| YouTube Channel

खच (khaca)

 
शब्दसागरः
English
खच r. 1st cl. (खचति) also r. 9th cl. (खच्नाति)
1. To be past birth.
2. To
cause prosperity.
3. To purify. r. 10th cl. (खचयति) To fasten, to
bind, to set.
Yates
English
खच (श, ग) खचति खच्नाति To be past
birth
to cause prosperity, to
purify. (क) खचयति 10.
a. To fas-
ten, to bind
to set.
Wilson
English
खच r. 1st cl. (खचति) also r. 9th cl. (खन्नाति)
1 To be past birth.
2 To cause prosperity.
3 To purify. r. 10th cl. (खचयति) To fasten, to bind, to set.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
खच्
मूलधातुः:
खच
धात्वर्थः:
भूतप्रादुर्भावे (अतिक्रान्तोत्पत्तिः)
गणः:
क्र्यादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
खच्ञाति
धातुप्रदीपः
Sanskrit
खचँ खच भूतप्रादुर्भावे
- खच्ञाति चखाच खचिता खच्ञातु चखान खच्यात् अखचीत् अखाचीत् खचितम् 62
शब्दकल्पद्रुमः
Sanskrit
खच, भूतिपूत्योरुत्पत्तौ इति कविकल्पद्रुमः
(क्र्यां-परं-अकं-सेट् ।) भूतिः सम्पत्तिः पूतिःपवित्रता तयोरुत्पत्तिः प्रादुर्भावः भूत्युत्पत्तौपूत्युत्पत्तौ चेत्यर्थः ग, खच्ञाति राजासमृद्धः स्यादित्यर्थः शेषार्थः कातन्त्राद्यसम्मतः ।इति दुर्गादासः
खच, त् बन्धने इति कविकल्पद्रुमः
(अदन्त-चुरां-परं-सकं-सेट् ।) खचयति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
खच पूतौ उत्पत्तौ अतिक्तान्तोत्पत्तौ सि० कौ० क्र्या०प० अक० सेट् खच्ञाति अस्वचीत्--अखाचीत् गण-व्यत्यासात् “खचद्वृत्तावलीढम्” कथास०
खच बन्धने अद० चुरा०
उभ०
सक०
सेट् खचयति तेअचखचत् “शकुन्तनीडखचितं बिभ्रज्जटामण्डलम्”शकु० “रत्नच्छ याखचितबलिभिश्चामरैः क्लान्तहस्ताः” मेघदू०उद् + सह बन्धने “अन्यत्र माला सितपङ्कजानामिन्दी-वरैरुत्खचितान्तरेव” रघुः “उत्खांचता सह ग्र-थिता” मल्लिना०
धातुवृत्तिः
Sanskrit
खचँ खच (अर्थः) भूतप्रादुर्भावे
(अर्थविवरणम्) भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः
( खच्ञाति ) श्चुत्वेन ञकारः, ( चखाच चखचिथ चखचिव खचिता खचिष्यति खच्ञातु चखान खच्ञानि अखच्ञात् खच्ञोयात् खच्यात् अखचीत् अखाचीत् ) "अतो हलादेः'' इति वा वृद्धिः ( चिखचिषति चाखच्यते चाखक्ति खाचयति अचीखचत् खचित्त्वा खवितः खव इत्येकइति मैत्रेयः स्वाम्यपि खच्ञातीत्युक्त्वा खौनातिरिति सभ्या इति ( खैनातिं खौनातु खौनाहि ) अनुनासिकादावूठ्, हौ श्नः शानचः पूर्वे परत्त्वादूठि पश्चाद्धलन्तत्त्वाभावान्न शानच्, ( अखौनात् खौनीयात् ) आशिषि ( खव्यात् ) शेषं खचिवत्, अत्र क्वचिद्धेट् चेति पठ्यते, तत्र हेठतीत्यादि, हेठ विबाधायामिति शपि, श्रन्थादय उदात्ता पिषिवर्जम् क्लिशिस्तु विभाषितेड इषिरपि तकारादौ वार्त्तिकमतेन, सर्वे परस्मैपदिनः 59
कृदन्तरूपमाला
Sanskrit
1 {@“खच भूतप्रादुर्भावे”@} 2 3 ‘खव--’ इति वकारान्तं क्षीरस्वामी पपाठ।
वकारान्तस्य रूपाणि उत्तरत्र प्रदर्शिष्यन्ते।]] भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः।
खाचकः-चिका, खाचकः-चिका, चिखचिषकः-षिका, चाखचकः-चिका
खचिता-त्री, खाचयिता-त्री, चिखचिषिता-त्री, चाखचिता-त्री
4 खच्ञन्-ती, खाचयन्-न्ती, चिखचिषन्-न्ती
-- खचिष्यन्-न्ती-ती, खाचयिष्यन्-न्ती-ती, चिखचिषिष्यन्-न्ती-ती
-- -- खाचयमानः, खाचयिष्यमाणः, चाखच्यमानः, चाखचिष्यमाणः
5 6 खक्-खग्-खचौ-खचः
-- -- 7 खचितम्-तः, खाचितः, चिखचिषितः, चाखचितः-तवान्
खचः, खाचः, चिखचिषुः, चाखचः
खचितव्यम्, खाचयितव्यम्, चिखचिषितव्यम्, चाखचितव्यम्
खचनीयम्, खाचनीयम्, चिखचिषणीयम्, चाखचनीयम्
खाच्यम्, खाच्यम्, चिखचिष्यम्, चाखच्यम्
ईषत्खचः-दुष्खचः-सुखचः
-- -- खच्यमानः, खाच्यमानः, चिखचिष्यमाणः, चाखच्यमानः
खाचः, खाचः, चिखचिषः, चाखचः
खचितुम्, खाचयितुम्, चिखचिषितुम्, चाखचितुम्
खक्तिः, खाचना, चिखचिषा, चाखचा
खचनम् खाचनम्, चिखचिषणम्, चाखचनम्
खचित्वा, खाचयित्वा, चिखचिषित्वा, चाखचित्वा
प्रखच्य, प्रखाच्य, प्रचिखचिष्य, प्रचाखच्य
खाचम् २, खचित्वा २, खाचम् २, खाचयित्वा २, चिखचिषम् २, चिखचिषित्वा २, चाखचम्
चाखचित्वा २।
प्रासङ्गिक्यः
01
=>
(३२९)
02
=>
(९-क्यादिः-१५३१। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
[[१। ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्नाप्रत्ययः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। ‘स्तोः श्चुना श्चुः’ (८-४-४०) इति श्चुत्वम्।]]
05
=>
[पृष्ठम्०३४२+ २४]
06
=>
[[१। ‘चोः कुः’ (८-२-३०) इति कुत्वम्।]]
07
=>
[[आ। ‘प्रुष्णन् सतां प्रियमये प्लुषिताङ्गरागः पुष्णन् मुदं मृगदृशां रिपुधाम मुष्णन्। वक्त्रारविन्दखचितस्मितखौनदाभो रङ्गं गतोंऽसभुवि दन्तवरं प्रगृह्णन्।।’ धा। का। ३-१२।]]