| YouTube Channel

खिद (khida)

 
शब्दसागरः
English
खिद r. 4th and 7th cls. (खिद्यते and खिंते) To be distrest, to suffer pain
or misery. (औ, प) औखिदप् r. 6th cl. (खिन्दति) To afflict or distress.
Wilson
English
खिद r. 4th and 7th cls. (खिद्यते and खिंते) To be distrest, to
suffer pain or misery. (औ, प) औखिदप् r. 6th cl. (खिन्दति) To
afflict or distress.
Shabdartha Kaustubha
Kannada
खिद - दैन्ये (दिवा० आत्म० अक० अनि०) खिद्यते
पदविभागः - > धातुः
कन्नडार्थः - > ಕಷ್ಟಪಡು /ಆಯಾಸ ಹೊಂದು /ಬಳಲು
प्रयोगाः - > "स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः"
उल्लेखाः - > शाकु० ५-७
खिद - परितापे (तुदा० पर० अक० अनि०) खिन्दति
पदविभागः - > धातुः
कन्नडार्थः - > ದುಃಖಿಸು /ವ್ಯಸನಪಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
खिद्
मूलधातुः:
खिद
धात्वर्थः:
दैन्ये
गणः:
रुधादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
खिद्यते
धातुः:
खिद्
मूलधातुः:
खिद
धात्वर्थः:
परिघाते
गणः:
रुधादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
खिन्दति
धातुः:
खिद्
मूलधातुः:
खिद
धात्वर्थः:
दैन्ये
गणः:
रुधादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
खिन्ते
धातुप्रदीपः
Sanskrit
खिदँ खिद दैन्ये
- खिद्यते चिखिदे खेत्ता खित्त्वा खिन्नः खेदः खिन्ते इति रौधादिकस्य 64
खिदँ खिद परीघाते
- खिन्दति चिखेद खेत्ता खेत्स्यति अखैत्सीत् अखित्ताम् चिखित्सति चेखिद्यते खित्त्वा खिन्नः खिद्यते खिन्ते इति गणान्तरपाठात् 162
खिदँ खिद दैन्ये
- खिन्ते खिन्दाते खेत्ता अखित्त खिन्दानः खिद्यत इति दैवादिकस्य खिन्दतीति खिद परिघात इत्यस्य 12
शब्दकल्पद्रुमः
Sanskrit
खिद, परिघाते इति कविकल्पद्रुमः
(तुदां-परं-सकं-अनिट् ।) प, खिन्दति दुष्टंराजा औ, खेत्त्वा इति दुर्गादासः
खिद, दैन्यके इति कविकल्पद्रुमः
(दिवां-रुधां च-आत्मं-अकं-अनिट् ।) दैन्यक-मुपतप्तीभावः ध, खिन्ते तेष्वेव ये द्रव्यम्दीयमानं गृह्णते इति हलायुधः
य, स्वसुखनिरभिलाषः खिद्यते लोकहेतोरितिशाकुन्तले औ, खेत्त्वा इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
खिद परितापे तुदा०
पर०
अक० अनिट् मुचादि खिन्दतिखिन्दतः अखैत्सीत् चिखेद खिन्नः
खिद दैन्ये दिवा० रुधा० आत्म० अक० भीषायां
सक०
अनिट् खिद्यते खिन्ते अखित्त चिखेद खिन्नः ।“खसुखनिरभिलाषः खिद्यते लोकहेतोः” शकु० ।“हरिरित्यखिद्यत नितम्बिनीजनः” माघः “खिन्तेतेष्वेव ये द्रव्यं दीयमानं गृह्णति” कविरहस्यम् ।“अखिन्दानस्य तेजसा” भट्टिः “प्रहस्तश्चिखिदे च”भट्टिः “खिदञ्ध्यौ दैन्यके” इत्येव वोपदेवे पाठः अतएव“रक्तं न्यष्ठीवदक्लाम्यदखिद्यद्वाजिकुञ्जरम्” भट्टिःआ + प्रकर्षेण खेदने “आखेदते प्रखिदते नमः” यजु०१६ ४६ “आखेदते प्रहर्षेण खेदयति पापिनः” वेददी० ।वेदे गणव्यत्यासः अन्तर्भूतण्यर्थता ।उद् + उत्पाटने “पजापतिरात्मनोवपामुदखिदत्” श्रुतिः ।“अथ वपामुत्खिदन्ति” शतब्रा० “इमांवपामुत्खिदन्ति मध्यतः” “वपामुत्खिदती-त्युत्खिद्य” ११ सर्व्वत्र गणव्यत्ययः ।परि + समन्तात् खेदे “कान्तावियोगपरिखेदितचित्तवृत्तिः ।“परिखेदितविन्ध्यवीरुधः” भट्टिः “लोकसंस्थानविज्ञानआत्मनः परिखिदातः” भाग० २८ ।सम् + सम्यक्तापे अक० उत्पाटने
सक०
“यथा सुहयः पशट्टीशङ्कून् संखिदेत् एवमितरान् समखिदत्” छा० उ०
क्षीरतरङ्गिणी
Sanskrit
खिदँ खिद परितापे
- खिन्दति भिदादौ (गण0 33104) खिदा रुधादौ खिद दैन्ये (716)-खिन्ते खिद्यत इति कर्मकर्तरि दिवादौ (461 दुर्गमते) वा ऽभ्यूह्यः 154
खिदँ खिद दैन्ये
- अनुदात्तावनुदात्तेतौ- खिन्त्ते दिवादौ (461 दुर्गमते) खिद्यते तुदादौ (6141) खिन्दति
धातुवृत्तिः
Sanskrit
खिदँ खिद (अर्थः) दैन्ये
( खिद्यते चिखिदे खेता खेत्स्यते खिद्यताम् अखिद्यत खिद्येत, खित्सीष्ट अखित्त ) "लिङ्सिचौ'' इति लिङ्सिचोः कित्त्वान्न गुणः ( चिखित्सते ) "हलन्ताच्च'' इति सनः कित्वम् ( चेखिद्यते खेदयति अचीखिसदत् खित्त्वा खिन्नः खिदिरम्, ) "इषिमदि'' इत्यादिना किरच् ( 1 ) ( 1 ) खिद्रम्, इषिमदीत्यादिना रक् इति पुस्तकान्तरे पाठ उपलभ्यते, वृत्त्यादिबिरोधादुपेक्ष्यः वृत्त्यादिषु इषिरोऽपिनरित्यादिकमुदाहियते खिद्रमित्यादिक्न्तु "स्फायित_चि' इत्यादिसूत्रेण रका सम्पादितम् खिद्यते इति कर्मकर्तरीति वामन इति स्वामिसुधाकरौ तस्यान्तर्भावितण्यर्थत्वेन रौधादिकस्य सकर्मकस्य खिन्दतीती परिघातार्थस्य स्वतः सकर्मकस्य वा कर्मकर्तरीदं रूपमित्यभिप्रायः एवं वदतोऽस्य श्यनि पाठो नाभिमतःप्रतीयते धातुपाठकोशेषु व्याख्यानेषु अविगीतः पठ्यते अयं रुधादावपि परिघाते तुदादिः 62
खिदँ खिद (अर्थः) परिघाते
अनुदात्त उदात्तेत् ( खिन्दति चिखेद चिखिदतुः चिखेदिथ खेत्ता खेत्स्यति खिन्दतु अखिन्दत् खिन्देत् खिद्यात् ) लुङि ( अखैत्सीत् अखैत्ताम् ) "वदव्रज'' इति वृद्धिः झलि सिचो लोपः, ( चिखित्सति चेखिद्यते चेखेत्तिचेखिदीति खेदयति अचीखिदत् खित्त्वा खिन्नः खिदिरम् ) "इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुधिवन्धिशुषिभ्यः किरच्'' इति किरच् खित इति दैन्ये दिवादिपाठादयं कर्मकर्तरीति वदन् वामनो दिवादावस्य पाठं नेच्छति खिद दैन्य इति रुधादौ गतः 152
खिदँ खिद (अर्थः) दैन्ये
(खिन्ते खिन्दान्ते खिन्त्से खिन्दे खिन्ताम् खिन्दाताम् खिन्त्स्व खिनदै अखिन्त अखिन्दाताम् अखिन्दि खिन्दीत चिखिदे खेत्ता ) इत्यादिखिद्यतिवत् खिन्दतीति शे गतम् 12
कृदन्तरूपमाला
Sanskrit
1 {@“खिद दैन्ये”@} 2 ‘दैन्येऽर्थे खिद्यते खिन्ते, परिघाते3 तु खिन्दति।’ 4 इति देवः।
खेदकः-दिका, खेदकः-दिका, 5 चिखित्सकः-त्सिका, 6 चेखिदकः-दिका
खेत्ता-त्त्री, खेदयिता-त्री, चिखित्सिता-त्री, चेखिदिता-त्री
खेदयन्-न्ती, खेदयिष्यन्-न्ती-ती
-- -- 7 खिद्यमानः, खेदयमानः, चिखित्समानः, चेखिद्यमानः
खेत्स्यमानः, खेदयिष्यमाणः, चिखित्सिष्यमाणः, चेखिदिष्यमाणः
खित्-खिद्-खिदौ-खिदः
-- -- 8 खिन्नम्-खिन्नः-खिन्नवान्, खेदितः, चिखित्सितः, चेखिदितः-तवान्
9 खिदः, खेदनः 10, खेदः, चिखित्सुः, चेखिदः
खेत्तव्यम्, खेदयितव्यम्, चिखित्सितव्यम्, चेखिदितव्यम्
खेदनीयम्, खेदनीयम्, चिखित्सनीयम्, चेखिदनीयम्
खेद्यम्, खेद्यम्, चिखित्स्यम्, चेखिद्यम्
ईषत्खेदः-दुष्खेदः-सुखेदः
-- -- 11 खिद्यमानः, खेद्यमानः, चिखित्स्यमानः, चेखिद्यमानः
12 खेदः, खेदः, चिखित्सः, चेखिदः
खेत्तुम्, खेदयितुम्, चिखित्सितुम्, चेखिदितुम्
13 खिदा, खेदना, चिखित्सा, चेखिदा
खेदनम्, खेदनम्, चिखित्सनम्, चेखिदनम्
खित्त्वा, खेदयित्वा, चिखित्सित्वा, चेखिदित्वा
सङ्खिद्य, सङ्खेद्य, प्रचिखित्स्य, प्रचेखिद्य
खेदम् २, खित्त्वा २, खेदम् २, खेदयित्वा २, चिखित्सम् २, चिखित्सित्वा २, चेखिदम्
चेखिदित्वा २।
प्रासङ्गिक्यः
01
=>
(३४९)
02
=>
(४-दिवादिः-११७०। अक। अनि। आत्म।)
03
=>
[तापे]
04
=>
(श्लो। ११२)
05
=>
[[१। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। तेनाङ्गस्य गुणो न।]]
06
=>
[[२। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणः।]]
07
=>
[[३। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्विकरणप्रत्ययः।]]
08
=>
[[४। ‘रदाभ्यां निष्ठातो नः पूर्वस्य दः’ (८-२-४२) इति धातुदकारनिष्ठातकारयोः मत्वम्।]]
09
=>
[[५। ‘इगुषधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः प्रत्ययः।]]
10
=>
[[६। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
11
=>
[पृष्ठम्०३५४+ २४]
12
=>
[[आ। ‘तन्मृष्यमाणास्त्वथ शुच्यदङ्गकाः भृत्याः सुनद्धं बहुरक्तमंशुकम्। विसृज्य शप्यन्त इमं प्रदुद्रुवुः कृष्णः प्रपेदे वसनान्यखेदवान्।।’ धा। का। २-६१।]]
13
=>
[[१। भिदादिपाठात् (३-३-१०४) खिदा इत्यत्राङ्।]]
1 {@“खिद परिघाते”@} 2 ‘परितापे’ इति क्षीरस्वामी।
मुचादिः।
‘दैन्येऽर्थे खिद्यते खिन्ते, परितापे 3 तु खिन्दति।’ 4 इति देवः।
5 खिन्दन्-न्ती-ती, 6 खेत्स्यन्-न्ती-ती, 7 परिखेदितम्, इत्यादीनि रूपाण्यस्य घातोः विशेषः।
अन्यानि सर्वाण्यपि रूपाणि दैवादिकदैन्यार्थक 8 खिद्यतिवत् ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(३५०)
02
=>
(६-तुदादिः-१४३६। सक। अनि। पर।)
03
=>
(घाते)
04
=>
(श्लो-११२)
05
=>
[[२। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः विकरणप्रत्ययः। ‘शे मुचादीनाम्’ (७-१-५९) इति नुम्। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुमो वैकल्पिकत्वम्।]]
06
=>
[[B। ‘मित्रैः संमिलमान एत्य नगरोद्यानं विमुञ्चन् भियं गोपानां भयलोपिवाग्भिरबलाविन्नानुलेपं वहन्। भुक्त्वा गोरससिक्तमन्नमजितः कंसस्य कृन्तन् मुदं तं खेत्स्यन् पिशिताशदारुणमसौ मोदेन निन्ये निशाम्।।’ धा। का। २-८५।]]
07
=>
[[C। ‘परिखेदितविन्ध्यवीरुधः परिपीतामलनिर्झराम्भसः। दुधुवुर्मधुकाननं ततः कपिनागा मुदिताङ्गदाज्ञया।।’ भ। का। १०। २८।]]
08
=>
(३४९)
1 {@“खिद दैन्ये”@} 2 ‘दैन्येऽर्थे खिद्यते खिन्ते, परितापे 3 तु खिन्दति।’ 4 इति देवः।
5 6 खिन्दानः, 7 खेत्स्यमानः, खेदः 8
अिति रूपाणीति विशेषः।
अन्यानि सर्वाणि रूपाणि दैन्यार्थकदैवादिक- खिद्यतिवत् 9 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(३५१)
02
=>
(७-रुधादिः-१४४९। अक। अनि। आत्म।)
03
=>
(घाते)
04
=>
(श्लो। ११२)
05
=>
[पृष्ठम्०३५५+ २८]
06
=>
[[१। शानचि, ‘रुधादिभ्यः श्नम्’ (३-१-७८) इति श्नम्। ‘श्नसोरल्लोपः’ (६-४-१११) इति लोपः।]]
07
=>
[[आ।‘यमं युनज्मि कालेन समिन्धानोऽस्त्रकौशलम्। शुष्कपेषं पिनष्म्युर्वीम् अखिन्दानः स्वतेजसा।।’ भ। का। ६। ३७।]]
08
=>
[[B। ‘सञ्छृण्णगात्रमथ शात्रवतर्दिनस्ते चाणूरमुष्टिकमुखा वसनान्यकृन्तन्। इन्धानखेदमुदविन्त विशिष्टलोकः पेक्ष्यत्सु माधवमभङ्गभुजेषु तेषु।।’ धा। का। ३। २।]]
09
=>
(३४९)