खगोलः (khagolaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiखगोलः
खम्-गोलः -
आकाशमण्डल
शब्दकल्पद्रुमः
Sanskritखगोलः, आकाशमण्डलम् । तस्य विवरणं यथा । एतदब्रह्माण्डं सच्छिद्रं कटाहद्बयस्य गोलाकारसम्पुटतुल्यम् । यत्र भूर्भुवःस्वर्महर्जनतपःसत्य-संज्ञकानि सप्तभुवनानि सन्ति । ब्रह्माण्डमध्ये यः परिधिः स आकाशकक्ष्या । तन्मध्ये परावह-परिवह-सुवह-सम्बहोद्बहाख्यानां पञ्चानां वायूनांस्थानानि अधोऽधःक्रमेण सन्ति । तदधस्तातधोऽधःस्थितपूर्व्वाभिमुखशनिबृहस्पतिराहुकेतुमङ्गलसूर्य्यशुक्रबुधचन्द्रग्रहयुक्तं दक्षिणोत्तरस्थितध्रुवाख्य-ताराद्वयेन बद्धं नक्षत्रचक्रं सदापश्चिमगतिना प्रवहवायुना भ्रमति । ततः अधोऽधःक्रमेण सिद्धविद्याधरमेघविद्युदादियुक्तः सदोत्तरगतिरावहवायुर्भ्रमतिएतद्ब्रह्माण्डस्य मध्ये समन्तात् ईश्वरस्य धारणात्मिकां शक्तिं बिभ्राणो भूगोलः शून्ये तिष्ठति । पृथ्व्यन्तर्गता नागासुरसमाश्रया दिव्यौषधिरसोपेता रम्याःपाताल-रसातल-महातल-तलातल-सुतल-वितलातल-संज्ञका ऊर्द्ध्वोर्द्ध्वक्रमेण सप्तपातालभूमयश्च सन्ति । सुमेरुपर्व्वतोपरि शून्ये एका ध्रुवतारा भ्रमति ।एवं वडवानलोपरि शून्ये अन्या ध्रुवतारा भ्रमति ।अथ कक्ष्यायोजनानि व्यासयोजनानि पृथिव्युच्चयोजनानिआकाशस्य ब्रह्माण्डस्य वा १८७१२०८०८६४०००००० ५९५३८४३९११२७२७२७ २९७६९२१९५५६३६३६३नक्षत्रस्य २५९८९०००० ८२६९२२७३ ४१३४५३३६शनेः १२७६६८२५५ ४०६२०२१७ २१३१००५८राहुकेत्वोः ८०५७२८६३२ २५६३६८२०१ १२८१८८३३००गुरोः ५१३७५७६४ १६३४६८३४ ८१७२६१७चन्द्रोच्चस्य ३८३२८४८४ १२७४२८२८ ६३७०६१४मङ्गलस्य ८१४६९०९ २५९२१९८ १२९५२९९सूर्य्यस्य ४३३१५०० १३७८२०४ ६८८३०२शुक्रशीघ्रस्य २६६४६३७ ८४७८३९ ४२३११९बुधशीघ्रस्य १०४३२०९ ३३१९३० १६५१६५बुधशुक्रयोः ४३६१५० १३८७७५ ६८५८८चन्द्रस्य ३२४००० १०३०९१ ५७४५आवहवायोः ५१०४ १६२४ १२भूगोलस्य ४९६७ १५८१ ०अथ ग्रहाणां मध्यभुक्तयः ।रवेः चन्द्रस्य मङ्गलस्यदिने-- ५९ । ८ । १० । ० ७९० । ३४ । ५२ ३१ । २६ । २८कलाद्याः ५९ । ८ । १० । ० ७९० । ३४ । ५२ ३१ । २६ । २८वर्षे-- १२ । ० । ० । ० ४ । १२ । ४६ । ४० । ४८ ६ । ११ । २४ । ९ । ३६राश्याद्याः १२ । ० । ० । ० ४ । १२ । ४६ । ४० । ४८ ६ । ११ । २४ । ९ । ३६युगे-- ४३२०००० ५७७५३३३६ २२९५८३२भगणाद्याः ४३२०००० ५७७५३३३६ २२९५८३२कल्पे-- ४३२००००००० ५७७५३३३६००० २२९५८३२०००भगणाद्याः ४३२००००००० ५७७५३३३६००० २२९५८३२०००बधशीघ्रस्य बृहस्पतेः शुक्रशीघ्रस्यदिने-- २४५ । ३२ । २१ ४ । २९ । ९ ९६ । ७ । ४३कलाद्याः २४५ । ३२ । २१ ४ । २९ । ९ ९६ । ७ । ४३वर्षे-- १ । २४ । ४५ । २२ । ४८ १ । ० । २१ । ३ । ३६ ७ । १५ । ११ । ४९ । १२राश्याद्याः १ । २४ । ४५ । २२ । ४८ १ । ० । २१ । ३ । ३६ ७ । १५ । ११ । ४९ । १२युगे-- ७१९३७०६० ३६४२२० ३०१२३७६भगणाद्याः ७१९३७०६० ३६४२२० ३०१२३७६कल्पे-- ७१९३७०६०००० ३६४२२०००० ३०१२३७६०००भगणाद्याः ७१९३७०६०००० ३६४२२०००० ३०१२३७६०००अथ ग्रहाणां मध्यभुक्तयः ।शनेः राहोः चन्द्रोच्चस्यदिने-- २ । ० । २३ ३ । १० । ४४ ६ । ४१ । ०कलाद्याः २ । ० । २३ ३ । १० । ४४ ६ । ४१ । ०वर्षे-- ० । १२ । १२ । ५४ ० । १९ । २१ । १२ । ३६ १ । १० । ४० । ५९ । ४२राश्याद्याः ० । १२ । १२ । ५४ ० । १९ । २१ । १२ । ३६ १ । १० । ४० । ५९ । ४२युगे-- २४६५६८ २३१२३८ ४८८१०३भगणाद्याः २४६५६८ २३१२३८ ४८८१०३कल्पे-- २४६५६८००० २३१२३८००० ४८८१०३०००भगणाद्याः २४६५६८००० २३१२३८००० ४८८१०३०००अथ राशिषु नक्षत्राणां स्थितिः । अश्विनी भरणी कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्व्वसुः पुष्या अश्लेषाराशिः ० ० १ १ २ २ २ ३ ३अंशः १ २० १ २९ ३ १ २० १६ २९कला ० ० ३ ३० ० १० ४० २० २०अपक्रम- १० १२ ५ ५ १० ९ ६ ० ७भागाः उत्तरः उत्तरः उत्तरः दक्षिणः दक्षिणः दक्षिणः उत्तरः उत्तरः दक्षिणः मघा पूर्व्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठाराशिः ४ ४ ५ ५ ५ ६ ६ ७ ७अंशः २ २२ ५ १० २४ २६ २६ २४ २९कला २० २० ४० ० १० ४ ४० ० ०अपक्रम- १२ १३ ११ २ २७ ३४ ३ ४भागाः उ उ उ द द उ द द द मूला पूर्व्वाषाढा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्व्वभाद्रपद् उत्तरभाद्रपद् रेवतीराशिः ८ ८ ८ ८ ९ ९ १० १० ११ ११अंशः १ १४ २० २४ १० २० २० २६ १ २६कला १० ० ० ४० ० ० ० ० ० ५०अपक्रम- ९ ५ ५ ३० ३० ३३ ३० २४ २६ ०भागाः द ३० द द उ उ उ द उ उ उअथ राशिषु नक्षत्राणां स्थितिः । मृगव्याधः । अगस्त्यः हुतभुक् ब्रह्महृदयं सप्तर्षितारा कालपुरुषःराशिः ३ २ १ १ १भागः ० २० २२ २२ १कला ० ० ० ० ३अपक्रम- ६० ६४० ३८ ३३० ५भागाः द द द द उ पुनर्व्वसौ आर्द्रायाम् रोहिण्याम् रोहिण्याम् कृत्तिकायाम्अथ खगोलरचना ।स्ववाञ्छितं काष्ठनिर्म्मितं भूगोलं तन्मध्यगंसुमेरोरुभयत्र निर्गतं दण्डञ्च कृत्वा षष्ट्युत्तर-शतत्रय-परिमितं समविभक्तं आधारकक्ष्याद्बयंविषवकक्ष्यैका च कार्य्या ॥
अथ मेषादिराशिस्थितिः ।स्वाहोरात्रार्द्धकर्णैः तत्प्रमाणानुमानेन चक्रान्तिस्थानात् दक्षिणोत्तरविभक्तैर्विक्षेपभागै-र्निजनिजापक्रमैश्च मेषादीनां राशीनां तिस्रःकक्ष्याः कुर्य्यात् । ता एव कक्ष्याः कर्कादीनांवैपरीत्येन कुर्य्यात् । तादृश्यस्तिस्रस्तुलादीनांतथा-विपर्य्ययात् मकरादीनाञ्च कुर्य्यात् ॥
अहोरात्रार्द्धकर्णज्ञानं यथा ।स्वक्रान्तेरुत्क्रमक्रमज्ये द्वे कुर्य्यात् । तत्रउत्क्रमज्यया हीना त्रिज्या दक्षिणोत्तरं दिन-व्यासदलं स्यात् ॥
विक्षेपज्ञानं यथा ।चन्द्रः स्वक्रान्त्यंशात् निजपातेन राशिचक्र-कलाशीतिभागैः परमं दक्षिणोत्तरं विक्षिप्यते ।तस्य नवभागं द्बिगुणितं बृहस्पतिः मङ्गल-स्त्रिगुणितं अन्ये चतुर्गुणं विक्षिप्यन्ते । तत्रक्रमः चन्द्रस्य मध्यविक्षेपकलाः २७० मङ्गलस्य ९०बुधस्य १२० बृहस्पतेः ६० शुक्रस्य १२०शनेः १२० रवेर्व्विक्षेपकला नास्ति ॥
अथ नक्षत्रादिकक्ष्यास्थानम् ।आधारकक्ष्याद्बयोपरियाम्योदग्गोलसंस्थितानांनक्षत्रादीनां कक्ष्याः कुर्य्यात् । सर्व्वासां कक्ष्याणांमध्यस्थाने विषुवत्कक्ष्या स्थिता । तदाधार-कक्ष्ययोर्युतेरूर्द्धं द्वे अयने विषुवद्वयञ्च कुर्य्यात् ।वियुवस्थानात् भगणसञ्चारपर्य्यन्तं स्फुटभागै-र्मङ्गलादीनां क्षेत्राण्येव कुर्य्यात् अर्थात् मेषादि-राशीन् तिर्य्यक्ज्याभी रचयेत् । तथा अयन-स्थानात् अन्यायनपर्य्यन्तं तिर्य्यक् अपरा कक्ष्या-क्रान्तिसंज्ञा कार्य्या । तया कक्ष्यया सूर्य्यःप्रकाशयन् सदा भ्रमति ॥
चन्द्राद्या ग्रहाःअपमण्डलमाश्रितैः स्वस्वपातांशैरपक्रमात् विक्षे-पान्तेषु अपक्रमेणाकृष्टाः सन्तो लोकैर्दृश्यन्ते ।क्षितिजे उदयन् राशिः लग्नं स्यात् तद्वशात्अस्तं गच्छंश्च अस्ताख्यं स्यात् । लङ्कोदयैर्यथासिद्धं दशचतुर्थस्थानञ्च कुर्य्यात् । मध्यक्षिति-जयोर्म्मध्ये या ज्या सा अन्त्या कथ्यते । विषु-वत्क्षितिजयोरन्तरज्या चरदलज्या । उपरिस्वकं स्थानं मध्ये क्षितिजमण्डलं कृत्वा वस्त्र-वेष्टितं लोकालोकवेष्टितञ्च कृत्वा जलपतनयोगेनपारदस्रावयोगेन वा कालभ्रमणं साधयेत् ।इति सूर्य्यसिद्धान्तसम्मतम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
