| YouTube Channel

गङ्गाधरः (gaGgAdharaH)

 
Apte Hindi
Hindi
गङ्गाधरः
पुं*
गङ्गा-धरः -
शिव का विशेषण
गङ्गाधरः
पुं*
गङ्गा-धरः -
समुद्र
Wordnet
Sanskrit
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Synonyms:
गङ्गाधरः
noun
एकः पुरुषः
"गङ्गाधरस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
गङ्गाधरः,
पुं,
(धरतीति धरः धृ + अच् गङ्गायाधरः स्वशिरोजटाभिरिति शेषः ।) शिवः इत्य-मरः ३६
(अस्य गङ्गाधारणविवरणंयथा, रामायणे ४३ १-११ ।“देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् ।कृत्वा वसुमतीं राम ! वत्सरं समुपासत
अथ संवत्सरे पूर्णे सर्व्वलोकनमस्कृतः ।उमापतिः पशुपती राजानमिदमब्रवीत्
प्रीतस्तेऽहं नरश्रेष्ठ ! करिष्यामि तव प्रियम् ।शिरसा धारयिष्यामि शैलराजसुतामहम्
ततो हैमवती ज्येष्ठा सर्व्वलोकनमस्कता ।तदा सातिमहद्रूपं कृत्वा वेगञ्च दुःसहम्
आकाशादपतद्राम ! शिवे शिवशिरस्युत ।अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा
विशाम्यहं हि पातालं स्रोतस्रा गृह्य शङ्करम् ।तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा ।सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्द्धनि
हिमवत्प्रतिमे राम ! जटामण्डलगह्वरे ।सा कथञ्चित् महीं गन्तुं नाशक्नोत् यत्नमास्थिता
नैव सा निर्गमं लोभे जटामण्डलमन्ततः ।तत्रैवावभ्रमद्देवी संवत्सरगणान् बहून्
तामपश्यत् पुनस्तत्र तपः परममास्थितः ।स तेन तोषितश्चासीदत्यन्तं रघुनन्दन !
विससर्ज ततो गङ्गां हरो विन्दुसरः प्रति
”)समुद्रः इति त्रिकाण्डशेषः
*
(जीर्णाति-साररोगनाशकचूर्णौषधविशेषः यथा, --“धातक्यामलकीपयोधरवृकीकट्वङ्गयष्ठीमधु-श्रीजम्ब्वाम्रफलास्थिनागरविषाह्रीवेरलोध्रेन्द्रजैः ।तुल्यांशं विहितं सतण्डुलजलं गङ्गाधराख्यं मह-च्चूर्णं तूर्णमपाकरोति सकलं जीर्णातिसारं परम्
”इति शब्दार्थचिन्तामणिः
)