| YouTube Channel

गङ्गाज (gaGgAja)

 
शब्दसागरः
English
गङ्गाज
m.
(-जः)
1. A name of BHISHMA.
2. A name of the deity KARTI-
KEYA.
E.
गङ्गा the river goddess, and born
the son of GANGA.
Yates
English
गङ्गा-ज (जः) 1.
m.
A name of
Bhīsh-
ma and of
Kartikeya.
Wilson
English
गङ्गाज
m.
(-जः)
1 A name of BHĪṢMA.
2 A name of the deity KĀRTTIKEYA.
E.
गङ्गा the river goddess, and born
the son of GAṄGĀ.
Monier Williams Cologne
English
गङ्गा—ज
m.
‘the son of Gaṅgā’,
N.
of the deity Kārttikeya,
MBh.
of Bhīṣma,
L.
Apte Hindi
Hindi
गङ्गाजः
पुं*
गङ्गा-जः -
भीष्म
गङ्गाजः
पुं*
गङ्गा-जः -
कार्तिकेय
Shabdartha Kaustubha
Kannada
गङ्गाज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಭೀಷ್ಮಾಚಾರ್ಯ
गङ्गाज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾರ್ತಿಕೇಯ
निष्पत्तिः - > जनी (प्रादुर्भावे) - "डः" (३--२-९७)
व्युत्पत्तिः - > गङ्गाया जायते
L R Vaidya
English
gaMgA-ja {% m. %} 1. a name of Bhīshma
2. of Kārtikeya.
शब्दकल्पद्रुमः
Sanskrit
गङ्गाजः,
पुं,
(गङ्गायाः गङ्गागर्भात् जायते इति ।जन् + डः ।) भीष्मः इति शब्दरत्नावली
कार्त्तिकेयः इति भारतम्
वाचस्पत्यम्
Sanskrit
गङ्गाज
पु०
गङ्गातो जायते जन--ड भीष्मे कार्त्तिकेयेच तत्र भीष्मस्य गङ्गातो जन्मकथा ।“स राजा शान्तनुर्धीमान् देवराजसमद्युतिः बभूवमृगयाशीलः सततं वनगोचरः मृगान महिषां-श्चैव विनिघ्नन्राजसत्तमः गङ्गामनुचचारैकः सिद्ध-चारणसेविताम् कदाचिन्महाराज! ददर्श परमांस्त्रियम् जाज्वल्यमानां वपुषा साक्षाच्छियमिवा-पराम् सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् ।सूक्ष्माम्बरधरामेकां पद्मोदरसभप्रभाम् तां दृष्ट्वाहृष्टरोमाऽभूद्विस्मितो रूपसम्पदा पिबन्निव नेत्राभ्यांनातृप्यत नराधिपः सा दृष्ट्वैव राजानं विचरन्तंमहाद्युतिम् स्नेहादागतसौहार्द्दा नातृप्यत विला-सिनी तामुवाच ततो राजा सान्त्वयन् श्लक्ष्णयागिरा देवी वा दानवी वा त्वं गन्धर्वी वाथवाप्सराः यक्षी वा पन्नगी वापि मानुषी वासुमध्यमे! याचे त्वां सुरगर्भाभे! भार्य्या मे भवशोभने ।” भा० आ० ९७ अ० ।“एतत् श्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु ।वसूनां समयं स्मृत्वाऽथाभ्यागच्छदनिन्दिता उवाचचैवं राज्ञः सा ह्लादयन्ती मनो गिरा भविष्यामिमहीपाल! महिषी ते वशानुगा यत्तु कुर्य्यामहंराजन्! शुभं वा यदि वाऽशुभम् तद्वारयितव्यास्मिन वक्तव्या तथाऽप्रियम् एवं हि वर्त्तमानेऽहं त्वयिवत्स्यामि पार्थिव! वारिता विप्रियञ्चोक्ता त्यजेयंत्वामसंशयम् तथेति राज्ञा सा तूक्ता तदा भरत-सत्तम! प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ।आसाद्य शान्तनुस्ताञ्च बुभुजे कामतो वशी प्रष्ट-व्येति मन्वानो तां किञ्चिदुक्तवान् तस्याःशीलवृत्तेन रूपौदार्य्यगुणेन उपचारेण रहस्तुतोष जगतीपतिः दिव्यरूपा हि सा देवी गङ्गात्रिपथगामिनी मानुषं विग्रहं कृत्वा श्रीमन्तं वर-वर्णिनी भाग्योपनतकामस्य भार्य्योवोपस्थिताऽभवत् ।शान्तनोराजसिंहस्य देवराजसमद्युतेः सम्भोग-म्नेहचातुर्य्यैर्हावलास्यमनोहरैः राजानं रमयामासतथा रेमे तयैव सः राजा रतिसक्तत्वादुत्तमस्त्री-गुणैर्हृतः संवत्सरानृतून् मासान् बुबुधे बहून्गतान् रममाणस्तया सार्द्धं यथाकामं नरेश्वरःअष्टावजनयत् पुत्रांस्तस्याममरसन्निभान् जातं जातंच सा पुत्रं क्षिपत्यम्भसि भारत! प्रीणामि त्वामि-त्युक्त्वा गङ्गास्रोतस्यमज्जयत् तस्य तन्न प्रियं राज्ञःशान्तनोरभवत्तदा तां किञ्चनोवाच त्यागा-द्भीतो महीपतिः अथैनामष्टमे पुत्रे जाते प्रहसती-मिव उवाच राजा दुःखार्त्तः परीप्सन् सुतमा-त्मनः मा वधीः कासि कस्यासि किञ्च हंसि सुता-निति पुत्रघ्नि! सुमहत् पापं संप्राप्तं ते विगर्हिते! ।स्त्र्युवाच पुत्रकाम! ते हन्मि पुत्रं पुत्रवतां वर! ।जीर्णोऽस्तु मम वासोऽयं यथा समयः कृतः अर्हगङ्गा जह्नुसुता महर्षिगणसेविता देवकार्य्यार्थसि-द्ध्यर्थमुषिताहं त्वया सह इमेऽष्टौ वसवो देवामहाभागा महौजसः वशिष्ठशापदोषेण मानुषत्व-मुपागताः तेषां जनयिता नान्यस्त्वदृते भुविविद्यते मद्विधा मानुषी धात्री लोके नास्तीहकाचन तेषाञ्च जननीहेतोर्मानुषत्वमुपागता जन-यित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः देवानांसमयस्त्वेष वसूनां संश्रितो मया जातं जातंमोक्षयिष्ये जन्मतो नानुषादिति तत्ते शापाष्ठि-निर्मुक्ता आपवस्य महात्मनः स्वस्ति तेऽस्तु गमि-ष्यामि पुत्रं पाहि महाव्रतम् एष पर्य्यायवासोमे वसूनां सन्निधौ कृतः मत्प्रसूतं विजानीहिगङ्गादत्तमिमं सुतम्” ९८ अ० ।“स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् भागी-रथीमल्पजलां शान्तनुर्दृष्टवान्नृपः तां दृष्ट्वा चिन्तया-भास शान्तनुः पुरुषर्षभः स्यन्दते किं त्वियं नाद्यसरिच्छ्रेष्ठा यथा पुरा ततो निमित्तमन्विच्छन्ददर्शस महामनाः कुमारं रूपसम्पन्नं वृहन्तञ्चारु-दर्शनम् दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् ।कृत्स्नां गङ्गा समावृत्य शरैस्तीक्ष्णैरवस्थितम् तांशरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके अभवद्विस्मितोराजा दृष्ट्वा कर्मातिमानुषम् जातमात्रं पुरा दृष्ट्वातं पुत्रं शान्तनुस्तदा नोपलेमे स्मृतिं धीमानभि-ज्ञातुं तमात्मजम् तु तं पितरं दृष्ट्वा मोहया-मास मायया संमोह्य तु ततः क्षिप्रं तत्रैवान्तर-घीयत तदद्भुतं ततो दृष्ट्वा तत्र राजा शान्तनुः ।शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति दर्शयामासतं गङ्गा बिभ्रती रूपमुत्तमम् गृहीत्वा दक्षिणेपाणौ तं कुमारमलङ्कृतम् अलङ्कृतामाभरणैर्विर-जोऽम्बरघारिणीम् दृष्टपूर्वामपि तां नाभ्यजानात्स शान्तनुः गङ्गोवाच यं पुत्रमष्टमं राजंस्त्वंपुरा मय्यविन्दथाः चायं पुरुषव्याघ्र! सर्वास्त्र-विदनुत्तमः गृहाणेमं महाराज! मया संवर्द्धितंसुतम् आदाय पुरुषव्याघ्र! नयस्वैनं गृहं विभो!”भा० आ० १०० अ० “गङ्गाज लङ्केशवनारिकेतुः” भा० वि०३९ अ० गङ्गाजेत्यत्र मुद्रितपुस्तके नदीजेति पाठः ।कार्त्तियेस्य गङ्गातो जन्मकथा अग्निगर्भशब्दे ५५ पृ०उक्ता गङ्गाजातगङ्गातनयादयोऽप्युभयत्र