| YouTube Channel

खङ्गपरीक्षा (khaGgaparIkSA)

 
वाचस्पत्यम्
Sanskrit
खङ्गपरीक्षा स्त्री खङ्गस्य परीक्षा खडगस्य रूपघटनादिनाशुभाशुभज्ञानोपयोगिन्यां परीक्षायाम् सा युक्तिकल्पतरौउक्ता यथा “खङ्गरूपं तथा जातिर्नेत्रारिष्टे भूभिका ।ध्वनिर्मानमिति प्रोक्तं खङ्गज्ञानात्मकं शुभम् अभिन्नेदृश्यते यादृक् विच्छिद्य घटिते तथा यदेव दृश्यते चिह्नतदङ्गं सम्प्रचक्षते नीलकृष्णादिकं खङ्ग रूपमित्य-भिधीयते तेनैब यत् प्रतीत स्यात् तत् जातिरितिगद्यते अङ्गातिरिक्त यज्जातिस्तन्माहात्म्योपसूच-चम् तन्नेत्रमिति जानीयात् खङ्गे खङ्गविशारदः ।अङ्गातिरिक्तं खङ्गादेर्यच्छुद्धत्वावसूचकम् तदरिष्ट-मिति प्राहुर्भूमिरङ्गादिधारणम् यः खड्गे जायतेशब्दोनखदण्डादिनाहते ध्वनिस्तुलना मानम्ज्ञानमष्टविधन्त्विदम् पञ्चाद्या निपुणैः खङ्गे सम्भाव्य-न्तेऽपि कृत्रिमाः अन्त्यावकृत्रिमौ ज्ञेयौ तावेव सहजाविति शतमङ्गानि चत्वारि रूपाणि जातयस्तथा ।त्रिंशन्नत्राणि जानीयादरिष्टानि तथैव भूमिश्चद्विविधा ज्ञेया ध्वनिरष्टविधो मतः मानन्तु द्विविधंप्रोक्तमित्येषां सङ्ग्रहो मतः” अधिकमसिशब्दे दृश्यम्