खाण्डवं (khANDavaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritखाण्डवं, (खाण्डव्यास्तदाख्यया प्रसिद्धायानगर्य्या जातम् । खाण्डवी + अण् । यदुक्तंकालिकापुराणे ९० अध्याये ।“पुरा तु विजयो राजा खाण्डवीं नाम तां पुरीम् ।भङ्क्त्वा वनं ततश्चक्रे तेन तत् खाण्डवं वनम् ॥
”)वनविशेषः । तद्विवरणं यथा, --“विरूपस्याभवद्गाधिर्गाधेर्म्मित्रोऽभवत् सुतः ।तेषां कल्पोऽभवद्राजा कल्पात्तु विजयोऽभवत् ।यो विजित्य क्षितिं सर्व्वां पार्थिवान् भूरितेजसा ।शक्रस्यानुमते चक्रे खाण्डवं शतयोजनम् ॥
यत् सव्यसाची ह्यदहत् पाण्डुपुत्त्रः प्रतापवान् ।आवहन् परमां प्रीतिं ज्वलनस्य महात्मनः ॥
ऋषय ऊचुः ।कथं स खाण्डवं चक्रे विजयः शतयोजनम् ।तद्वयं श्रोतुमिच्छामः कथयस्व तपोधन ! ॥
मार्कण्डेय उवाच ।सोमवंशेऽभवद्राजा महात्मा स महाबलः ॥
धीरः सुदर्शनो नाम चारुरूपः प्रतापवान् ।स वै हिमवतो नातिदूरे भङ्क्त्वा महावनम् ॥
सिंहान् व्याघ्रान् समुत्सार्य्य क्वचिच्चापि तपो-धनान् ।खाण्डवीं नाम नगरीमकरोत्तत्र शोभनाम् ॥
त्रिंशद्योजनविस्तीर्णामायतां शतयोजनम् ।उच्चप्राकारसंयुक्तां साट्टालाम्बुदतोरणाम् ॥
निम्नाभिरतिदीर्घाभिः परिखाभिः समावृताम् ।दीर्घिकाभिश्चोपवनैर्ब्बहुभिश्चाप्सरोगणैः ॥
आकीर्णाञ्च तथावासैरुत्तमैरपि मानवैः ।सोत्सवाः सततं यत्र जना देवान् दिवि स्थितान् ॥
स्पर्द्धन्ते स्म मुदा युक्ता आढ्या भोगसमन्विताः ।स वै सुदर्शनो राजा खात्वा भूमिं विदार्य्य च ॥
गङ्गां कनखलां देवीं वाहयामास खाण्डवीम् ।आप्लाव्य खाण्डवीमध्यं तेन खातैश्च वर्त्मभिः ॥
वक्रासु वक्रगा भूत्वा याति सीतां नदीं प्रति ।स जित्वा सकलान् भूपान् वित्तान्याहृत्य भूरिशः ॥
राशीचकार खाण्डव्या मध्ये रत्नैरनेकशः ।अन्येषां नगरेभ्यस्तु जनानानीयं भूपतिः ॥
खाण्डव्यां वासयामास हठादपि सुदर्शनः ।देवदानवगन्धर्व्वान् जित्वा जित्वा युधा कृती ॥
देववृक्षं देवरत्नं देवीञ्चापि तथौषधीम् ।खाण्डव्यां रोपयामास सहामात्यः सुदर्शनः ॥
असहिष्णुस्ततोजिष्णुर्भूपतिन्तं सुदर्शनम् ।कृतापचारं बहुधा देवानाञ्च तथा नृणाम् ॥
वाराणसीपतिं वीरं विजयं जयशालिनम् ।सन्धाय कृत्वा साचिव्यं तत्रैवासौ न्ययोजयत् ॥
विजयो विवरं प्राप्य महाबलपराक्रमः ।सुदर्शनस्य नृपतेरवस्कन्दमथाकरोत् ॥
नासहत् सोऽप्यवस्कन्दं विजयस्य सुदर्शनः ।चतुरङ्गबलेनाशु युद्धायाभिमुखोऽभवत् ॥
विजयो रथमारुह्य नियुज्य चतुरङ्गिणीम् ।सेनां सुदर्शनं योद्धुं सम्मुखोऽभवदञ्जसा ॥
तदा महद्युद्धमासीद्विजयेन महात्मना ।सुदर्शनस्य नृपतेर्व्वृत्रवासवयोरिव ॥
ततः सुदर्शनो राजा दारितो गदयाऽपतत् ।तस्मिन्निपतिते वीरे सेनाभिस्तस्य सैनिकाः ॥
भयात् संप्राद्रवन्नस्माद्दिशः प्रदिश एव च ।नष्टेषु तस्य सैन्येषु विजयः खाण्डवीं पुरीम् ॥
प्रविश्य ददृशे तत्र राशीभूतान् गिरीनिव ।सुवर्णानाञ्च रत्नानां सञ्चयान् बहुशः पुरः ॥
दृष्ट्वा सरांसि तत्राथ प्रफुल्लकमलानि तु ।हंसकारण्डवानादनादितानि समन्ततः ॥
राशीन् सुवर्णरत्नानां पर्व्वतानिव विस्तृतान् ।पुष्पितान् देववृक्षांश्च भ्रमदभ्रमरभूषितान् ॥
प्रासादान् विपुलान् शुभ्रान् कैलाससदृशान्गजान् ।विस्फुटांश्च सुगन्धाढ्यान् प्रतिगेहे व्यवस्थितान् ॥
उत्फुल्लनयनो राजा विजयः परवीरहा ।मेनेऽमरावतीं तान्तु पुरीं क्षितिगतामिव ॥
तं वीक्षन्तं नरपतिं नगरीं तां सुरेश्वरः ।समेत्यविजयं प्राह सान्त्वयन् श्लक्ष्णयागिरा ॥
इन्द्र उवाच ।राजन्महद्वनमिदमासीद्देवगणावृतम् ।नरगन्धर्व्वयक्षाणां मुनीनाञ्च मनोहरम् ॥
सर्व्वानुत्सार्य्य देवादीन्मम चाप्यप्रिये रतः ।भङ्क्त्वा वनमिदं गुह्यं समुत्साद्य तपोधनम् ॥
खाण्डवीं नगरीं चक्रे हठाद्राजा सुदर्शनः ।तदिदं पुनरेव त्वं वनं कुरु नृपोत्तम ! ॥
तत्राहं विहरिष्यामि तक्षकेण समं रहः ।मुनीनाञ्च तपः स्थानं मण्डलं ते प्रसादतः ॥
भविष्यति च यक्षाणां किन्नराणाञ्च पार्थिव ! ॥
मार्कण्डेय उवाच ।एतत् श्रुत्वा वचस्तस्य शक्रस्य विजय स्तदा ।वनमेवाकरोत्तान्तु स्वाण्डवीं शक्रगौरवात् ॥
गच्छन्तु भो यथास्थानं प्रजाः सर्व्व येथछया ।येषां वाञ्छास्ति लोकानां मद्राज्यगमने पुनः ॥
वाराणसीं ते गच्छन्तु मयैव प्रतिपालिताम् ।ततस्तस्य वचः श्रुत्वा जनाः केचिन्निजं पदम् ॥
जम्मु र्व्वाराणसीं केचिद्बिजयेनाभिपालिताम् ।ततो धनानां तान्राशीन्रत्नानाञ्च पृथक् पृथक् ॥
अश्मनां कनकानाञ्च कूप्यानां विजयस्तदा ।धीवरैर्व्वाहयामास पुरीं वाराणसीं प्रति ॥
गन्धर्व्वाणाञ्च देवानां यदानीतं हठात् पुरा ।रत्नदार्व्वादिकं यत्तु विजयं तत् प्रसाद्य च ॥
तैस्तैर्नीतन्तु खाण्डव्याः स्वस्थानं प्रति हर्षितैः ।त्रिंशद्योजनविस्तीर्णां शतयोजनमायताम् ।तां पुरीं विजयश्चक्रे न चिरादेव वै वनम् ।तस्मिन् शक्रस्य सम्मत्या तक्षकः सहितो गणैः ॥
उवास सुचिरं तत्र ततोऽभून्निर्ज्जनं वनम् ।तत्र देवाः सगन्धर्व्वाः क्रीडन्तेऽप्सरसां गणाः ॥
आशंसयंश्च विजयं रणेषु विजयावहम् ॥
” * ॥
“अष्टाविंशतिमे प्राप्ते युगे द्वापरशेषतः ॥
वह्निर्ब्राह्मणरूपेण भिक्षां जिष्णुमयाचत ।दातुमङ्गीकृते भिक्षां तदा पाण्डुसुतेन वै ॥
वह्निः स्वरूपमास्थाय जिष्णुं वचनमब्रवीत् ।अहमग्निः पाण्डुपुत्त्र ! यज्ञभागातिभोजनात् ॥
व्याधितोऽहं ततो व्याधिं मम त्वं नाशयाधुना ।खाण्डवं नाम विपिनं सपक्षिमृगराक्षसम् ॥
यदि त्वं मां भोजयितुं शक्नोषि श्वेतवाहन ! ।तदा ममात्यसौ व्याधिरपयास्यति नोचिरात् ॥
पुरा तु विजयो राजा खाण्डवीं नाम तां पुरीम् ।भङ्क्त्रा वनं ततश्चक्रे तेन तत् खाण्डवं वनम् ॥
तदर्थं देवविहितं वनं तच्छ्वेतवाहन ! ।विरोधात्ततु शक्रस्य न स्वयं भोक्तुमुत्सहे ॥
तन्मां त्राहि महाभाग ! वने तस्मिन्नियोजय ।यथाऽहं सकलं भोक्तुं प्राप्नोमि त्वत्प्रसादतः ॥
तस्य तद्बचनं श्रुत्वा सव्यसाची महाबलः ।दाहयामास विपिनं तत् सर्व्वं प्राणिसंयुतम् ।देवकीतनयेनासौ वासुदेवेन पालितः ।खाण्डवं दाहयामास ज्वलनस्य हिते रतः ॥
”“सुप्रीतः प्रददौ तस्मादर्ज्जुनाय महात्मने ।वह्रिर्धनुश्च गाण्डीवं वारुणं देवनिर्म्मितम् ॥
अक्षयाविषुधी द्वौ च रूप्याभांश्चतुरो हयान् ।हनूमताधिष्ठितन्तु महान्तं वानरध्वजम् ॥
खड्गञ्च त्रिशिखं तीक्ष्णं दहनः सव्यसाचिने ।नीरोगश्चाभवद्वह्निस्तदा जिष्णुप्रसादतः ॥
तैर्व्वाणैस्तेन धनुषा तेन खड्गेन केतुना ।तदश्वस्यन्दनेनापि विजिग्ये फाल्गुनो रणे ॥
एवं भैरववर्गेषु संजातो विजयो नृपः ।खाण्डवं नाम विपिनं चकार सुमहाकृती ॥
”इति श्रीकालिकापुराणे ९० अध्यायः ॥
(खण्डस्य इक्षुखण्डादेर्विकार इत्यण् । गुडादि-विकारमिष्टान्नद्रव्यम् । यथा, महाभारते । १३ ।५३ । १८ ।“रसानापूपकांश्चित्रान् मोदकानथ खाण्डवान् ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
