| YouTube Channel

खलेवाली (khalevAlI)

 
Monier Williams Cologne
English
खले—वाली
f.
the post of a threshing-floor,
TāṇḍyaBr.
xvi, 13, 8
ĀśvŚr.
ix, 7, 15
KātyŚr.
Nyāyam.
x.
Shabdartha Kaustubha
Kannada
खलेवाली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಣದಲ್ಲಿ ಒಕ್ಕಣೆಗಾಗಿ ಹುಲ್ಲುಕಡ್ಡಿಗಳನ್ನು ತುಳಿಯಲು ಎತ್ತುಗಳನ್ನು ಕಟ್ಟುವ ಕಂಬ
निष्पत्तिः - > वल (सञ्चलने) - "घञ्" (३-३-१२१)
व्युत्पत्तिः - > खले वाल्यन्ते चाल्यन्ते वृषभा अत्र
विस्तारः - > "मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत्" - अभि० चि०
L R Vaidya
English
KalevAlI {% f. %} the post of a threshing floor.
Wordnet
Sanskrit
Synonyms:
मेधिः, मेथिः, खलेदारु, खलेवाली
noun
खले धान्यमर्द्दनस्थानमध्ये पशुबन्धननिमित्तं निहितं दारु।
"वृषभद्वारा अवहननं कर्तुं कर्षकः धान्यागारे मेधिं निखनति।"
अभिधानचिन्तामणिः
Sanskrit
--source--
मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत्
-wordlist-
मेधि (पुंस्त्री), मेथि (पुंस्त्री), खलेवाली (स्त्री), गोबन्धदारु (क्ली)
अभिधानरत्नमाला
Sanskrit
खलेवाली
खलेवाली, मेठि
खलेवाली भवेन्मेठिः खलधान्यं खलं स्मृतम्
verse 2.1.1.578
page 0065
शब्दकल्पद्रुमः
Sanskrit
खलेवाली,
स्त्री,
(खले वाल्यन्ते चाल्यन्तेऽत्रवृषभा इति वल् + अधिकरणे घञ् गौरा-दित्वात् ङीष् ।) खले गोबन्धनदारु इतिहेमचन्द्रः
मेइ काठ इति भाषा
(यथा, कात्यायनश्रौतसूत्रे २२ ४८ ।“खलेवालीयूपो लाङ्गलेषा
”)
वाचस्पत्यम्
Sanskrit
खलेवाली स्त्री खले वाल्यन्ते चाल्यन्ते वृषभा यत्र बल--चालनेआधारे घञ् गौरा० ङीष् शस्वमर्द्दनभूमिमध्यस्थेकाष्ठभेदे (मेइकाठ) “खलेवाली यूपो लाङ्गलेषा”कात्या० श्रौ० २२, ३, ४८, खलमध्ये निखाता मेधिभूताखलेवाली” इति सं० व्या० आश्व० श्रौ० ९, ७, १५, तुसूत्रव्याख्यायामन्या व्युत्पत्तिरुक्ता यथा खलेवालीयूपः” सू० खलेऽनडुद्गमने तद्बन्धनार्था मेधिः खले-बालीत्युच्यते खलेऽनडुहोवारयतीति खले वाली” नारा०मेध्यां हि बन्धनेनानडुहां वारणात् तथा भवति”रलयोरैक्यात् तथात्वम्