खञ्जन (khaJjana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishखञ्जनः [khañjanḥ], [खञ्ज्-ल्युट्] A species of the wag-tail
स्फुट- कमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् 11
नेत्रे खञ्जनगञ्जने S. D
एको हि खञ्जनवरो नलिनीदलस्थः Ś. Til.4, 5. -ना A kind of wag-tail.
Mustard. -नम् Going lamely. -रतम् the cohabitation of saints.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiखञ्जनः
- खञ्ज् - ल्युट्
खञ्जनपक्षी
खञ्जनम्
- खञ्ज् - ल्युट्
लँगड़ा कर जाने वाला
Shabdartha Kaustubha
Kannadaखञ्जन
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾಡಿಗೆ ಸೊಗಸಿನ ಹಕ್ಕಿ /ಕೆಂಬೂತದ ಹಕ್ಕಿ
निष्पत्तिः - > खजि (गतिवैकल्ये)- "ल्युः" (३-१-१३४)
व्युत्पत्तिः - > खञ्जति
खञ्जन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕುಂಟುವುದು /ಕುಂಟುತ್ತ ನಡೆಯುವುದು
निष्पत्तिः - > खजि (गतिवैकल्ये)- "ल्युट्" (३-३-११५)
L R Vaidya
EnglishKridanta Forms
Sanskritखन्ज् (ख꣡जिँ꣡ गतिवैकल्ये - भ्वादिः - सेट्)
ल्युट् = खञ्जनम्
अनीयर् = खञ्जनीयः - खञ्जनीया
ण्वुल् = खञ्जकः - खञ्जिका
तुमुँन् = खञ्जितुम्
तव्य = खञ्जितव्यः - खञ्जितव्या
तृच् = खञ्जिता - खञ्जित्री
क्त्वा = खञ्जित्वा
ल्यप् = प्रखञ्ज्य
क्तवतुँ = खञ्जितवान् - खञ्जितवती
क्त = खञ्जितः - खञ्जिता
शतृँ = खञ्जन् - खञ्जन्ती
अभिधानचिन्तामणिः
Sanskritदार्वाघाटः शतपत्त्रः खञ्जरीटस्तु खञ्जनः ।
दार्वाघाट (पुं), शतपत्त्र (पुं), खञ्जरीट (पुं), खञ्जन (पुं)
अभिधानरत्नमाला
Sanskritखञ्जन
खञ्जन, खञ्जरीट
क्रौञ्चः क्रुङ् स्यात्खञ्जनः खञ्जरीटः
verse 2.1.1.244
page 0030
वैजयन्तीकोषः
SanskritWord: खञ्जनः
Root: खञ्जन
Gender: पुं
Number: all
अर्थः ⇒ खञ्जनः इति पक्षिविशेषः
Meaning(s):
⇒ Wagtail
Shloka(s):
2|3|23|2 ► कपोतो बालवत्सः स्यात् खञ्जरीटस्तु खञ्जनः॥ (अन्तरिक्षकाण्डः/खगाध्यायः)
2|3|24|1 ► मिथुनी चञ्चलश्चाथ सुप्तोऽस्मिन् कृष्णवक्षसि। (अन्तरिक्षकाण्डः/खगाध्यायः)
Synonym(s):
➠ 2|3|23|2 ⇢ खञ्जरीटः (खञ्जरीट) (पुं) ⇒ Wagtail ⇒ खञ्जनः इति पक्षिविशेषः
➠ 2|3|23|2 ⇢ खञ्जनः (खञ्जन) (पुं) ⇒ Wagtail ⇒ खञ्जनः इति पक्षिविशेषः
➠ 2|3|24|1 ⇢ मिथुनी (मिथुनिन्) (पुं) ⇒ Wagtail ⇒ खञ्जनः इति पक्षिविशेषः
➠ 2|3|24|1 ⇢ चञ्चलः (चञ्चल) (पुं) ⇒ Wagtail ⇒ खञ्जनः इति पक्षिविशेषः
Related word(s):
परा_अपरासंबन्धः ➡ सुप्तः
जातिः ➡ पक्षी
अमरकोशः
SanskritWord: खञ्जनः
Root: खञ्जन
Gender: पुं
Number: all
Meaning(s):
⇒ wagtail [Motacilla alba]
Shloka(s):
2|5|15|3 ► व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥ (सिंहादिवर्गः)
Synonym(s):
➠ 2|5|15|3 ⇢ खञ्जरीटः (खञ्जरीट) (पुं)
➠ 2|5|15|3 ⇢ खञ्जनः (खञ्जन) (पुं)
Related word(s):
परा_अपरासंबन्धः ➡ पक्षी
जातिः ➡ पक्षी
शब्दकल्पद्रुमः
Sanskritखञ्जनः, (खजि + कर्त्तरि ल्युः ।) स्वनामख्यात-पक्षी । तत्पर्य्यायः । खञ्जरीटः २ । इत्यमरः ।२ । ५ । १५ ॥
कणाटीनः ३ काकच्छर्द्दिः ४ खञ्जखेलः ५तातनः ६ मुनिपुत्त्रकः ७ भद्रनामा ८ रत्न-निधिः ९ । इति त्रिकाण्डशेषः ॥
खञ्जखेटः १०गूढनीडः ११ तण्डकः १२ चरः १३ । इतिशब्दमाला ॥
काकच्छदः १४ नीलकण्ठः १५कणाटीरः १६ कणाटारकः १७ । इति शब्द-रत्नावली ॥
(अस्य दर्शनेन यत् शुभाशुभं फलंभवति तदुक्तं बृहत्संहितायां ४५ अध्याये ।तद्यथा, --“खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे ।प्रोक्तानि यानि मुनिभिः फलानि तानिप्रवक्ष्यामि ॥
”तत्र चत्वारः खञ्जना भवन्ति । तेषां नामान्याह ।“स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः ।आकण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम् ॥
कृष्णो गलेऽस्य विन्दुः सितकरटान्तः स रिक्त-कृद्रिक्तः ।पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥
”अथ कस्मिन् काले दृष्टः कीदृक्फलं करोतिइत्याह ।“अथ मधुरसुरभिफलकुमुमतरुषु सलिलाशयेषुपुण्येषु ।करितुरगभुजगमूर्द्ध्नि प्रासादोद्यानहर्म्म्येषु ॥
गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपे ।हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु ॥
हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु ।दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥
पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते ।शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ॥
गृहपटलेऽर्थभ्रंशो वध्रे बन्धोऽशुचौ भवति रोगः ।पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु ॥
महिषोष्ट्रगर्द्दभास्थिश्मशानगृहकोणशर्करा-द्रिस्थः ।प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥
पक्षौ धुन्वन्नशुभः शुभः पिबन्वारि निम्नगासंस्थः ।सूर्य्योदयेऽथ शस्तो नेष्टफलः खञ्जनोऽस्तमये ॥
नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् ।पश्येत्तया गतस्य क्षिप्रमरातिर्वशमुपैति ॥
तस्मिन् निधिर्भवति मैथुनमेति यस्मिन्यस्मिंस्तु छर्द्दयति तत्रतलेऽस्ति काचः ।अङ्गारमप्युपदिशन्ति पुरीषणेऽस्यतत्कौतुकापनयनाय खनेद्धरित्रीम् ॥
मृतविकलविभिन्नरोगितःस्वतनुसमानफलप्रदः खगः ।धनकृदभिनिलीयमानकोवियति च बन्धुसमागमप्रदः ॥
नृपतिरपि शुभं शुभप्रदेशेखगमवलोक्य महीतले विदध्यात् ।सुरभिकुमुमधूपयुक्तमर्घंशुभमभिनन्दितमेवमेति वृद्धिम् ॥
अशुभमपि विलोक्य खञ्जनंद्विजगुरुसाधुसुरार्च्चने रतः ।न नृपतिरशुभं समाप्नुया-न्न यदि दिनानि च सप्त मांसभुक् ॥
”ततः कालफलप्रदर्शनार्थमाह ।“आ वर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषे ।दिक्स्थानमूर्त्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम् ॥
”शाकुने दिग्विशेषेऽस्य शब्दफलं यथा, --“वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयंयाम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये ।वायव्यां वरवस्त्रगन्धसलिलं दित्याङ्गना चोत्तरे-ऐशान्यां मरणं ध्रुवं निगदितंदिग्लक्षणं खञ्जने ॥
”)
वाचस्पत्यम्
Sanskritखञ्जन खजि--मावे ल्युट् । १ विकलगतौ मेदि० कर्त्तरिल्यु । २ स्वनामख्याते पक्षिभेदे पुंस्त्री० स्त्रियां ङीष् ।स्वार्थे क । तत्रार्थे । तस्य दर्शने शुभाशुभफलाद्युक्तंवृ० सं० ४५ अ० यथा “खञ्जनको नामायं यो विहग-स्तस्य दर्शने प्रथमे । प्रोक्तानि यानि मुनिभिः फलानितानि प्रवक्ष्यामि । स्थूतोऽभ्युन्नतकण्ठः कृष्णगलो भद्र-कारको भद्रः । आ कण्ठमुखात् कृष्णः सम्पूर्णः पूरय-त्याशाम् । कृष्णो गलेऽस्य विन्दुः सितकरटान्तः सरिक्तकृद्रक्तः । पोतो गोपीत इति क्लेशकरः खञ्जनोवृष्टः । अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषुपुण्येषु । करितुरगभुजगमूर्घ्नि प्रासादोद्यानहर्म्येषु ।गोगोष्ठसत्समागमयज्ञोत्वपार्थिवद्विजसमीपे । हस्तितुरङ्ग-मशालाच्छत्रध्वजचामराद्येषु । हेमसमीपसिताम्बर-कमलोत्पलपूजितोपलिप्तेषु । दधिपात्रधान्यकूटेषु चश्रियं खञ्जनः कुरुते । पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्चगोमयोपगते । शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ।गृहपटलेऽर्थभ्रशो बघ्रे बन्धोऽशुचौ भवति रोगः ।पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु । महिषोष्ट्र-गर्दभास्थिश्मशानगृहकोणशर्कराद्रिस्थः । प्राकारभस्म-केशेषु चाशुभो मरणरुगभयदः । पक्षौ धुन्वन्न शुभःशुभः पिबन् वारि निम्नगासंस्थः । सूर्य्योदयेऽथो शस्तोनेष्टफलः खञ्जनोऽस्तमये । नीराजने निवृत्ते ययादिशा खञ्जनं नृपो यान्तम् । पश्येत्तया गतस्य क्षिप्र-मरातिर्वशमुपैति । तस्मिन्निधिर्भवति मैथुनमेति यस्मिन्यस्मिंस्तु छर्दयति तत्र तलेऽस्ति काचः । अङ्गारमत्युप-दिशन्ति पुरीषणेऽस्य तत्कौतुकापनयनाय खनेद्धरित्रीम् ।मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः ।धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः ।नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विद-ध्यात् । सुरभिकुसुमधूपयुक्तमर्धं शुभमभिनन्दितमेवगेतिवृद्धिम् । अशुभमपि बिलोक्य खञ्जनं द्विजगुरुसाधु-सुरार्चने रतः । न नृपतिरशुभं समाप्नुयान् न यदिदिनानि च सप्तं मांसभुक् । आ वर्षात् प्रथमे दर्शनेफलं प्रतिदिनं तु दिनशेषे । दिक्स्थानमूर्त्तिलग्नर्क्षशान्त-दीप्तादिभिश्चोह्यम्” ति० त० । “कृत्वा नीराजनं राजाबलवृद्धैर्यथाबलम् । शोभनं खञ्जनं पश्येत् जलगोगोष्ठ-सन्निधौ । (तन्नतिमन्त्रः) “नीलग्रीव! शुभग्रीव! सर्वकाम-फलप्रद! । पृथिव्यामवतीर्णोऽसि खञ्जरीट! नमीऽस्तु ते” ।वसन्तराजे “दृष्टोदितेऽगस्त्यमुनौ सुदेशे सुचेष्टितं खञ्जन-कोविदध्यात्” इत्युपक्रम्य “त्वं योगयुक्तोमुनिपुत्रकस्त्वम-दृश्यतामेषि शिखोद्गमेन । सं दृश्यसे प्रावृषि निर्गतायां त्वंखञ्जनाश्चर्य्यमयो नमस्ते” । एतद्वचनात् यदा शिरसिशिखोद्गमस्तदा खञ्जनो न दृश्यते अगस्त्योदयानन्तरंशिखाविगमात् पुनर्दृश्यते । दर्शनफलम् “अब्जेषु गोषुगजवाजिमहोरगेषु । राज्यप्रदः कुशलदः शुचिशाद्वलेषु ।स्मास्थिकेशनखलोमतुषेषु दृष्टोदुःखं ददाति बहुशः खलुखञ्जरीटः” । वर्षकृत्ये “वित्तं ब्रह्मणि कार्यसिद्धिर-तुला शक्रे हुताशे भयं, याम्येत्वग्निभयं सुरद्विषि कलि-र्लाभः समुद्रालये । वायव्यां वरवस्त्रगन्धसलिलं दिव्या-ङ्गना चोत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्-लक्षणं खञ्जने” ।“अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्वदुर्विधम्” नैष०“युष्मत्कृते खञ्जनगञ्जनाक्षि! शिरोमदीपं यदि यातियातु” “एकोहि खञ्जनवरोनलिनीदलस्थः” इति च उद्भटः ।ततः शिवादि० अपत्यादौ अण् । खाञ्जन तदपत्यादौ
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
