| YouTube Channel

खनु (khanu)

 
Shabdartha Kaustubha
Kannada
खनु - अवदारणे (भ्वा० उभ० सक० से०) खनति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಭೂಮಿಯನ್ನು ಅಗೆ /ನೆಲವನ್ನು ತೋಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
खन्
मूलधातुः:
खनु
धात्वर्थः:
अवदारणे
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
खनति-ते
धातुप्रदीपः
Sanskrit
खनुँ खनु अवदारणे
- खनति खनते चखान चख्ने खानकः खनित्वा खात्वा खातम् खनित्रम् ष्वुन्-खनकः खनकी खनो (3/3/125) इति घञ्, घश्चाधिकरणे आखानः आखनः डोडरौ-आखः आखरः इकः-आखनिकः इकवकः-आखनिकवकः ।। 882 ।।
क्षीरतरङ्गिणी
Sanskrit
खनुँ खनु अवदारणे
- खनते, खनति खात्वा, खनित्वा जनसनखनां सञ्झलोः (6442) आत्त्वम्-खातः ये विभाषा (6443) खायते, खन्यते गमहनजनखन (6498) इत्युपधालोपः चख्नुः खनः (31111) खेयः शिल्पिनि ष्वुन्, नृतिखनिरञ्जिभ्यश्च (31145, सूत्रं वार्त्तिकं च) खनकः जनसनखनक्रम (3267) इति विट्-विसखाः अन्येष्वपि दृश्यते (32101) डः-परिखा खन्यते-खम् डित् खनेर्मुट् चोदात्तः (उ0 520) मुखम् अर्तिलुधूसूखन (32184) इतीत्रन्-खनित्रम् उषिखनिभ्यां कित् (उ0 4162) खात्रम् आङ्परयोः खनिशॄभ्यां डिच्च (उ0 133) आखुः खनिकष्यज्यसि (तु0 उ0 4140) इतीन्-खनिराकरः आङि पणिपनिपतिखनिभ्यः (उ0 245) इकन्-आखनिकः खनो (32125) आखनः 849
धातुवृत्तिः
Sanskrit
खनुँ खनु (अर्थः) अवदारणे
( खनति चखान चख्नतुः ) "गमहन'' इत्याजादावुपधालोपः तस्य "द्विवर्चनेति'' इति स्थानिवत्त्वात् द्विर्वचनम् ( खनिता खनिष्यति अखनत् खनेत् खन्यात् ) "जनसनखनां सञ्ज्ञलोः'' "ये विभाषा'' इत्यात्वम् धातुपारायणे तु "नोपो यि'' इतिवत् "ये विभाषा'' ये विभाषा'' इति वर्णमात्रे निर्दष्टव्ये इत्यत्वतोनिर्देशादिदमात्वं यग्यङोरेव तु यासुटीत्युक्तम् ( अखनीत् अखानि चिखनिषति चङ्खन्यते चाखायते चङ्क्षन्ति चङक्षातः ) "अनुनासिकस्य'' इति दीर्घं परत्वात् बाधित्वा "जनसनख नाम्'' इत्यात्वं भवति तत्र ज्ञल्ग्रहणं सनोत्यर्थां तस्यैवच ज्ञलादेः सनः संभवात्, तेन चिखनिषतीत्यत्रात्वाभावः (खानयति अचीखनत् खनते चखे इत्यादि खेयम् ) ( सूत्रम्) ईचखनः (इति सूत्रम्) क्यपि तत्संनियोगेन "ईकारेन्तादेशे आद्गुणः इइ इति प्रश्लेषेणेकारद्वयं विधीयते एकस्मिन्विघौयमाने"ये विभाषा'' इत्यात्वाभावपक्षे सावकाशोसौ परेणान्तीरङ्गेण चात्वेत, यतो हि यकारादौ बुद्धिस्थ एव विधानादन्तरङृगमात्वम्, ईकारः, क्यप्संनियोगेगेन विधानात् बहिरङ्गः यदा तु "ये विभाषा'' इति परसप्मी तदात्वमेव बहिरङृगमीत्वं तु क्यप्संन्नियागेनान्तरङ्गमिति नार्थः प्रश्लेषेणात्वबाधनार्थेन, एवं सूत्रेपि ह्रस्व एव पठितव्यः नन्वेवमेकादेशस्य "षत्वतुकोरसिद्धः'' इत्यसिद्धत्वात् हस्वाश्रयस्तुक् स्यात् नतत् "पदान्तपदाद्योरेकादेशोसिद्धः' इतृयेवं तत्र व्यवस्थापनात् ( खनकः खनकी ) "शिल्पिनि ष्वुन्'' तत्र "नृतिखनिरञ्जिभ्यः'' इति पगिण्यते परितः खाता, ( परिखा ) "अन्येष्वपि दृश्यते'' इति डः खायते अनेनेति ( खनित्रम् ) "अतः'' इत्यादिना करणे इत्रः ( खात्वा खनित्वा ) उदित्त्वादनिट्पक्षे ज्ञलादिकित्परत्वात् पूर्ववदात्वम् ( निखाय ) "येविभाषा'' इति आत्वं (खातः) "यस्य विंभाषा'' इत्यनिट्त्वम् खन्यतेनेन अत्रेति (आखनः ) ( सूत्रम्) खनो (इति सूत्रम्) इति करणाधिकरणयोर्घः चकारात् घञि ( आखानः आखः ) [ डो वक्तव्यः ] इति डः ( आखरः ) [ डरो वक्तव्यः ] इति डरः ( आखनिकः ) [ इको वक्तव्यः ] इतीकः ( आखनिकवकः ) [ इकवको वक्तव्यः ] इति इकवकः आखादयः खनित्रवचनाः परिखा भवेदस्मिन्न्स्य वा ( पारिखेयं स्थलम् ) ( सूत्रम्) परिखाया ढञ् (इति सूत्रम्) इति प्रथमान्त् सभावनोपाधिकाद् अस्यास्मिन्नित्यर्थे ढञ् ( आखनतीत्याखुः ) "आङ्परणोः खनिशृभ्यां डित्''इति उप्रत्यये डित्त्वाट्टिलोपः ( मुखं ) "डित् खनो मुट् चोदात्तः'' इत्यत्रप्रत्यये डित्त्वाट्टिलोपः, धातोर्मुडागमश्च मुखे भवं, ( मुख्यम् ) "दिगादिभ्या यत्'' इति यत्प्रत्ययः इह पाठोऽशरीरावयवार्थः शरीरावयस्य तु "शरीरावयवाद्यत्'' इत्येव सिद्धः मुखमिव ( मुख्या ) "शाखादिभ्यो यः'' इति भावार्थे यः मुखतो भव (मुखतीयम् ) मुखापार्श्वतसोलपिः ] इति गहादिपाठाच्छप्रत्यये सलोपो "यस्य'' इति लापः परिमुखं भवं परिमुख्यम् ) "अव्यीभावाच्च'' इति यः तत्र हि [ परिमुखादिभ्य उपसंख्यानम् ] इति वार्त्तिकं, तेन परिमुखादेरेवाव्ययीभावादयं प्रत्ययः परिमुखं वर्त्तते ( पारिमुखिकः ) सिवकः ( सूत्रम्) परिमुखं (इति सूत्रम्) इति द्वितीयान्तात् अस्माद्वर्त्तते इत्यस्मिन्नित्यर्थे ठक् मुखस्य सादृश्यं ( यथामुखं ) प्रतिबिम्बम् समं मुखं ( संमुखम् ) समशब्दः सर्वपर्यायः यथामुखं दर्शनः ( यथामुखीनः ) आदर्शादिः एवं संमुखस्य दर्शनः ( संमुखीनः ) दर्शन इत्यधिकरणे ल्युट् ( सूत्रम्) यथामुखसंमुखस्य दर्शने (इति सूत्रम्) इति षश्ठ्यन्त्ताभ्यामाभ्यां दर्शन इत्यर्थे खः अत एव सादृश्येपि निर्देशात् यथामुखमित्यव्ययीभावः तथा समोन्त्यलोपश्च अयं लापः प्रत्ययनियोगेनेति केवलो प्रयोगाहं इति व्याख्यातारः यथामुखीना सीताया इति भट्टिप्रयोगश्चिन्त्यः ( गौरमुखा नाम का चित् ) "नखमुखातृ संज्ञायाम्'' इति स्वाङ्गलक्षणस्य ङीषो निषेधात् टाघेव असंज्ञायां तु ( सुमुखी सुसुखा ) इत्युभयं भवति 863
कृदन्तरूपमाला
Sanskrit
1 {@“खनु अवदारणे”@} 2 खानकः-निका, खानकः-निका, 3 चिखनिषकः-षिका, 4 चाखायकः-यिका, चङ्खनकः-चंखनकः-निका
खनिता-त्री, खानयिता-त्री, चिखनिषिता-त्री, चङ्खनिता-त्री, चाखायिता-त्री
खनन्-न्ती, खानयन्-न्ती, चिखनिषन्-न्ती, -- खनिष्यन्-न्ती-ती, खानयिष्यन्-न्ती-ती, चिखनिषिष्यन्-न्ती-ती
-- 5 प्रनिखनमानः, खानयमानः, चिखनिषमाणः, चाखायमानः-चङ्खन्यमानः
प्रनिखनिष्यमाणः, खानयिष्यमाणः, चिखनिषिष्यमाणः, चाखायिष्यमाणः-चङ्खनिष्यमाणः
6 सुखाः-सुखौ-सुखाः
-- -- -- 7 8 खातम्- 9 खातः-खातवान्, खानितः, चिखनिषितः, चाखायितः-चङ्खनितः-तवान्
खनः, 10 खनित्रम्, 11 परिखा-खम्, 12 कूपखानः, 13 खनकः-खनिकी, खानः, चिखनिषुः, 14 चङ्खनः
खनितव्यम्, खानयितव्यम्, चिखनिषितव्यम्, चाखायितव्यम्-चङ्खनितव्यम्
खननीयम्, खाननीयम्, चिखनिषणीयम्, चाखायनीयम्-चङ्खननीयम्
15 खेयम् 16, खान्यम्, चिखनिष्यम्, चाखाय्यम्-चङ्खन्यम्
ईषत्खनः-दुष्खनः-सुखनः
-- -- खायमानः-खन्यमानः, खान्यमानः, चिखनिष्यमाणः, चाखाय्यमानः-चङ्खन्यमानः
17 आखानः, 18 खनः- 19 आखनः-खानः, 20 आखः-आखरः-आखनिकः-आखनिकवकः, खानः, चिखनिषः, चाखायः-चङ्खनः
खनितुम्, खानयितुम्, चिखनिषितुम्, चाखायितुम्-चङ्खनितुम्
खातिः, खानना, चिखनिषा, चाखाया-चङ्खना
खननम्, खाननम्, चिखनिषणम्, चाखायनम्-चङ्खननम्
21 खनित्वा-खात्वा, खानयित्वा, चिखनिषित्वा, चाखायित्वा-चङ्खनित्वा
22 प्रखाय-प्रखन्य, प्रखान्य, प्रचिखनिष्य, प्रचाखाय्य-प्रचङ्खन्य
खानम् २, खनित्वा २, खात्वा २, खानम् २, खानयित्वा २, चिखनिषम् २, चिखनिषित्वा २, चाखायम् -चङ्खनम्
चाखायित्वा -चङ्खनित्वा
23 कुप्रत्यये, तस्य डिद्वद्भावाट्टिलोपे रूपम्।
= समन्तात् खनतीति आखुः = मूषकः।]] आखुः, 24 इति डस्प्रत्यये, मुडागमे रूपम्।
-- ‘प्राक् खनो मुडुदात्तश्च ततोऽच्च प्रत्ययो भवेत्।
प्रजासृजा यतः खातं तस्मा- दाहुर्मुखं बुधाः।।’ इति निरुक्तम्--’ इत्यमरव्याख्यायां सुधायाम्।]] मुखम्, 25 इति इः प्रत्ययः।
खन्यते इति खनिः = आकरः।
‘खनिः स्त्रियामाकरः स्यात्--’ इत्यमरः।]] खनिः।
प्रासङ्गिक्यः
01
=>
(३३९)
02
=>
(१-भ्वादिः-८७८। सक। सेट्। उभ।)
03
=>
[[१। ‘जनसनखनां सञ्झलोः’ (६-४-४२) इति प्राप्तमात्वं, क्ङित्सन्परकत्वाभावात् भवति। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
04
=>
[[२। ‘ये विभाषा’ (६-४-४३) इति वैकल्पिके आत्वे, चाखायकः इति रूपम्। आ- त्वाभावपक्षे ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इत्यभ्यासस्य नुगागमः। ‘स पदान्तवद्वाच्यः’ (वा। ७-४-८५) इति वचनात् परसवर्णविकल्पः। एवं यङन्ते सर्वत्र रूपत्रयं बोध्यम्। एवं यक्यपि ज्ञेयम्। यङवयवाकारलोपस्य स्थानि- वद्भावेनाजादिक्ङित्प्रत्ययपरकत्वात् ‘गमहन--’ (६-४-९८) इत्युपधालोपो शङ्क्यः
\n\n तत्र, ‘अनङि’ इति पर्युदासेन, औपदेशिकाजादिप्रत्यये एव लोप इति भट्टो- जिदीक्षितैः ‘न धातुलोप--’ (१-१-४) इत्यत्रोक्तत्वात्, तदनुसारेण अकारलो- पाघटितानि रूपाणि प्रदर्शितानि। नागेशभट्टैस्तु--औपदेशिकाजादावित्यर्थो नाश्रितः। अतः ‘जङ्ग्मकः’ इति रूपं ‘न धातुलोप--’ (१-१-४) सूत्रे उद्योते प्रदर्शितम्। प्राचीननवीनयोर्बहुषु लक्ष्येषु आशयभेदो यथा भवति-- तथाऽत्रापीति बोध्यम्।]]
05
=>
[[३। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इत्यत्र, ‘अकखादौ’ इत्युक्तेः वैकल्पिकं णत्वं न।]]
06
=>
[[४। ‘जनसनखनक्रमगमो विट्’ (३-२-६७) इति विट्प्रत्यये, ‘विड्वनोरनुनासिकस्यात्’ (६-४-४१) इति धातुनकारस्य आत्वे, सवर्णदीर्घे रूपम्।]]
07
=>
[पृष्ठम्०३४६+ २४]
08
=>
[[१। उदित्त्वेन क्त्वायामिड्विकल्पात्, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामि- ण्णिषेधः। ‘जनसनखनां सञ्झलोः’ (६-४-४२) इत्यात्वम्। एवं क्तिन्यपि आत्वं ज्ञेयम्।]]
09
=>
[[आ। ‘हता जनस्थानसदो निकायाः कृता जितोत्खातभटद्रुमा पूः। सदांसि दग्धानि विधेयमस्मिन् यद् बन्धुना तद् घटयस्व तस्मिन्।।’ भ। का। १२-५। ‘प्रवुन्द्यवेणीजववेनमाना खातान्तिका चीवरिभिर्निषादैः। चाय्या व्ययद्दाशविलोकभेषभ्रेषज्झषा यासदघं स्पशन्ती।।’ धा। का। २-२७।]]
10
=>
[[२। ‘अर्तिलूधूसूखनसहचर इत्रः’ (३-२-१८४) इति करणे इत्रप्रत्ययः।]]
11
=>
[[३। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति कर्मणि डः प्रत्ययः। एवम्, ‘खम्’ इत्यत्रापि ज्ञेयम्।]]
12
=>
[[४। ‘कर्मण्यण्’ (३-२-१) इत्यण् प्रत्ययो भवति।]]
13
=>
[[५। ‘शिल्पिनि ष्वुन्’ (३-१-१४५) इत्यत्र, ‘नृतिखनिरञ्जिभ्य एव’ (वा। ३-१-१४५) इति वचनात् कर्तरि ष्वुन्। षित्त्वात्, ‘षिद्गौरादिभ्यः--’ (४-१-४१) इति स्त्रियां ङीष्।]]
14
=>
[[६। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति लुकि यादि- प्रत्ययपरकत्वाभावादात्वं भवति।]]
15
=>
[[७। ‘ई खनः’ (३-१-१११) इति क्यप्सन्नियोगेन धातुनकारस्य ईकारादेशः। गुणः।]]
16
=>
[[B। ‘नाखेयः सागरोऽप्यन्यः तस्य सद्भृत्यशालिनः। मन्युस्तस्य त्वया मार्ग्यः मृज्यः शोकश्च तेन ते।।’ भ। का। ६-५६।]]
17
=>
[पृष्ठम्०३४७+ २७]
18
=>
[[१। ‘खनो च’ (३-३-१२५) इति अकर्तरि कारके घः प्रत्ययः। सूत्रे चकारात् घञि ‘खानः’ इत्यपि भवति।]]
19
=>
[[आ। ‘हृदयोदङ्कसंस्थानं कृतान्तानायसन्निभम्। शरीराखनतुण्डाग्रं प्राप्यामुं शर्म दुर्लभम्।।’ भ। का। ७-८३।]]
20
=>
[[२। ‘खनेः डडरेकेकबका बाच्याः’ (वा। ३-३-१२५) इति वचनेन ड-डर-इक- इकबकप्रत्ययाः क्रमेण भवन्ति। आखादयः खनित्रवाचकाः।]]
21
=>
[[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे आत्वे रूपम्।]]
22
=>
[[४। ‘ये विभाषा’ (६-४-४३) इत्यात्वविकल्पः। तेन रूपद्वयम्।]]
23
=>
[[५। औणादिके [द। उ। १-११८]
24
=>
[[६। ‘डस् खनेर्मुट् चोदात्तः [द। उ। ३-५१]
25
=>
[[७। ‘खनिकष्यञ्जसि--’ [द। उ। १-६८]