| YouTube Channel

खापयित्वा (khApayitvA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“खै खेदने”@} 2 3 ‘खदने’ इति क्षीरस्वामि-माधवादयः।
भक्षणे च, इति च।
खदनम्- स्थैर्यं हिंसा इति माधवः।
‘खै खादने’ इति काशकृत्स्नीयधातुपाठे पठ्यते, ‘भक्षणार्थत्वं च’ इति तट्टीकायाम्’-- इति क्षीरतरङ्गिणीटीका।
‘खनने’ इति श्रीशङ्कराचार्याः इति धातुकाव्यव्याख्यायाम् 4।]] 5 खायकः-यिका, 6 खापकः-पिका, चिखासकः-सिका, 7 चाखायकः-यिका
खाता-त्री, खापयिता-त्री, चिखासिता-त्री, चाखायिता-त्री
8 खायन्-न्ती, खापयन्-न्ती, चिखासन्-न्ती
-- खास्यन्-न्ती, खापयिष्यन्-न्ती-ती, चिखासिष्यन्-न्ती-ती
-- खापयमानः, खापयिष्यमाणः, चाखायमानः, चाखायिष्यमाणः
प्रखाः-प्रखौ-प्रखः
-- -- -- खातम्-तः, 9 खापितः, चिखासितः, चाखायितः-तवान्
10 आखाः, 11 शत्त्रुखः, 12 खायः, खापः, चिखासुः, 13 चाखाः
खातव्यम्, खापयितव्यम्, चिखासितव्यम्, चाखायितव्यम्
खानीयम्, खापनीयम्, चिखासनीयम्, चाखायनीयम्
14 खेयम्, खाप्यम्, चिखास्यम्, चाखाय्यम्
15 16 ईषत्खानः-दुष्खानः-सुखानः
-- -- खायमानः, खाप्यमानः, चिखास्यमानः, चाखाय्यमानः
खायः, खापः, चिखासः, चाखायः
खातुम्, खापयितुम्, चिखासितुम्, चाखायितुम्
खातिः, 17 आखा, खापना, चिखासा, चाखाया
खानम्, खापनम्, चिखासनम्, चाखायनम्
खात्वा, खापयित्वा, चिखासित्वा, चाखायित्वा
प्रखाय, प्रखाप्य, प्रचिखास्य, प्रचाखाय्य
खायम् २, खात्वा २, खापम् २, खापयित्वा २, चिखासम् २, चिखासित्वा २, चाखायम्
चाखायित्वा २।
प्रासङ्गिक्यः
01
=>
(३६१)
02
=>
(१-भ्वादिः-९१३। अक। अनि। पर।)
03
=>
[[[अ]
04
=>
(२-३१)
05
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इति आत्वम्। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि, णमुल्यपि ज्ञेयम्।]]
06
=>
[[२। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इति पुक्। एवं सर्वत्र ण्यन्ते बोध्यम्।]]
07
=>
[[३। ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घः।]]
08
=>
[[४। शतरि, ‘एचोऽयवायावः’ (६-१-७८) इत्यायादेशः।]]
09
=>
[[आ। ‘रायद्धयस्त्यानरुचौ रथेऽपि तं भक्तितिष्ट्यापयिषुं दृष्ट्वा। खाताशयोऽक्षाममुदा पुनश्च मग्नोऽन्यथाऽपश्यदजानमीशम्।।’ धा। का। २-३१।]]
10
=>
[[५। ‘आतश्चोपसर्गे’, (३-१-१३६) इति कर्तरि कः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
11
=>
[[६। ‘आतोऽनुपसर्गे कः, (३-२-३) इति कप्रत्ययः।]]
12
=>
[[७। ‘श्याद्व्यधास्रु--’ (३-१-१४१) इति कर्तरि णो वा।]]
13
=>
[[८। ‘यङोऽचि च’ (२-४-७४) इति यङो लुक् भवति।]]
14
=>
[[९। ‘अचो यत्’ (३-१-९७) इति यत्प्रत्ययः। ‘ईद्यति’ (६-४-६५) इति अङ्गस्य ईकारो भवति। गुणः।]]
15
=>
[पृष्ठम्०३५९+ २५]
16
=>
[[१। ‘आतो युच्’ (३-३-१२८) इति खलपवादो युच् भवति।]]
17
=>
[[२। ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्प्रत्ययो भवति।]]