| YouTube Channel

गजकूर्म्माशी (gajakUrmmAzI)

 
शब्दकल्पद्रुमः
Sanskrit
गजकूर्म्माशी, [न्]
पुं,
(गजश्च कूर्म्मश्च तौ गज-कूर्म्मौ तौ अश्नातीति अश भोजने +णिनि ।) गरुडः इति शब्दरत्नावली
(पुरा हि कदाचित् विभावसुसुप्रतीकनामानौद्वौ भ्रातरौ ब्राह्मणकुमारौ पितृधनार्थमन्योन्य-मभिशप्तौ गजत्वं कूर्म्मत्वं गतावपि पूर्व्ववैर-मनुस्मरन्तो सुचिरं युध्यमानौ प्रजापतिकश्यपा-दिष्टेन पतगेश्वरेण गरुडेन भक्षितौ एतद्वि-वरणन्तु महाभारतीयादिपर्व्वणि सौपर्णे २९अध्याये सविस्तरं दर्शनीयम्
)