खण्डप्रलय (khaNDapralaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English खण्डप्रलय khaNDapralaya partial destruction of the universe
खण्डप्रलय khaNDapralaya quarrel
खण्डप्रलय khaNDapralaya dissolution of the bonds of friendship
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiखण्डप्रलयः
खण्ड-प्रलयः -
विश्व का आंशिक प्रलय जिसमें स्वर्ग से नीचे के सब लोकों का नाश हो जाता है
Shabdartha Kaustubha
Kannadaखण्डप्रलय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅವಾಂತರ ಪ್ರಳಯ /ಬ್ರಹ್ಮನ ಒಂದು ದಿನದ ಕೊನೆಯ ಭಾಗ
व्युत्पत्तिः - > खण्डस्य भूम्यादिखण्डस्य प्रलयः
L R Vaidya
Englishवाचस्पत्यम्
Sanskritखण्डप्रलय खण्डस्य भूम्यादिखण्डस्य प्रलयः । चतुर्युग-सहस्ररूपब्राह्मदिनावसाने भूम्यादिखण्ड लयाधारेकालभेदे “वृद्धिर्विधेरह्नि भुवः समन्तात् स्याद्यो-जनं भूभवभूतपूर्वैः । ब्राह्मे लये योजनमात्रवृद्धे-र्नाशो भुवः प्राकृतिकेऽखिलायाः” सि० शि० । “अत्रलयो नाम भूतविनाशः । प्रत्यहमुत्पद्यते । सदैनंदिन उच्यते । यो ब्रह्मदिनान्ते चतुर्युग-सहस्रावसाने लोकत्रयस्य संहारः स ब्राह्मलयउच्यते । तत्राक्षीणपुण्यपापा एव लोकाः कालवशेनब्रह्मशरीरं प्रविशन्ति । तत्र मुखं ब्राह्मणाः, बाह्वन्तरं क्षत्रियाः, ऊरुद्वयं वैश्याः, पादद्वयं शूद्राः ।ततो निशावशाने पुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादि-स्थानेभ्यः कर्मपुटान्तरत्वाद्ब्राह्मणादयस्तत एव निःस-रन्ति । तस्मिन् प्रलये भुवो योजनभात्रवृद्धेर्विलयोनाखिलायाः” प्रमि० ।खण्डप्रलयप्रकारश्च हरिवं० १९८ । १९९ अ० उक्तो यथा“दिव्यं द्वादशसाहस्रं यदेतद्युगमुच्यते । तदेकसप्ततिगुणंमन्वन्तरमिहोच्यते । एतच्चतुर्द्दशगुणमहर्व्राह्ममिहो-च्यते । ततोऽहनि गते तस्मिन् सर्वषामेव देहिनाम् ।शरीरनिर्वृतिञ्चक्रे रुद्रः संहारबुद्धिमान् । दैवतानाञ्चसर्वेषां व्राह्मणानां महीपते! । दैत्यानां दानवानाञ्च यक्ष-किन्नररक्षसाम् । देवर्षीणां ब्रह्मर्पीणां तथा राजर्पी-णामपि । गन्धर्वाणामप्सरसां भुजगानां तथैव च ।पर्वतानां नदीनाञ्च पशूनाञ्चैव भारत! । तिर्य्यग्ये नि-गतानाञ्च सत्त्वानां क्रिमीणां तथा । महाभूतपतिर्द्देवःपञ्च भूतानि भूतहृत् । जगत्संहरणार्थाय कुरुते वैशसंमहत् । भूत्वा सूर्य्यश्चक्षुषी चाददाति भूत्वा वायुःसंहरन् प्राणिजालम् । भूत्वा वह्निर्निर्द्दहन् सर्वलोकान्मेवो भूत्वा भूय एवाभ्यवर्षत् १९८ अ० । वैशम्पायन उवाच ।भूत्वा नारायणो योगी सप्तमूर्त्तिर्विभावसुः । गमस्तिभिःप्रदीप्ताभिः संशोषयति सागरान् । पीत्वाऽर्णवांश्चवै सर्वान्नदी १ कूपंश्च सर्वशः । पर्वतानाञ्च सलिलं सर्वमादायरश्मिभिः । भित्त्वा सहस्रशश्चैव महीं गत्वा रसा-तलम् । रसातलगतं कृत्स्नं पिबते रसमुत्तमम् । अप्सुसृजन् क्लेदमन्यद्ददाति प्राणिनां ध्रुवम् । तत् सर्व-मरविन्दाक्ष आदत्ते पुरुषोत्तमः! वायुश्च बलवान् मूत्वास विधूयाखिलं जगत् । प्राणेदयं सुराणाञ्च वायुनाकुरुते हरिः । ततो देवगणानाञ्च सर्शेषामेव देहि-नाम् । ये चेन्द्रियगणाः सर्वे ये चान्ये भूतसम्भवाः ।तथा घ्राणं शरीरञ्च पृथिवीमाश्रिता गुणाः । जिह्वारसश्च स्नेहश्च संश्रिताः सलिलं गुणाः । रूपं चक्षु-र्विपाकश्च ज्योतिरेवाश्रिता गुणाः । स्पर्शः प्राःणश्च चेष्टाच पवनं मंश्रिता गुणाः । परमेष्ठिनमेते वै हृषीकेशंसमाश्रिताः । ततो मगवता तत्र रश्मिभिः परिवा-रिताः । वायुना कृष्यमाणाश्च रूपान्योऽन्यसनाश्रथात् ।तेषां सङ्घर्षजोद्भूतः पावकः शतधा ज्वलन् । अदह-न्निखिलान् लोकानुग्रः संवर्त्तकोऽनलः । स पर्वतान्द्रुमान् गुल्मान् लतावल्लीस्तृणानि च । विमानानिच दिव्यानि पुराणि विविधानि च । आश्रमाश्च तथापुण्यान् दिव्यान्यायतनानि च । यानि चाश्रयणीयानितानि सर्वाणि चादहत् । भस्मीभूतांस्ततः सर्वान्लोकान् लोकगुरुर्हरिः । भूयो निर्वापयामास जल-युक्तेन कर्मणा । सहस्रदृङ्महातेजा भूत्वा कृष्णो महा-घनः । दिव्यतोयेन हविषा तर्पयामास मेदिनीम् । ततःक्षीरनिकाशेन स्वादुना परमाम्भसा । शिवेन पुण्येनमही निर्वाणमगमत् परम् । तेन सा जलसञ्छन्नापयसा सर्वतो धरा । एकार्णवजला भूत्वा सर्वसत्त्व-विवर्जिता । महाभूतान्यपि च तं प्रविष्टान्यमितौजसम् ।नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्ज्जिते । संशोषयित्वापीत्वा च कल्पयित्वा च देहिनम् । दग्ध्वा सन्ताप-यित्वा च वसत्येकः सनातनः । पौराणं रूपमास्थायकिमप्यमितबुद्धिमान् । एकार्णवजलावासी योगी योग-मुपासते । अयुतानां सहस्राणि शतान्येकार्णवाम्भसि” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
