| YouTube Channel

खादिरसारः (khAdirasAraH)

 
शब्दकल्पद्रुमः
Sanskrit
खादिरसारः,
पुं,
(खदिर + स्वार्थे अण् ततः षष्ठी-तत्पुरुषः ।) खदिरवृक्षनिर्यासः खएर इतिभाषा
तत्पर्य्यायः खादिरः अद्भुतसारः ३सत्सारः रङ्गदः रङ्गः अस्य गुणाः ।कटुत्वम् तिक्तत्वम् उष्णत्वम् कफवातव्रण-कण्ठामयनाशित्वम् रुचिकारित्वम् दीपनत्वञ्च ।इति राजनिर्घण्टः
खदिरसारोऽपि पाठः
(यथा, --“विना खदिरसारेण हारेण हरिणीदृशाम् ।नाधरे आयते रागो नानुरागः पयोधरे
”इति उद्भटः
)