदक्षिणभागे च सिद्धिवृद्धिविराजितः ॥
दृष्ट्वा विनायकं स्कन्द ! तथाभूतं निजेच्छया ।हर्षेणोत्फुल्लनयना देवाः सर्व्वे तदाब्रुवन् ॥
गजानन इति ख्यातो भविताऽयं जगत्त्रये ।एवं भाद्रचतुर्थ्यां स अवतीर्णो गजाननः ॥
”)
वाचस्पत्यम्
Sanskritगजानन गजस्याननमाननं यस्य । १ गणेशे अमरः ।इभाननशब्दे ९८१ पृ० दृश्यम् । स्कन्दपु० गणेशख० ११ अ० तुअन्यथा तस्य गजाननता वर्णिता तत्र गणेशस्य मस्तक-शून्यतयोत्पत्तौ पुरा शिवच्छिन्नेन कैलासे स्थापितेन गजा-सुरमस्तकेन मुखयोजनं तेन कृतमित्युक्तं यथा “गुरुरुवाचअबतारो यदि धृतः साधुत्राणाय भो विभो! । प्रकाश-याशु वदनं सर्वेषां शोकनाशनम् । नयस्व सर्वदेवानामानन्दं हृदयं प्रभो! । शिव उवाच । प्रत्युवाच गुरुंपुत्रः पार्वत्या हीनमस्तकः । शिशुरुवाच । महेशाख्येनराज्ञा ते प्रणतौ चरणौ यदा । तदाशीर्या त्वया दत्तातस्मै राज्ञे गुरो! मुदा । गजयोनौ जनिर्मुक्तिः शिव-हस्तादुदीरिता । तत्सर्वमभवत् तस्य विद्यते चारुम-स्तकः । पूज्यमानं शिवेनास्ते शुण्डादण्डः शुशोभनः ।अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम् । शिवौवाचआश्चर्यपूर्णहृदयो गुरुरूचे पुनः शिशुम् । गुरुरुवाच ।भगवन्! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः । मया य-दुदितं तस्मै त्वया ज्ञातं यतः प्रभो! । अहमीशस्वरू-पन्ते परिच्छेत्तुं न च क्षमः । श्रुत्वैवं ब्रह्मणः पुत्रोनारदस्तव्र चाव्रवीत् । नारद उवाच ।“एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो! । अथवाबालरूपम्य छिन्नन्ते केन तच्छिरः । एतन्मे संशयं छिन्धिकृषया परमेश्वर! । शिव उवाच । निपीय नारदींवाणीमुवाच शिशुरुच्चकैः । शिशुरुवाच । सिन्दूरः कोऽपिदैत्यो मे वायुरूपधरोऽच्छिनत् । अष्टमे मासि सम्पूर्णेप्रविश्योमोदरं शिरः । तमिदानीं हनिष्येऽहं गजास्यंसाम्प्रतं द्विज! । शिवौवाच । श्रुत्वैवं नारदः प्राहशिशुरूपिणमोश्वरम् । नारदौवाच । अकिञ्चिज्ज्ञा वयंदेव! योजनेऽस्य मुखस्य ते । त्वमेव च स्वभावेन मुख-मेतन्नियोजय । शिवौवाच । वदतीत्थं मुनि र्यावत्तावत्स ददृशेऽखिलैः । सर्वावयवसम्पूर्णो गजाननौमासुतः ।कीरीटकुण्डलधरो युगवाहुः सुलोचनः । वामदक्षिण-भागे च सिद्धिवृद्धिविराजितः । दृष्ट्वा विनायकं स्कन्द!तथाभूतं निजेच्छया । हर्षेणोत्फुल्लनयना देवाः सर्वेतदाऽब्रुवन् । गजानन इति ख्यातो भवितायं जगत्त्रये”“एवं भाद्रचतुर्थ्यां स अवतीर्ण्णो गजाननः” इति चतत्राध्याये । ६ त० । हस्तिमुखे ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
