| YouTube Channel

खर्द (kharda)

 
शब्दसागरः
English
खर्द r. 1st cl. (खर्दति) To bite, to sting venomously.
Yates
English
खर्द (खर्दति) 1.
a. To bite, to sting.
Wilson
English
खर्द r. 1st cl. (खर्दति) To bite, to sting, to sting venomously.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
खर्द्
मूलधातुः:
खर्द
धात्वर्थः:
दन्दशूके (दंशनहिंसनादिरूपक्रिया)
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
खर्दति
धातुप्रदीपः
Sanskrit
खर्दँ खर्द दन्दशूके
-
दन्दशूको दंशनशीलः स्वभावभूतगर्हितदंशनक्रियाकर्त्ता
अनेन तत्समवेता स्वभावभूतगर्हितदंशनक्रिया लक्ष्यते धातोः क्रियावचनत्वात् एवमन्यत्रापि द्रव्यनिर्द्देशे क्रिया लक्ष्यते दन्दंशन इत्येतन्नोक्तम् ताच्छील्यार्थस्य संग्रहो (22) स्यादिति खर्दति चखर्द्द ।। 59 ।।
शब्दकल्पद्रुमः
Sanskrit
खर्द्द, दशने इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) दशनं दन्तकरणकक्रिया खर्द्दतिमूलकं लोकः केचित्तु दन्दशूके इति पठित्वादन्दशूकः दन्दशूककर्त्तृकक्रियेत्याहुः इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
खर्द्द दंशने
भ्वा०
पर०
सक०
सेट् खर्द्दति अखर्द्दीत् चखर्द्द
क्षीरतरङ्गिणी
Sanskrit
खर्दँ खर्द दन्दशूके
(अर्थविवरणम्) दन्दशूके गर्हितदशनयुक्तायां क्रियायाम्, दशनमात्रे वाच्ये साधननिर्देशः साधनप्रधान-प्रयोग-समवायार्थः
दन्तशूकपाठेऽपि दन्ताः शूका अस्येति एवार्थः पर्यवस्यति खर्दति 58
धातुवृत्तिः
Sanskrit
खर्दँ खर्द (अर्थः) दन्दशूके
(अर्थविवरणम्) दन्दशूकइति दन्दशूककर्तृका क्रिया ऽभिधीयते
साधनप्रधानप्रयोगित्वस्थापनार्थं दन्तशूकग्रहणमिति संमतातरङ्गिण्यौ दन्द्रशूको गर्हितो दशनशीलः, इह तु तत्स्था क्रिया, दश इत्यनुक्तिस्ताच्छील्यादिप्रतिपत्त्यर्थेति मैत्रेये प्रतिपादितम् दन्तशूक इति केशवस्वामी दकारस्य स्थाने तकारमाह, तन्महान्तो सहन्ते यदाह दन्दशूको बिलेशय इति, अत्र सुभूतिवन्द्राः दंशेर्यङन्तादूकपत्यये ऽल्लोपयलोपयोरिति तथा इषुमति रखुसिंहेदन्दशूकान् जिघांसाविति भट्टिश्लोकव्याख्याने दन्शूकान् र्हिस्त्रन् दंशेर्लुपसदेत्याद्युक्तं शंकराचार्येण _हिस्त्रमात्रे प्रयुञ्जनो भट्टिकारो दन्दशूकशब्दस्य नैघण्टुकप्रसिद्धिं नाद्रियते खर्दतीत्यादि पूर्ववत् 60
कृदन्तरूपमाला
Sanskrit
1 {@“खर्द दन्दशूके”@} 2 दन्दशूके = दन्दशूककर्तृकक्रियायामित्यर्थः।
खर्दकः-र्दिका, खर्दकः-र्दिका, चिखर्दिषकः-षिका, चाखर्दकः-र्दिका
इत्यादीनि सर्वाण्यपि रूपाणि व्यथनार्थककर्जतिवत् 3 ज्ञेयानि।
4 खर्दः।
प्रासङ्गिक्यः
01
=>
(३४१)
02
=>
(१-भ्वादिः-६०। सक। सेट्। पर।)
03
=>
(१६९)
04
=>
[[आ। ‘अतर्दकास्त्वद्य विकर्दमाशयाः प्रखर्दवृत्तैरसमन्तितान्तिकाः। श्रुतान्दुकैः चित्तगजेन्द्ररोधिनस्तुष्यन्तु सन्तो गुणबिन्दुलोलुपाः।।’ धा। का। १-९।]]