| YouTube Channel

खजि (khaji)

 
Shabdartha Kaustubha
Kannada
खजि - गतिवैकल्ये (भ्व० पर० अक० से०)खञ्जति
पदविभागः - > धातुः
कन्नडार्थः - > ಕುಂಟು /ಕುಂಟುತ್ತ ನಡೆ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
खञ्ज्
मूलधातुः:
खजि
धात्वर्थः:
गतिवैकल्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
खञ्जति
धातुप्रदीपः
Sanskrit
खजिँ खजि गतिवैकल्ये
- खञ्जति चखञ्ज खञ्जः खञ्जनः ।। 230 ।।
क्षीरतरङ्गिणी
Sanskrit
खजिँ खजि गतिवैकल्ये
- खञ्जति खञ्जः खोङः, खञ्ज नोदकं सर्षपश्च खञ्जनः, खञ्चरीटः पक्षी 228
धातुवृत्तिः
Sanskrit
खजिँ खजि (अर्थः) गतिवैकल्ये
( खञ्जति चखञ्ज खञ्जितेत्यादि ) इदित्त्वान्नलोपाभावः 230
कृदन्तरूपमाला
Sanskrit
1 {@“खजि वैकल्ये”@} 2 ‘गतिवैकल्ये’ इति क्षीरस्वामि-माधवादयः।
खञ्जकः-ञ्जिका, खञ्जकः-ञ्जिका, चिखञ्जिषकः-षिका, चाखञ्जकः- ञ्जिका
इत्यादीनि सर्वाणि रूपाणि भौवादिक ‘कदि’ धातुवत् 3 ज्ञेयानि।
4 खञ्जनः = पक्षी।
प्रासङ्गिक्यः
01
=>
(३३२)
02
=>
(१-भ्वादिः-२३३। अक। सेट्। पर।)
03
=>
(१६३)
04
=>
[[१। ‘चलनशब्दार्थादकर्मकाद्युच्’ (३-२-१४८) इति ताच्छीलिको युच्।]]