| YouTube Channel

गजदानं (gajadAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
गजदानं,
क्ली,
(गजस्य दानं मदः गजकटा-दिभ्यः क्षरितो मद इत्यर्थः ।) हस्तिमदः इतिराजनिर्घण्टः
(तस्य प्रस्रवणस्थानानि यथा, --“करात् कटाभ्यां मेढ्राच्च नेत्राभ्याञ्च मदच्युतिः ।”इति पालकाव्यम्
तथा रघुः ४५ ।“स सैन्यपरिभोगेण गजदानसुगन्धिना ।कावेरीं सरितां पत्यः शङ्कनीयामिवाऽकरोत्
”गजस्य हस्तिनो दानं प्रदानम् गजसम्पदानम् ।इति व्युत्पत्तिलभ्योऽर्थः
)