| YouTube Channel

खातव्यवहारः (khAtavyavahAraH)

 
शब्दकल्पद्रुमः
Sanskrit
खातव्यवहारः,
पुं,
(खातस्य पुष्करिण्यादेर्व्यवहारःपरिमाणम् ।) पुष्करिण्यादिपरिमाणम् पुकुरेकालीति भाषा
“अथ खातव्यवहारे करणसूत्रं सार्द्धार्य्या ।गणयित्वा विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या ।स्थानकमित्या सममितिरेवं दैर्घ्ये बेधे ।क्षेत्रफलं बेघगुणं खाते घनहस्तसंख्या स्यात्
उदाहरणम् ।भुजवक्रतया दैर्घ्यं दशेशार्क्ककरैर्म्मितम् ।त्रिषु स्थानेषु षट्पञ्चसप्तहस्ता विस्तृतिः
यस्य खातस्य बेधोऽपि द्विचतुस्त्रिकरः सखे ! ।तत्र खाते कियन्तः स्युर्घनहस्ताः प्रचक्ष्व मे
”अत्र सममितिकरणेन विस्तारे हस्ताः ।दैर्घ्ये ११ बेधे तत्क्षेत्रदर्शनं यथा, --यथोक्तकरणेन लब्धा घनहस्तसंख्या
१९८
खातान्तरे करणसूत्रं सार्द्धवृत्तम् ।मुखजतलजतद्युतिजक्षेत्रफलैक्यं हृतं षड्भिः ।क्षेत्रफलं सममेतत् बेधहतं फलं घनफलं स्पष्टम् ।समखातफलत्र्यंशः सूचीखाते फलं भवति
उदाहरणम् ।मुखे दशद्वादशहस्ततुल्यंविस्तारदैर्घ्यन्तु तले तदर्द्धम् ।यस्याः सखे सप्तकरश्च बेधःका खातसंख्या वद तत्र वाप्याम्
मुखजं क्षेत्रफलम् १२० तलजम् ३० ।तद्युतिजम् २७० एषामैक्यम् ४२० ।षड् भिः हृतं जातं समफलम् ७० बेध-७ हतं जातं खातफलं घनहस्ताः ४९० ।द्वितीयोदाहरणम् ।खातेऽथ तिग्मकरतुल्यचतुर्भुजे चकिं स्यात् फलं नवमितः किल यत्र बेधेः ।वृत्ते तथैव दशविस्तृतिपञ्चबेधेसूचीफलं वद तयोश्च पृथक् पृथङ्मे
भुजः १२ बेधः जातं यथोक्तकरणेनखातफलं घनहस्ताः १२९६ सूचीफलम् ४३२ ।वृत्तखातदर्शनाय ।व्यासः १० वेधः अत्र सूक्ष्मपरिधिः(३९२७/१२५) सूक्ष्मक्षेत्रफलम् (३९२७/५०) बेधगुणंजातं सूक्ष्मखातफलम् (३९२७/१०) सूक्ष्मसूची-फलम् (१३०९/१०) यद्वा स्थूलखातफलम् (२७५०/७) ।सूचीफलं स्थूलम् (२७५०/२१) ।इति लीलावत्यां खातव्यवहारः समाप्तः