| YouTube Channel

खर्ज्जूरं (kharjjUraM)

 
शब्दकल्पद्रुमः
Sanskrit
खर्ज्जूरं,
क्ली,
(खर्ज्जूरस्य फलम् फले विहि-तस्याणो लुप् ।) खर्ज्जूरफलम् अस्य गुणाः ।मधुरत्वम् शीतलत्वम् गुरुत्वम् क्षयाभि-घातदाहवातपित्तरोगे हितत्वम् बृंहणत्वम् ।शुक्रवृद्धिकारित्वञ्च इति राजवल्लभः
(“अपक्वखर्ज्जूरफलं त्रिदोषशमनं मतम् ।पक्वमेव हितं श्रेष्ठं त्रिदोषशमनं परम्
”इति प्रथमे स्थाने दशमेऽध्याये हारीतेनोक्तम्
यथा चरके सूत्रस्थाने सप्तविंशेऽध्याये ।“मधुरं बृंहणं वृष्यं खर्ज्जूरं गुरु शीतलम् ।क्षयेऽभिघाते दाहे वातपित्ते तद्धितम्
”)रौप्यम् हरितालम् इति हेमचन्द्रः
खलः ।इति मेदिनी