खपुर (khapura)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishSpoken Sanskrit
Englishखपुर - khapura - - kind of perfume
खपुर - khapura - - tympany
खपुर - khapura - - betel-nut tree
खपुर - khapura - - wind-dropsy
खपुर - khapura - - jointed flatsedge [ Cyperus Pertenuis - Bot. ]
खपुर - khapura - - kind of mirage over water or sand
खपुर - khapura - - water-jar
खपुर - khapura - - city built in the sky
खपुर khapura tympany
खपुर khapura wind-dropsy
प्रत्याध्मान pratyAdhmAna kind of tympanites or wind-dropsy
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiखपुरः
- खं पिपर्ति उच्चतया - ख - पृ - क
सुपारी का पेड़
Shabdartha Kaustubha
Kannadaखपुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಡಕೆ ಮರ
निष्पत्तिः - > पॄ (पालनपूरणयोः) - "कः" (वा० ३-२-५)
व्युत्पत्तिः - > पिपर्ति
खपुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಭದ್ರಮುಸ್ತೆ
खपुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಘಟ /ಕಲಶ /ಬಿಂದಿಗೆ
विस्तारः - > "खपुरः क्रमुके भद्रमुस्तके कलशेऽपि च" - मेदि० ।
खपुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಲಶುನ /ಬೆಳ್ಳುಳ್ಳಿ
खपुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮರದ ರಸ /ಮರದ ಹಾಲು
खपुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಡಕೆ ಮರ
विस्तारः - > "खपुरो लशुने पूगवृक्षे निर्यासपूगयोः"- नानार्थर०।
खपुर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಆಕಾಶದಲ್ಲಿರುವ ನಗರ /ಕಾಲಕೇಯರೆಂಬ ರಾಕ್ಷಸರ ಪಟ್ಟಣ
व्युत्पत्तिः - > खे आकाशे चरं पुरम्
खपुर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗಂಧರ್ವನಗರ
खपुर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹರಿಶ್ಚಂದ್ರ ನಗರ
खपुर
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಅಲಸ /ಸೋಮಾರಿ /ಮೌಗಳ್ಳ
निष्पत्तिः - > पॄ - "कः"
व्युत्पत्तिः - > खमिन्द्रियं पिपर्ति
विस्तारः - > ಹೇಮಕೋಶದಲ್ಲಿ ಘಟವೆಂಬ ಅರ್ಥದಲ್ಲಿ ನಪುಂಸಕಲಿಂಗವಾಗಿ ಹೇಳಲ್ಪಟ್ಟಿದೆ. "खपुरो मुस्तके पूगेऽलसके खपुरं घटे" - हेम० ।
वैजयन्तीकोषः
SanskritWord: खपुरः
Root: खपुर
Gender: पुं
Number: all
अर्थः ⇒ क्रमुकवृक्षवल्कम्ः
Meaning(s):
⇒ Bark of the Areca Faufel
Tamil Kamuku paṭṭai
Shloka(s):
3|3|222|1 ► खपुरः पूगपट्टोऽथ मधुक्षीरो महारसः। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
➠ 3|3|222|1 ⇢ खपुरः (खपुर) (पुं) ⇒ Bark of the Areca Faufel
Tamil Kamuku paṭṭai ⇒ क्रमुकवृक्षवल्कम्ः
➠ 3|3|222|1 ⇢ पूगपट्टः (पूगपट्ट) (पुं) ⇒ Bark of the Areca Faufel
Tamil Kamuku paṭṭai ⇒ क्रमुकवृक्षवल्कम्ः
Related word(s):
शब्दकल्पद्रुमः
Sanskritखपुरं, (खं आकाशं पिपर्त्ति । पॄ + कः ।)घटः । इति हेमचन्द्रः ॥
(खे आकाशे चरंपुरम् ।) ऊर्द्ध्वगं पुरम् । (स तु दैत्यपुरविशेषः ।तदुत्पत्तिकथा यथा, महाभारते । ३ । १७३ ।निवातकवचवधे । ७-११ ।“पुलोमा नाम दैतेयी कालका च महासुरी ।दिव्यवर्षसहस्रं ते चेरतुः परमं तपः ॥
तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददद्वरम् ॥
अगृह्णीतां वरं ते तु सुतानामपदुःखिताम् ।अवध्यताञ्च राजेन्द्र ! सुरराक्षसपन्नगैः ॥
पुरं सुरमणियञ्च खेचरञ्च महाप्रभम् ।सर्व्वरत्नैः समुदितं दुर्द्धर्षममरैरपि ॥
महर्षियक्षगन्धर्व्वपन्नगासुरराक्षसैः ।सर्व्वंकामगुणोपेतं वीतशोकमनामयम् ॥
ब्रह्मणा भरतश्रेष्ठ ! कालकेयकृते कृतम् ।तदेतत् खपुरं दिव्यं चरत्यमरवर्ज्जितम् ॥
”खे आकाशे उत्थितं पुरम् । शुभाशुभादि-सूचनार्थं प्रकाशितं गन्धर्व्वनगरम् । अस्यो-त्तरादिदिग्भेदेनोदये फलभेदो यथा, बृहत्-संहितायाम् ३६ अध्याये ।“उदगादिपुरोहितनृपबलपतियुवराजदोषदंखपुरम् ।सितरक्तपीतकृष्णं विप्रादीनामभावाय ॥
नागरनृपतिजयावहमुदग्विदिक्स्थं विवर्ण-नाशाय ।शान्ताशायां दृष्टं सतोरणं विजयाय ॥
सर्व्वदिगुत्थं सततोत्थितञ्च भयदं नरेन्द्रराष्ट्रा-णाम् ।चौराटविकान् हन्याद्धूमानलशक्रचापाभम् ॥
गन्धर्व्वनगरमुत्थितमापाण्डुरमशनिनिपातवात-करम् ।दीप्ते नरेन्द्रमृत्युर्वामेऽरिभयं जयः सव्ये ॥
अनेकवर्णाकृति खे प्रकाशतेपुरं पताकाध्वजतोरणान्वितम् ।यदा तदा नागमनुष्यवाजिनांपिबत्यसृग्भूरि रणे वसुन्धरा ॥
”)हरिश्चन्द्रपुरम् । इति त्रिकाण्डशेषः ॥
वाचस्पत्यम्
Sanskritखपुर खं पिपर्त्ति उच्चतया पॄ--क । १ गुवाके अमरः ।खमिन्द्रियं पिपर्त्ति--पॄ--क । २ अलसे मेदि० ।खेन पूर्य्यते घञर्थे कर्मणि क । ३ भद्रमुस्तके मेदि०४ व्याघ्रनखवृक्षे राजनि० खे आकाशे उदितं पुरं शा० त० ।अशुभसूचनायाकाशोदिते ५ गन्धर्वनगरे । तस्योत्तरादि-दिग्भेदेनोदये फलभेदः वृ० सं० ५६ अ० उक्तो यथा“उदगादि पुरोहितनृपवलपतियुवराजदोषदं खपुरम् ।सितरक्तपीतकृष्णं विप्रादीनामभावाय । नागरनृपति-जयावहमुदग् विदिकस्थं विवर्णनाशाय । शान्ताशायांदृष्टं सतोरणं नृपतिविजयाय । सर्वदिगुत्थं सततो-त्थितं च भयदं नरेन्द्रराष्ट्राणाम् । चौराटविकान्हन्याद्धूमानलशक्रचापाभम् । गन्धर्वनगरमुत्थितमा-पाण्डुरमशनिपातवातकरम् । दीप्ते नरेन्द्रमृत्युर्वापेऽरिभयं जयः सव्ये । अनेकवर्णाकृति खे प्रकाशतेपुरं पताकाध्वजतोरणान्वितम् । यदा तदा नागमनुष्यवाजिनां पिबत्यसृग् भूरि रणे वसुन्धरा ।”खं आकाशे चरं पुरं शाक० त० । ६ आकाशगामिनिदैत्यपुरभेदे तदुत्पत्तिकथा “पुलमा नाम दैतेयी कालकाच महासुरी । दिव्यं वर्षसहस्रन्ते चेरतुः परमंतपः तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददद्वरम् ।अगृह्णीतां वरन्ते तु सुतानामल्पदुःखिताम् ।अनध्यताञ्च राजेन्द्र! सुरराक्षसपन्नगैः । पुरं सुरमणी-यञ्च खचरं सुमहाप्रभम् । सर्व्वारम्भैः समुदितंदुर्धर्षममरैरपि । महर्षियक्षगन्धर्व्वपन्नगासुरराक्षसैः ।सर्व्वकामगुणोपेतं वीतशोकमनामयम् । ब्रह्मणा भरत-श्रेष्ठ! कालकेयकृते कृतम् । तदेतत् खपुरं दिव्यंचरत्यमरवर्ज्जितम् । पौलोमाध्युषितं वीर । काल-खञजैश्च दानवैः” भारते वनपर्व्वणि १७३ अध्याये ।“विध्वस्ते खपुरे तस्मिन् दानवेषु हतेषु च” भा० व०१७३ अ० । ७ हरिश्चन्द्रपुरे त्रिका० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
