| YouTube Channel

खलेकपोत (khalekapota)

 
Shabdartha Kaustubha
Kannada
खलेकपोत
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಣದಲ್ಲಿ ಏಕಕಾಲದಲ್ಲಿ ಬಂದು ಕೂಡುವ ಕಪೋತಪಕ್ಷಿಗಳು
विस्तारः - > ಇದಕ್ಕೆಸಮಾನವಾದ ಒಂದು ಜಾಗದಲ್ಲಿ खलेकपोतन्यायः ಎಂದು ಹೇಳುವರು. ನೂರಾರು ಪಾರಿವಾಳ ಪಕ್ಷಿಗಳು ಕಾಳುಗಳನ್ನು ತಿನ್ನಲು ಕಣದಲ್ಲಿ ಏಕಕಾಲದಲ್ಲಿ ಶಿಶು ವೃದ್ಧತಾರತಮ್ಯವಿಲ್ಲದೆ ಬಂದುಕೂಡುವಂತೆ ವಿಶೇಷಣ ವಿಶೇಷ್ಯ ಭಾವವಿಲ್ಲದೆ ಕರ್ಮಾದಿಕಾರಗಳು ಕ್ರಿಯೆಯಲ್ಲಿ ಯುಗಪತ್ ಅನ್ವಯಹೊಂದುವ ಸ್ಥಳದಲ್ಲಿ खलेकपोतन्यायः ಎಂದು ಶಾಸ್ತ್ರಕಾರರು ಹೇಳುತ್ತಾರೆ.
वाचस्पत्यम्
Sanskrit
खलेकपोत
पु०
ब० व० खले पतन्तः कपोताः शा० त० अलुक्स० खलेपतत्सु कपोतेषु तत्तुल्यः न्यायः खलेकपोतन्यायः यथा खले कपोता युगपत् पतन्ति तथा परस्पर-विशेष्यविशेषणभावानापन्ना एकत्रान्विताः यथा क्रियायांकर्मादिकारकाणां सर्वेषामेव युगपदन्वयः तु विशेष्ये-विशेषेणमिति रीत्या “गुणानाञ्च परार्थत्वादसम्बन्धःसमत्वात् स्यात्” जै० उक्तेः अयमेव न्यायः एकत्र-द्वयमिति संज्ञकोऽपि यथा महानसीयवह्निर्नास्तीत्यतःएकस्मिन् अभावप्रतियोगिनि महानसीयत्वं वह्नित्व-ञ्चेत्युभयं प्रकारविधया भासते इति जगदीशः गदा-धरमते तु निर्द्धर्मितावच्छेदकभानास्वीकारेण वह्नित्वंघर्मितावच्छेदकीकृत्यैवात्र महानसीयत्वं भासते इति तत्रन एकत्रद्वयमिति रीत्या बोधः किन्तु क्रियाकारकान्वयएव तथा बोधः इति भेदः सएव खलेकपोतन्यायः