| YouTube Channel

खगोल (khagola)

 
शब्दसागरः
English
खगोल
m.
(-लः)
1. The vault or circle of the heavens, the planisphere.
2.
The same represented artificially, the armillary sphere.
E.
ख, and
गोल sphere.
Yates
English
ख-गोल (लः) 1.
m.
Circle of the hea-
vens
celestial globe.
Spoken Sanskrit
English
खगोल khagola
m.
circle of heaven
खगोल khagola
m.
celestial sphere
खगोल khagola
m.
vault or circle of heaven
खगोल - विद्या khagola - vidyA
f.
astronomy
ख-गोल kha-gola
m.
celestial sphere
Wilson
English
खगोल
m.
(-लः)
1 The vault or circle of the heavens, the planisphere.
2 The same represented artificially, the armillary sphere.
E.
ख, and गोल sphere.
Monier Williams Cologne
English
ख—गोल
m.
the vault or circle of heaven, celestial sphere,
Gol.
Apte Hindi
Hindi
खगोलः
पुं*
खम्-गोलः -
आकाशमण्डल
Shabdartha Kaustubha
Kannada
खगोल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗೋಳಾಕಾರದ ಆಕಾಶದ ಪರಿಧಿಯಲ್ಲಿ ಸೂರ್ಯನ ಕಿರಣಗಳು ಹರಡಲು ಯೋಗ್ಯವಾದ ಮತ್ತು ಆರ್ಯಾದಿ ಗ್ರಹಗಳಿಗೆ ಆಧಾರವಾದ ಪ್ರದೇಶ
L R Vaidya
English
Ka-gola {% m. %} the celestial sphere.
शब्दकल्पद्रुमः
Sanskrit
खगोलः,
पुं,
आकाशमण्डलम् तस्य विवरणं यथा एतदब्रह्माण्डं सच्छिद्रं कटाहद्बयस्य गोलाकारसम्पुटतुल्यम् यत्र भूर्भुवःस्वर्महर्जनतपःसत्य-संज्ञकानि सप्तभुवनानि सन्ति ब्रह्माण्डमध्ये यः परिधिः आकाशकक्ष्या तन्मध्ये परावह-परिवह-सुवह-सम्बहोद्बहाख्यानां पञ्चानां वायूनांस्थानानि अधोऽधःक्रमेण सन्ति तदधस्तातधोऽधःस्थितपूर्व्वाभिमुखशनिबृहस्पतिराहुकेतुमङ्गलसूर्य्यशुक्रबुधचन्द्रग्रहयुक्तं दक्षिणोत्तरस्थितध्रुवाख्य-ताराद्वयेन बद्धं नक्षत्रचक्रं सदापश्चिमगतिना प्रवहवायुना भ्रमति ततः अधोऽधःक्रमेण सिद्धविद्याधरमेघविद्युदादियुक्तः सदोत्तरगतिरावहवायुर्भ्रमतिएतद्ब्रह्माण्डस्य मध्ये समन्तात् ईश्वरस्य धारणात्मिकां शक्तिं बिभ्राणो भूगोलः शून्ये तिष्ठति पृथ्व्यन्तर्गता नागासुरसमाश्रया दिव्यौषधिरसोपेता रम्याःपाताल-रसातल-महातल-तलातल-सुतल-वितलातल-संज्ञका ऊर्द्ध्वोर्द्ध्वक्रमेण सप्तपातालभूमयश्च सन्ति सुमेरुपर्व्वतोपरि शून्ये एका ध्रुवतारा भ्रमति ।एवं वडवानलोपरि शून्ये अन्या ध्रुवतारा भ्रमति ।अथ कक्ष्यायोजनानि व्यासयोजनानि पृथिव्युच्चयोजनानिआकाशस्य ब्रह्माण्डस्य वा १८७१२०८०८६४०००००० ५९५३८४३९११२७२७२७ २९७६९२१९५५६३६३६३नक्षत्रस्य २५९८९०००० ८२६९२२७३ ४१३४५३३६शनेः १२७६६८२५५ ४०६२०२१७ २१३१००५८राहुकेत्वोः ८०५७२८६३२ २५६३६८२०१ १२८१८८३३००गुरोः ५१३७५७६४ १६३४६८३४ ८१७२६१७चन्द्रोच्चस्य ३८३२८४८४ १२७४२८२८ ६३७०६१४मङ्गलस्य ८१४६९०९ २५९२१९८ १२९५२९९सूर्य्यस्य ४३३१५०० १३७८२०४ ६८८३०२शुक्रशीघ्रस्य २६६४६३७ ८४७८३९ ४२३११९बुधशीघ्रस्य १०४३२०९ ३३१९३० १६५१६५बुधशुक्रयोः ४३६१५० १३८७७५ ६८५८८चन्द्रस्य ३२४००० १०३०९१ ५७४५आवहवायोः ५१०४ १६२४ १२भूगोलस्य ४९६७ १५८१ ०अथ ग्रहाणां मध्यभुक्तयः ।रवेः चन्द्रस्य मङ्गलस्यदिने-- ५९ १० ७९० ३४ ५२ ३१ २६ २८कलाद्याः ५९ १० ७९० ३४ ५२ ३१ २६ २८वर्षे-- १२ १२ ४६ ४० ४८ ११ २४ ३६राश्याद्याः १२ १२ ४६ ४० ४८ ११ २४ ३६युगे-- ४३२०००० ५७७५३३३६ २२९५८३२भगणाद्याः ४३२०००० ५७७५३३३६ २२९५८३२कल्पे-- ४३२००००००० ५७७५३३३६००० २२९५८३२०००भगणाद्याः ४३२००००००० ५७७५३३३६००० २२९५८३२०००बधशीघ्रस्य बृहस्पतेः शुक्रशीघ्रस्यदिने-- २४५ ३२ २१ २९ ९६ ४३कलाद्याः २४५ ३२ २१ २९ ९६ ४३वर्षे-- २४ ४५ २२ ४८ २१ ३६ १५ ११ ४९ १२राश्याद्याः २४ ४५ २२ ४८ २१ ३६ १५ ११ ४९ १२युगे-- ७१९३७०६० ३६४२२० ३०१२३७६भगणाद्याः ७१९३७०६० ३६४२२० ३०१२३७६कल्पे-- ७१९३७०६०००० ३६४२२०००० ३०१२३७६०००भगणाद्याः ७१९३७०६०००० ३६४२२०००० ३०१२३७६०००अथ ग्रहाणां मध्यभुक्तयः ।शनेः राहोः चन्द्रोच्चस्यदिने-- २३ १० ४४ ४१ ०कलाद्याः २३ १० ४४ ४१ ०वर्षे-- १२ १२ ५४ १९ २१ १२ ३६ १० ४० ५९ ४२राश्याद्याः १२ १२ ५४ १९ २१ १२ ३६ १० ४० ५९ ४२युगे-- २४६५६८ २३१२३८ ४८८१०३भगणाद्याः २४६५६८ २३१२३८ ४८८१०३कल्पे-- २४६५६८००० २३१२३८००० ४८८१०३०००भगणाद्याः २४६५६८००० २३१२३८००० ४८८१०३०००अथ राशिषु नक्षत्राणां स्थितिः अश्विनी भरणी कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्व्वसुः पुष्या अश्लेषाराशिः ३अंशः २० २९ २० १६ २९कला ३० १० ४० २० २०अपक्रम- १० १२ १० ७भागाः उत्तरः उत्तरः उत्तरः दक्षिणः दक्षिणः दक्षिणः उत्तरः उत्तरः दक्षिणः मघा पूर्व्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठाराशिः ७अंशः २२ १० २४ २६ २६ २४ २९कला २० २० ४० १० ४० ०अपक्रम- १२ १३ ११ २७ ३४ ४भागाः मूला पूर्व्वाषाढा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्व्वभाद्रपद् उत्तरभाद्रपद् रेवतीराशिः १० १० ११ ११अंशः १४ २० २४ १० २० २० २६ २६कला १० ४० ५०अपक्रम- ३० ३० ३३ ३० २४ २६ ०भागाः ३० उअथ राशिषु नक्षत्राणां स्थितिः मृगव्याधः अगस्त्यः हुतभुक् ब्रह्महृदयं सप्तर्षितारा कालपुरुषःराशिः १भागः २० २२ २२ १कला ३अपक्रम- ६० ६४० ३८ ३३० ५भागाः पुनर्व्वसौ आर्द्रायाम् रोहिण्याम् रोहिण्याम् कृत्तिकायाम्अथ खगोलरचना ।स्ववाञ्छितं काष्ठनिर्म्मितं भूगोलं तन्मध्यगंसुमेरोरुभयत्र निर्गतं दण्डञ्च कृत्वा षष्ट्युत्तर-शतत्रय-परिमितं समविभक्तं आधारकक्ष्याद्बयंविषवकक्ष्यैका कार्य्या
अथ मेषादिराशिस्थितिः ।स्वाहोरात्रार्द्धकर्णैः तत्प्रमाणानुमानेन चक्रान्तिस्थानात् दक्षिणोत्तरविभक्तैर्विक्षेपभागै-र्निजनिजापक्रमैश्च मेषादीनां राशीनां तिस्रःकक्ष्याः कुर्य्यात् ता एव कक्ष्याः कर्कादीनांवैपरीत्येन कुर्य्यात् तादृश्यस्तिस्रस्तुलादीनांतथा-विपर्य्ययात् मकरादीनाञ्च कुर्य्यात्
अहोरात्रार्द्धकर्णज्ञानं यथा ।स्वक्रान्तेरुत्क्रमक्रमज्ये द्वे कुर्य्यात् तत्रउत्क्रमज्यया हीना त्रिज्या दक्षिणोत्तरं दिन-व्यासदलं स्यात्
विक्षेपज्ञानं यथा ।चन्द्रः स्वक्रान्त्यंशात् निजपातेन राशिचक्र-कलाशीतिभागैः परमं दक्षिणोत्तरं विक्षिप्यते ।तस्य नवभागं द्बिगुणितं बृहस्पतिः मङ्गल-स्त्रिगुणितं अन्ये चतुर्गुणं विक्षिप्यन्ते तत्रक्रमः चन्द्रस्य मध्यविक्षेपकलाः २७० मङ्गलस्य ९०बुधस्य १२० बृहस्पतेः ६० शुक्रस्य १२०शनेः १२० रवेर्व्विक्षेपकला नास्ति
अथ नक्षत्रादिकक्ष्यास्थानम् ।आधारकक्ष्याद्बयोपरियाम्योदग्गोलसंस्थितानांनक्षत्रादीनां कक्ष्याः कुर्य्यात् सर्व्वासां कक्ष्याणांमध्यस्थाने विषुवत्कक्ष्या स्थिता तदाधार-कक्ष्ययोर्युतेरूर्द्धं द्वे अयने विषुवद्वयञ्च कुर्य्यात् ।वियुवस्थानात् भगणसञ्चारपर्य्यन्तं स्फुटभागै-र्मङ्गलादीनां क्षेत्राण्येव कुर्य्यात् अर्थात् मेषादि-राशीन् तिर्य्यक्ज्याभी रचयेत् तथा अयन-स्थानात् अन्यायनपर्य्यन्तं तिर्य्यक् अपरा कक्ष्या-क्रान्तिसंज्ञा कार्य्या तया कक्ष्यया सूर्य्यःप्रकाशयन् सदा भ्रमति
चन्द्राद्या ग्रहाःअपमण्डलमाश्रितैः स्वस्वपातांशैरपक्रमात् विक्षे-पान्तेषु अपक्रमेणाकृष्टाः सन्तो लोकैर्दृश्यन्ते ।क्षितिजे उदयन् राशिः लग्नं स्यात् तद्वशात्अस्तं गच्छंश्च अस्ताख्यं स्यात् लङ्कोदयैर्यथासिद्धं दशचतुर्थस्थानञ्च कुर्य्यात् मध्यक्षिति-जयोर्म्मध्ये या ज्या सा अन्त्या कथ्यते विषु-वत्क्षितिजयोरन्तरज्या चरदलज्या उपरिस्वकं स्थानं मध्ये क्षितिजमण्डलं कृत्वा वस्त्र-वेष्टितं लोकालोकवेष्टितञ्च कृत्वा जलपतनयोगेनपारदस्रावयोगेन वा कालभ्रमणं साधयेत् ।इति सूर्य्यसिद्धान्तसम्मतम्
वाचस्पत्यम्
Sanskrit
खगोल
पु०
सू० सि० उक्ते गोलाकारे आकाशण परिधौ सूर्य्य-किरणप्रचारयोग्यदेशे ग्रहाद्याधारे वाय्यंशभेदे यथा“ब्रह्माण्डमेतत् सुषिरं तत्रेदं भूर्भुवादिकम् कटाह-द्वितयस्यैव सम्पुटं गोलकाकृतिः” सू० सि० “एतत्प्रागुक्तं व्रह्मणाधिष्ठितं सुवर्णाण्डं सुषिरमवकाशात्मकं, तत्रावकाश इदं जगत् भूर्भुवादिकं भूर्भुवःस्वर्गात्मक-मवस्थितं वहिः नन्वण्डस्य गोलाकारत्वेनान्तर-वकाशात्मकत्वं सम्भवतीत्यत आह कटाहद्वितयस्येति ।कटाहोऽर्धगोलाकारं सावकाशं पात्रं तस्य द्वितयं दुयंतस्य सनम् एवकारो न्थूनाधिकव्यवच्छेदार्थः ।सम्पुटमाभिमुख्येत मिलितं गोलकाकृतिर्गोलाकारःस्थात्! तथाच क्षतिः अथ ब्रह्माण्डान्तः परिधिंवदंस्तदन्तर्भग्रहादिकमाकाशे यथास्थानं परिभ्रमतीतित्तोकाभ्यामाह” र० ना० “ब्रह्माण्डमध्ये परिधिर्व्योम-कक्षाभिधीयते तन्मध्ये भ्रमणं भानामधोऽधः क्रमश-स्तथा मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः परि-न्यमन्त्यसोऽधःस्थाः सिद्धविद्याधरा घनाः” सू० सि० ।“ब्रह्माण्डान्तः परिधिस्तुल्यवृत्तमाना व्योमकक्षा वक्ष्यमा-स्माकाशकक्षोच्यते तन्मध्ये ब्रह्माण्डमध्य आकाशेभानां नक्षत्राणां सर्वेषां सर्वतस्तुल्योर्ध्वान्तरितानां भ्रमणंभवति तथा तुल्योर्ध्वान्तरेणाधो नक्षत्रेभ्योऽधोधःक्रमात् शनिवृहस्पतिभौमार्कशुक्रबुधचन्द्रा अधजात्परिभ्रमन्ति सिद्धा विसाधराश्चाधस्थाश्चन्द्रादधःखिताअधोऽधः क्रमेणाकाशे स्थिताः एषां प्रवहवायाववस्था-नाभावाच्चन्द्रादिवन्न परिभ्रमः अथ भूम्यवस्थानमाह” र०ना० “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ।विभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम्” सू०सि० “अण्डस्य व्रह्माण्डस्य समन्तात् सर्वप्रदेशान्मध्येमध्यस्थाने केन्द्ररूपे आकाशे भूगोलस्तिष्ठति नन्वाकाशेनिराधारवस्तुनोऽवस्थानासम्भवात् कथमवस्थितो भूमिगोलइत्यतो भूगोलविशेषणमाह बिभ्राण इति व्रह्मणःपरमां शक्तिं धारणात्मिकां निराधारावरयानरूपांविध्याणो धारयन् तथाच क्षतिः एतेन “भूःकिमा-कारा किमाश्रयेति” प्रश्नद्वयमुत्तरितम् अथ कथं चात्रसप्त पातासभूमय इति प्रश्नस्योत्तरसाह” र० ता० “तदन्तर-पुटाः सप्त नागामुरसमाश्रयाः दिर्व्यौषधिरसोपेतारम्याःपातालभूमयः” सू० मेर्व्वादिस्थितिमाह “अनेकरत्ननिचयोजाम्बूनदमयो गिरिः भूगोलमध्यगो मेरुरुभयत्व विनि-र्गतः उपरिष्टात् स्थितास्तस्य मेन्द्रा देवा महर्षयः अध-स्तादसुरास्तद्वद्द्विषन्तोऽन्योऽन्यमाश्रिताः ततः समन्तात्परिधिः क्रमेणायं महार्ष्णवः मेखलेव स्थितो धात्र्यादेवासुरविभागकृत् समन्तान्मेरुमध्यात् तु तुल्य भागेषुतोयधेः द्वीपेषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः भूवृत्त-पादे (१२५६) पूर्वस्यां यमकोटीति विश्रुता भद्राश्ववर्षेनगरी स्वर्णप्राकातोरणा याम्यायां भारते वर्षे लङ्कातदुन्महापुरी पश्चिमे केतुमालाख्ये रोमकाख्याप्रकोर्त्तिता उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्त्तिता ।तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः भूवृत्त-पादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः ताभ्यश्चोत्तरगो मेरुस्ता-वानेव १२५६ सुराश्रयः तासामुपरिगो याति विषुवस्थोदिवाकरः तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते ।मेरोरुभयतो मध्ये ध्रवतारे नभःस्थिते निरक्षदेश-संस्थानामुभये क्षितिजाश्रये अतो नाक्षोच्छ्रयस्तासुध्रुवयोः क्षितिजस्थयोः नवतिर्लम्बकांशास्तु मेरावक्षां-शकास्तथा मेषादौ देवभागस्थे देवानां याति दर्शनम् ।असुराणां तुलादौ तु सूर्य्यस्तद्भागसञ्चरः अत्यासन्न-तथा तेन ग्रीष्मे तीव्राः करा रवेः देवभागे मुराणांतु हेमन्ते मन्दतान्यथा देवासुरा विषुवति क्षितिजस्थंदिवाकरम् पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षपे ।मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम् सञ्चरन्प्रागहर्मध्यं पूरयेन्मेरुवासिनाम् कर्कादीन् सञ्चरंस्तद्वदह्नःपश्चार्धमेव सः तुलादींस्तन्गृगादींश्च तद्वदेवासुरद्विषाम् ।अतो दिनक्षपे तेषामन्येन्यं हि विपर्ययात् अहो-रात्रप्रमाणं भानोर्भगणपूरणात् दिनक्षपार्धमेतेषा-मयनान्ते विपर्ययात् उपर्यात्मानमन्योन्यं कल्प-यन्ति सुरासुराः अन्येऽपि समसूत्रस्था मन्यन्तेऽधःपरस्परम् भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः सर्व-त्रैवं महीगोले स्वस्थानमुपरि स्थितम् मन्यन्ते खेयतो गोलस्तस्य क्वोर्ध्वं क्व वाप्यधः अल्पकायतया लोकाःस्वस्थानात् सर्वतोमुखम् पश्यन्ति वृत्तामप्येतां चक्रा-कारां वसुन्धराम् सव्यं भ्रमति देवानामपसव्यं सुरद्वि-षाम् उपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान्मुखः सदा ।अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरो तथा हानिवृद्धीसदा वामं सुरासुरविभागयोः मेषादौ तु सदा वृद्धिरुद-गुत्तरतोऽधिका देवांशे क्षपाहानिर्विपरीतं तथा-ऽऽसुरे तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे देश-क्रान्तिवशान्नित्यं तद्विज्ञानं परोदितम्” ।अथोक्तग्वावधिदेशं विवक्षुः प्रथमं तदुपयुक्तानि क्रान्त्यंशयोंजनान्याह “भूवृत्तं क्रान्तिभावघ्नं भगणांश-विभाजितम् अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः”सू० सि०
“भूवृत्तं भूपरिधियोजनमानं (५०२६ स्थूलम्४९६७ सूक्ष्मम्) प्रागुक्तमभीष्टक्रान्त्यंशैर्गुणितंद्वादशराशिभागैः षष्ट्यधिकशतत्रयमितैर्भक्त लब्धयोजभैःकृत्वा सूर्य्य उपरि आकाशे स्थितो वर्तमानो दक्षिणतउत्तरतो वा याति गच्छति क्रान्त्यभावे तु निरक्ष-दशोपर्येव परिभ्रमति अत्रोपपत्तिः निरक्षदेशान्मै-रोरुत्तरदक्षिणाग्राभिमुखं सूर्यः क्रान्त्यंशैर्गच्छति ।तद्योजनज्ञानं तु यदि भगणांशैर्मेर्वग्रद्वयनिरक्षदेशस्पृष्टभू-परिधियोजनानि तदा क्रान्त्यंशैः कानीत्यनुपातेने-त्युपपन्नम् अथ दिनमानानयनगणितस्यावधिदेशज्ञानंश्लोकाभ्यामाह” र० ना० “परमापक्रमादेव योज-नानि विशोधयेत् भूवृत्तपादाच्छेषाणि यानि स्युर्यो-जनानि तैः अयनान्ते विलोमेन देवासुरविभा-गयोः नाडीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत्तथा” सू० सि०
“परमक्रन्तिभागाच्चतुर्विंशन्मितात् ।एवं पूर्वोक्तरीत्या योजनानि जातानि ३३६ भूपरिधेःपूर्वोक्तस्य ५०२६ चतुर्थांशात् १२५६ परिवर्जयेत् अवशि-ष्टानि यानि यत्सङ्ख्यामितानि योजनानि भवन्ति तैर्यो-जनैर्देवासुरविभागयोर्निरक्षदेशादुत्तरदक्षिणप्रदेशयोर्यो-देशौ तयोरित्यर्थः अयनान्ते उत्तरदक्षिणायनसन्धौकर्कादिस्थे सूर्ये दक्षिणोत्तरायनसन्धौ, मकरादिस्थे सूर्येविलोमेन व्यत्यासेन सकृदेकवारं नाडीषष्ट्या घटीषष्ट्याऽहर्दिनमानं भवति अस्मिन्नेतादृशे देशे दक्षिणस्मिन्ने-वायनसन्ध्यासन्ने सकृदेकवारं तथा षष्ठिघटीमिता विलो-मेन निशा रात्रिर्भवति अपिशब्दो दिनेन समुच्चयार्थः ।एतदुक्तं भवति कर्कादिस्थे सूर्ये निरक्षदेशादुत्तर-तद्योजनान्तरितदेशे षष्टिघटीमितदिनं तदेव निरक्ष-देशाहृक्षिणतद्योजनान्तरितदेशे षष्टिघटीमिता रात्रिः ।मकरादिस्थे सूर्ये तादृशोत्तरभागे षष्ठिघटीमिता रात्रिर्दक्षिण-भागे तादृशे षष्टिघटीमितं दिनमिति अत्रोपपत्तिः ।परमक्रान्तियोजनानि ३२६ भूवृत्तचतुर्थांशयोजनेभ्यो१२५६ हीनानि ९२० निरक्षदेशात् तन्मितयोजनान्तरितोयो दक्षिणोत्तरदेशस्तस्वान्मेरोर्दक्षिणोत्तराग्रं क्रमेणपरमक्रान्तियोजनान्तरितम् अतस्तत्र लम्बांशाश्चतुर्विशतिः पसांशास षट्षष्टिरिति तद्देशे क्रान्तिवृत्तानु-कारं क्षितिजमित्ययनान्ते पञ्चदशघटीमितमहोरात्रवृत्त-चतुर्भागखण्डं निरक्षतद्देशक्षितिजयोरन्तरालरूपं चर-मत उक्तरीत्या दिनार्धं रात्र्यर्धं चोक्तरीत्या यथायोग्यं त्रिं-शत् तद्द्विगुणं षष्टिघटीमितं तन्मानं गणितरीत्योपपन्नम् ।युक्तं चैतत् अयनान्ताहोरात्रवृत्तस्यैकस्य तत्क्षितिज-प्रदेश एकत्रैव संलग्नत्वाद्द्विधा संलग्नत्वाभावात् प्रवह-भ्रमितसूर्यपरिवर्तपूर्तिः षष्टिघटीर्भिर्दर्शनमदर्शनं यथा-योग्यं तद्गोलस्थि या प्रत्यक्षसिद्ध्वमेवेति अथोक्तदिनरात्रि-मानगणितं तदवधिदेशपर्थ्यन्तं दक्षिणोत्तरभागयोर्नाग्रेइत्याह” र० ना० “तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अह-र्निशोः परतो विपरीतोऽयं भगोलः परिवर्तते” सू० सि० ।“तदन्तरे निरक्षदेशोक्तावधिदेशयोरन्तराले क्षणोत्तर-विभागदेशे षष्ट्यन्ते षष्टिघटीमध्ये क्षयवृद्धो अपचयोप-चयावुक्तरीत्या दिनरात्र्योर्यथायोग्यं भवतः परतोऽव-धिदेशादग्रिमदेशे दक्षिणोत्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षोभगोलो नक्षत्राद्यधिष्ठितो मूर्त्तो गोलो विपरीतोऽवधि-देशान्तर्गतदेशसम्बन्धी गणितसिद्धः परिवर्तते भ्रमति ।तत्रोक्तरीत्या दिनरात्र्योर्वृद्धिक्षयौ भवत इत्यर्थः त्रि-ज्याधिकाराच्चरानयनानुपपत्तेः चरस्वरूपासम्भवाच्च अथविपरीतगोलस्थितिं श्लोकाभ्यां प्रदर्शयति” र० ना० “ऊनेभूवृत्तपादे तु द्विज्यापक्रमयोजनैः धनुर्मृगस्थः सवितादेवमागे दृश्यते तथाच सुरभागे तु मिथुने कर्कटेस्थितः नष्टच्छाये महीवृत्तपादे दर्शनमादिशेत्”सू० सि० “द्विराशिज्या ये क्रान्त्यंशास्तेषां योजनैःपूर्वावगतैर्भूपरिधिचतुर्थांशे (१२५६) हीने कृते सति ।तुकारान्निरक्षदेशात् यद्योजनान्तरिते देशे देवभाग उत्त-रभागे धनुर्मकरराशिस्थोऽर्कस्तद्देशवासिभिर्न दृश्यते ।धनुर्मकरस्थेऽर्के तेषां रात्रिः सदा स्यादित्यर्थः असुर-भागे निरक्षदेशाद्दक्षिणप्रदेशे चः समुच्चयार्थः ।तुकारात् तद्योजनान्तरितप्रदेशे मिथुने कर्कराशौस्थितोऽर्कस्तथा तद्देशवासिभिर्न दृश्यते नष्टच्छाये-महीवृत्तपादे अभावं प्राप्ता छाया भूच्छाया यत्र तादृशेभूपरिधिचतुर्थांशे १२५६ सूर्य्यस्य दर्शनं सदा कथवेत् ।यत्र भूच्छायात्मिका रात्रिर्नास्ति तत्र दिनमित्यर्थः तथाचनिरक्षदेशात् तद्योजनान्तरितदक्षिणप्रदेशे धनुर्मकरस्थो-ऽर्को दृश्यत इति फलितार्थः अतएव “त्र्यंशयुङ्-नवरसाः ६९ १/२ पलांशका यत्र तत्र विषये कदाचन ।दृश्यते मकरो कार्मुकं किञ्च कर्किमिथुनौसदादितौ” इति भास्कराचार्योक्तं सङ्गच्छते(तथाचात्र दशमासादिनं द्वौमासौ रात्रिः) अथान्यत्रापिविपरीतस्थितिं श्लोकाभ्यां दर्शयति” र० ना० “एकज्याप-क्रमानीतैर्योजनैः परिवर्जितैः भूमिदक्षाचतुर्थांशेव्यक्षाच्छेषैस्तु योजनैः धनुर्मृगालिकुम्भेषु संस्थितोऽर्कोन दृश्यते देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये”सू० सि० “एकराशिज्यायाः क्रान्त्यंशेम्यो भूपरिधि-चतुर्थांशे हीने कृते सति निरक्षदेशादवशिष्टैर्योजनैः ।तुकारादन्तरिते देशे देवभाग उत्तरभागे धनुर्मकरवृश्चिक-कुम्भराशिषु स्थितः मूर्यस्तद्देशवासिभिर्न दृश्यते असु-राणां दैत्यानां निरक्षदेशात् तद्योजनान्तरितदक्षिणभागेवृषादिके राशिचतुष्टयोस्थताऽर्कस्तद्देशवासिभिर्न दृश्यते ।तुकारादुत्तरभागे वृषा दचतुष्टयस्थितोऽर्कस्तद्देशवासिंभ-र्दृश्यते वृश्चिकादिचतुष्टयस्थितोऽर्को दक्षिणभागे तद्देश-वासिभिर्दृश्यत इत्यर्थः अतएव “यत्र साङ्घ्रिगजवाजि-सम्मिता ७८ १/४, स्तत्र वृश्चिकचतुष्टयं दृश्यतेच वृषभाच्चतुष्टयं सर्वदा समुदितं हि लक्ष्यते” इतिभास्कराचार्योक्तं सङ्गच्छते (तथाचात्र अष्टौमासादिनं मास-चतुष्कं रात्रिः) अथ शून्यराशिक्रान्त्यानीतयोजनेभ्योऽव-गतमेर्वग्रभागयोरपि स्थिति वैलक्षण्यमाह” र० ना० “मेरौमेषादिचक्रार्ध देवाः पश्यत्ति भास्करम् सकृदेवोदितंतद्वदसुराश्च तुलादिगम्” सू० सि० “मेरावुत्तराग्रावस्थितादेवा मेषादिचक्रार्धे मेषादिराशिषट्केऽवस्थितमर्कं सकृदेक-वारम् एवकारादनेकवारनिरांसनिश्चयः उदितमदर्श-नानन्तरं प्रथमदर्शनविषयं निरन्तरं पश्यन्ति असुरामेरुदक्षिणाग्रस्था दैत्याः चो देवैः च्चयार्थः तुलादि-राशिषट्कस्थं तद्वत् सकृदुदितं निरन्तरं पश्यन्ति अथनिरक्षदेशादयनसन्धौ कियद्भिर्योजनैरूर्ध्वमर्को भवतितदाह” र० ना० ।“भूमण्डलात् पञ्चदशे भागे दैवेऽथ बाऽऽसुरे उपरि-ष्टाद्व्रजत्यर्कः सौम्ययाम्यायनान्तगः” सू० स०
“दैवेउत्तरभागे अथवाऽऽसुरे दक्षिणभागे निरक्षदेशाद्भूप-रिधेः पञ्चदशे भागे तत्फल २४ योजनान्तरिते ३३६ देशेक्रमेण सौम्ययाम्यायनान्तग उत्तरायणान्तदक्षिणायनान्त-स्थितोऽर्क उपरिष्टादूर्ध्वं व्रजति परिभ्रमति यथागोलसन्धौ निरक्षदेशे तथात्र भागद्वय इति फलितार्थः ।अत्रोपपत्तिः अयनान्तस्थे परमक्रान्तिश्चतुर्विंशत्यंशास्त-द्योजनानि ३३६ “भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजि-तम्” इत्यत्र चतुर्विंशतिमितगुणभगणाशमितहरौ गुणे-नापवर्त्य हरस्थाने पञ्चदशेति भूमण्डलात् पञ्चदशं भागइत्युक्तमुपपन्नम्” र० ना०
अथ निरक्षदेशाद्भूपरिधि-पञ्चदशभागपर्यन्तं (२४) मूर्यस्य दक्षिणोत्तरतो गमन-मुक्त्वा तच्छायागमनं प्रतिपादयति” र० ना० “तदन्तरा-लयोश्छाया याम्योदक् सम्भवत्यपि मेरोरभिमुखं यातिपरतः स्वविभागयोः” सू० स० “तदनन्तरालयोर्निरक्षदेशात्पञ्चदशभागमध्यस्थितदक्षिणोत्तरदेशयोश्छाया द्वादशा-ङ्गुलशङ्कोर्मध्याह्नच्छायाभीष्टकालिकच्छायाग्रं वा दक्षिणा-ग्रमुत्तराग्रं वा सम्भवति एतदुक्तं भवति निरक्षदेशात्पञ्चदशभागान्तरालोत्तरदेशे मध्याह्ननतांशानां दक्षिणत्वेछायाग्रमुत्तरम्, उत्तरत्वे छायाग्रं दक्षिणम् एवं निर-क्षदेशात् पञ्चदशभाग न्तरालस्थितद क्षणदेशे सूर्यस्योत्तर-स्थत्वे छायाग्रं क्षणं दक्षिणस्थत्वे छायाग्रमुतरमिति ।परतः पञ्चदभागान्तरालदेशे स्वविभागयोर्दक्षिणोत्तर-विभागयोर्मेरोरभिमुखं मेवग्रयोः सम्मुखं क्रमेण दक्षि-णाग्रमुत्तराग्रं यथा स्यात् तथेत्यर्थः छाया यातिगच्छति भवतीत्यर्थः अपिशब्दः पूर्वार्धार्थेन समुच्चया-र्थकः अथ “कथं पर्येति भुवनानि विभावयन्निति प्रश्नस्यो-त्तरं श्लाकाभ्यामाह” र० ना०
“भद्राश्वोपरिगः कुर्याद्भारतेतूदयं रविः रात्र्यर्धं केतुमालेतु कुरावस्तमयं तदाभारतादिषु वर्षेषु तद्वदेव रभ्रमन् मध्योदयार्धरात्र्य-स्तकालान् कुर्यात् प्रदक्षिणम्” सू० सि०
“भद्राश्ववर्षोपरि-गतः सूर्योभारतवर्षे स्वेदयं कुर्यात् तुकाराद्भद्राश्ववर्षेमात्याह्नं कुर्यात् तदा तस्मिन् काले केतुभालवर्षेऽर्धरात्रंकुरौ कुरुवर्षेऽस्तमयं स्वास्तं कुर्यात् तुकारादुक्तवर्षयो-रन्तराले दिनस्य गतं शेषंवा रात्रेश्च तद्यथायोग्यंकुर्या दत्यर्थः अतिस्थूलदेशग्रहणे यथाश्रुतमिदं मध्यंकिञ्चित्सूक्ष्मदेशग्रहणे तु यमकोटिलङ्कारोमकसिद्धपुरा-ण्यत्तर्गतानि तच्छब्दवाच्यानि ज्ञेयानि “लङ्कापुरेऽर्कस्ययदोदयः स्यात् तदा दिनार्धं यमकोटिषुर्याम् अधस्तदासिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव” इतिभास्कराचार्योक्तं भूगोले उक्तनगरीणां भूपरिधिच-तुर्थांशात्तरत्वात् सङ्गच्छते अथ भारतादिषु त्रिषु वर्ष-सञ्ज्ञेषु भारतकेतुमालकुरुवर्षेषु तद्वद्भद्राश्ववर्षोपरिग-वत् एवकारात् तन्न्यूनाधिकव्यवच्छेदः परिभ्रमन्परिभ्रमेण स्वस्वाभिमतस्थानोपरिस्थितिं कुर्वन् सूर्यः प्रद-क्षिणं यथा स्यात् तथा सव्यक्रमेण स्वस्थाना दक्रमेणेतियावत् उक्तचतुर्वर्षेषु मध्योदयार्धरात्र्यस्तकालान्मध्या-ह्नोदपार्धरात्र्यस्तसञ्ज्ञान् कालान् कुर्यात् एतदुक्तंभवति भारतर्षोपरिगतेऽर्के भारतकेतुमालकुरुभ-द्राश्ववर्षेषु क्रमेण मध्याह्नसूर्योदयार्धरात्रास्ताः स्युः ।केतुमालवर्षेपरिगतेऽर्के केतुमालकुरुभद्राश्वभारतवर्षेषुक्रमेण मध्याह्नमूर्योदयार्धरात्रास्ताः कुरुवर्षोपरिगतार्के कुरुभद्राश्वभारतकेतुमालवर्षेषु कमेण मध्याह्न-सूर्योदय र्धरात्रास्ता भवन्तीति” र० ना०
ननुग्रहाणा गतिसद्भावात् प्रतिदेशं याम्योत्तरयोर्ग्रहगमनंप्रतिक्षणं विलक्षणं भासतां परन्तु नक्षत्राणां गत्य-भावात् प्रतिक्षणं भ्रमेणैकत्रावस्थानाभावेऽपि प्रतिदेशमेक-रूपावस्थानं कुतो न? एवं ध्रुवयोः परिभ्रमस्याप्यभावात्सदा सर्बत्रैकरूपावस्थानदर्शनापत्तिश्चेत्यत आह” र० ना० ।“ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः निरक्षाभि-मुखं यातुर्विपरीते नतोन्नते” सू० सि०
“मेरुंमेरोरुत्तराग्रं दक्षिणाग्रं वा तदभिमुखं प्रयास्यतोगच्छतः पुरुषस्य ध्रुवोन्नतिः क्रमेणोत्तरदक्षिणयांर्ध्रुवयो-रौच्च्यं भवति भचक्रस्य नक्षत्राधिष्ठितगोलमध्यभाग-वृत्तस्य नतिः क्रमेण दक्षिणोत्तरयोर्नतत्वं भवति मेरो-र्निरक्षदेशाभिमुखं गच्छतः पुरुषस्य नतोन्नते पूर्वेक्ते व्यस्तेभवतः उत्तरभागस्थपुरुषस्य निरक्षाभिमुखं गच्छतःपूर्वोक्तस्थानापेक्षयोत्तरघ्रुवस्य नतत्वं पूर्वस्थानापेक्षयाभचक्रस्योन्नतत्वम् एवं दक्षिणभागस्थपुरुषस्य निरक्षा-भिमुखं गच्छतः पूर्वस्थानापेक्षया दक्षिणध्रुवस्य नतत्वंभचक्रस्योन्नतत्वमिति” ।अथ कुत एवमित्यतः “कथं पर्य्योति भगणः सग्रहोऽयंकिमाश्रयः” प्रश्नस्योत्तरं भचक्रभ्रमणवस्तुस्थितिमाह”र० ना० “भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः ।पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्” सू० सि० ।“भचक्रं नक्षत्राधिष्ठितभूर्त्तगोलरूपं ध्रुवयोर्दक्षिणोत्तर-स्थिरतारयोर्बद्धं ब्रह्मणा निबद्धं नियतवायुगतिना गोला-कारेण प्रतिबद्धं प्रवहानिलैः प्रवहवाय्वंशैः स्वस्वस्थान-स्थैक्षिप्तं स्वस्वस्थानामिघातं प्राप्तं सदजस्रं निरन्तरंपर्येति पश्चिमाभिमुखं भ्रमतीत्यर्थः ननु नक्षत्रचक्रंवायुना भ्रमति ग्रहास्त्ववोऽधःस्थाः सम्बन्धाभावात् कथंभ्रमन्तीत्यत आह तन्नद्धा इति ग्रहाणां शन्यादीनांकक्षा मार्गा वाय्वंशरूपा भचक्रान्तर्गता आकाशस्था यथा-क्रममधोऽधस्तन्नद्धा महाप्रवहवायुगोलस्थापितभचक्रेवायुसूत्रेण निबद्धा अतो भचक्रेण सह भ्रमन्तितत्रस्था ग्रहा अपि भ्रसन्तीति किं चित्रम् तथाचप्रवहवायुगोलमध्यस्थविषुवद्वृत्तपर्वापरनिरक्षदेशे ध्रुवयोःक्षितिजस्थत्वाद्भचक्रस्य मस्तकोपरिभ्रमणाच्च मेर्वग्राभि-मुखं प्रयातुर्ध्रुव उच्चो भवति तत आसन्नात्वाद्भचक्रंनतं भवति ततो दूरत्वाद्ध्रुवो नत्वाभचक्रमुन्नतं भवतोतिसर्वं युक्तम् “सुरासुराणामन्योन्यमहोरात्रं विपर्य्ययात्”“किमर्थं वा कथं वा स्यादिति” “पित्र्यं मासेनभवतीति” प्रश्नयोरुत्तरमाह” र० ना० “सकृदुद्गतम-ब्दाधें पश्यन्त्यर्कं सुरासुराः पितरः शशिगाः पक्षंस्वदिनं नरा भुवि” सू० सि० “यथा देवदैत्या एक-वारमुदितं सूर्यं सौरवर्षार्द्धपर्यन्तं पश्यन्ति तथा पितरश्चन्द्रविम्बगोलोध्वेस्थिताः पक्षं पञ्चदशतिथिपर्यन्तं प-श्यन्ति नरा भूमौ स्वदिनपर्यत्तमर्कं पश्यल्यतः “पित्र्यंमासेन भवति नाडीषष्ट्या तु मानुषम्” इति सर्वं युक्तम् ।अतएव “विधूर्ध्वभागे पितरो वसन्तः स्वाधः सुधादीधितिमामनन्ति पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतो-ऽस्माद्द्युदलं तदैषाम्
भार्धातरत्वान्न विधोरधःस्थंतशान्निशीथः स्वलु पौर्णमास्याम् कष्णे रविः पक्ष-दलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम्” इति भास्क-राचार्येण बस्तीर्योक सङ्गच्छते अथ प्रसङ्गादूर्ध्वस्थ-स्याल्पभगणानामधःस्थस्याधिकभगणानां युक्त्या प्रति-पादनार्थं प्रथमं कक्षाया ऊर्ध्वाषःक्रमेण महदल्पत्वं तत्र-स्थभागामां महदल्पपदेशत्वं चाह” र० ना० “उपरिस्थस्यमहती कक्षाऽल्पाधःस्थितस्य महन्या कक्षया भागामहालोऽल्पास्तथाल्पया” सू० सि०
“ऊर्ध्वस्थस्यग्रहस्य कक्षा वायुवृतमार्गरूपा महती महापरिधिप्रमा-णा अधःस्थस्य प्रहस्य कक्षा अल्पाऽल्पपरिधिपगाणा ।चो निश्चयार्थे लघुकक्षाणां महाकक्षान्तर्गतत्वेनमहाकक्षाणां चात्तर्गतलघुकक्षात्मनोर्ध्वावःस्थयोर्महदल्पपरिधिके कक्षे अन्यर्थोक्तस्वरूपानुपपत्तेः एवंमहति वृत्तपरिधौ द्वादशराशिभागानां समत्वेनाङ्कनेभागा एकैकभागप्रदेशा महत्या कक्षया कृत्वा महान्तोबहुस्थलात्मकाः, लघुनि वृत्ते तदङ्कने तथा भागा अल्पयाकक्षया कृत्वाल्पा अल्पस्थलात्मकाः क्रमेणैकैकभागप्रमाण-मधिकाल्पं सम चक्रांशपूर्त्यनुपपत्तेरिति तात्पर्यम् ।अथोर्ध्वाधःक्रमेण ग्रहभगणभेगकीलयोर्महदल्पत्वमाह”र० ना० “कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः ।ग्रहः कालेन महता मण्डले महति भ्रमन्” सृ० सि० ।“अल्पभ्रभणाश्रितः अल्पं भ्रनणं परिधिमानं यस्याःसाल्पभ्रमणाऽवास्थकक्षा तत्स्थो ग्रहोऽल्पेन समयेनभगणं द्वादशराश्यात्मकं भुङ्क्तेऽतिक्रमते महतिमण्डले ऊर्ध्वस्थकक्षायामित्यर्थः भ्रमन् गच्छन् महताबहुना समयेन द्वादश राशीन् भुङर्क्त वक्ष्यमाणयो-ज गतेरभिन्नत्वात् अथातएवोर्ध्वावःक्रमेण ग्रहयो-र्भगणास्तुल्यकालेऽल्पा बहवो भवन्तोति सेदाहरणमाह”र० ना० “स्वल्पयाऽतो बहून् भुङ्क्ते भगणान् शीतदीधितिः ।महत्या कक्षया गच्छन् ततः स्वल्पं शनैश्चरः” सू० सि० ।स्वल्पपमाणया कक्षया तुकारादतिक्रामंश्चन्द्रो बहुप्रमा-णान् भगणान् बहुवारं द्वादश राशीनित्यर्थः भुङक्ते ।महाप्रमाणया कक्षया गंच्छन् शनिस्ततश्चन्द्रात् स्वल्प भग-णमल्पपमाणान् भगणान् जात्यभिप्रायेणैकवचनम् अल्प-वारं द्वादश राशीन् भुङ्क्ते अतएघ शनैश्चर इत्युक्तम्अथ “ग्रहर्क्षकक्षाः किंम त्राः” इति प्रश्नस्योत्तरं विवक्षुःप्रथमं नक्षत्राणां कक्षामानमाह” र० ना० “भवेद्भकक्षातिग्मांशीर्भ्रमणं षष्टिताडितम् सर्वोपरिष्टाद्भमतियोजनैस्तैर्भमण्डलम्” सू० स० सूर्यस्य भ्रमणं कक्षा-परिधिमानं योजनात्मकम् “खखार्थैकसुरार्णवाः”इति वक्ष्यमाणं ४३३१५०० षष्ट्या गुणितं २५९८९००००सन्नक्षत्राणां कक्षा नक्षत्राविष्ठितगोलस्य मध्यवृत्तं स्यात् ।तैर्तक्ष कक्षामितैर्योजनैर्भमण्डलंनक्षत्राधिष्ठितगोलमध्यवृत्तंर्सोपरिष्टाच्चन्द्रादिसप्तग्रहेभ्य उपरि दूरं भ्रमति भूगो-लादभितः पम्भ्रिमति अत्रेपपत्तिः नक्षत्राणां गत्य-भावाच्छनेरप्यत्यूर्ध्वं नक्षत्रमण्डलं तत्र यदि सूर्यगत्यासूर्यकक्षा तदा नक्षत्रगत्यभावेऽप्येककलागतिकल्पनयानु-पातान्यथानुपपत्तितया “कल्प्यो हरो रूपमहारराशेः”इतीच्छाह्रामे फलवृद्ध्यपेक्षितत्वाद्व्यस्तानुपातो लाघवात्सूर्यगतिः षष्टिकलामिता भगवता कृता नक्षत्रगते-रभावाच्चेति षष्टिताडितमित्युपपन्नम् अथ ग्रहक-क्षाणां मानज्ञानार्थमाकाशकक्षामानम् “कियतीतत्कर-व्याप्तिः” इति प्रश्नस्योत्तरमाह र० ना० “कल्पोक्तं चन्द्रभ-गणा गुणिताः शशिकक्षया आकाशकक्षा सा ज्ञेयाकरव्याप्तिस्तथा रवेः” सू० सि० “कल्पोक्तन्धन्द्रभगणाः“एते सहह्रगुणिताः कलपे स्युर्भगणादयः” इत्युक्त्वांयुगचन्द्र गणाः ५७७५३३३६, सहस्रगुणिताः५७७५३३३६०००, कलपचन्द्रमगणा” इत्यर्थः चन्द्रकक्षया“स्यत्रयाब्धिद्धिदहना” इति ३२४०००, वक्ष्यमाणया गुणितातद्मिताकाशस्य कक्षा १८७१२०८०८६४००००००, परिधि-रूपा ज्ञेया धीमतेनि शेषः नन्वनन्ताकाशस्य कथंप रधिरित्यत आह करव्याप्तिरिति सूर्यस्य किरण-प्रचारस्तयाकाशकक्षापरिमित इत्यर्थः तथाच यद्देशा-वच्छेदेन सूर्यकिरणप्रचारस्तद्देशावच्छिन्नाकाशगोलस्यब्रह्माण्डकटाहान्तर्गतस्य परिधिमानं सम्भवत्येवेति भावः ।अत्रोपपत्तिः समनन्तरमेव यद्भगणभक्ता खकक्षा तस्यकक्षा स्यादित्युक्तेर्भगणकक्षाघाता खकक्षा सिद्धा अत-श्चन्द्रभगणकक्षयोर्वातः खकक्षातुल्य एवेति दिक् अथग्रहाणां कक्षानयनं योजनगत्यानयनं चाह” र० ना० “सैवयत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत् कुवासरैर्विभज्याह्नःसर्वेषां प्राग्गतिः स्मृता” सू० सि० “सार्ककरव्याप्ति-रूपाकाशकक्षा यत्कल्पमगणैर्यस्य कलपभगणैर्भक्ता फलंतस्य कक्षा भवेत् एवकारो निश्चयार्थे खकक्षाकल्परविसावनैर्भक्ता प्राप्तं फलं सर्वेषामुक्तभगणसम्ब-न्धिनां ग्रहादीनामह्नो दिवसस्य दिनसम्बन्धिनीत्यर्थः ।प्राग्गतिर्योजनात्मिका कथिता अत्रोपपत्तिः कल्प-भगणकक्षावातरूपाकाशकक्षा कल्पभगणभक्ता कक्षास्यादेव कल्पे खकक्षामितयोजनानि ग्रहः कमतीतियदि कल्परविसावन दनेराकाशकक्षामितयोजनानि तदे-करपिसावनदिनेन कानी यनुपातेन पूर्वगतिर्योजनात्मिकाप्रत्यहं तुल्येत्युपपन्नम् अथ योजनात्मकगतेः कलात्य-कग तं स्वीयामाह” र० ना० “भुक्तियोजनजा सङ्ख्या सेन्द्रो-भ्रेमणसङ्गुणा खकक्षप्ता तु सा तस्य तिथ्याप्ता गति-लिप्तिकाः” सू० सि० गतियोजनोत्पन्ना या सङ्ख्या चन्द्रस्यभ्रनणसङ्गुणा कक्षया ३०४०००, गुणिता खकक्षयाप्नाभि-मतग्रहस्य कक्षवा भक्ता सा फलरूपा तिथ्याप्ता पञ्च-दशभक्ता तुकारात् फलं तस्याभिमतग्रहस्य गतिकलाभवन्ति अत्रोपपत्तिः यदि कक्षायोजनैश्चकृ २१६००, कलास्तदा गतियोजनैः का इत्यनुपातेन गतिकलाः ।तत्रापि चन्द्रकक्षा ३२४०००, पञ्चदशभक्ताश्चक्रकला२१६००, इति चक्रकलास्वरूपं धृतमित्युपपन्नम् अथकिमुत्मेधा इति प्रश्नस्योत्तरमाह र० ना० “कक्षा भूकर्ण-गुणिता महीमण्डलभाजितः ततकर्णा भूमिकर्णोनाएहौच्च्यं स्वं दलीकृताः” सू० नि० “ग्रहाणां योज-नात्मिका कक्षा भूकर्णेन “योजनानि शतान्यष्टौ भूकर्णोद्विगुणानि च” इत्युक्तभूव्यासेन षोडशशतेः(स्थूलेन)गुणिताभूपरिधिना (५०२६, १४/२५, स्थूलेन) तदागतेन भक्ताफलं तम्याः कक्षायाः कर्णा व्यासा भवन्ति एते भूव्यासेनहीना अर्धिताः सन्तः स्वगृहीतव्याससम्बन्धिग्रहौच्च्यंग्रहस्योच्चता भूमेः सकाशाद्भवति अत्रोपपत्तिः यदिभूपरिधिना भूव्यासस्तदा कक्षायोजनैः इत्यनुपातेनकक्षाव्यासास्तेऽर्धिताः कक्षाव्यासार्धं भूगर्भकक्षापरिधि-प्रदेशान्तरालरूपं भूपृष्ठात् तदन्तरज्ञानार्थं भूव्यासार्धेनहीनं भूपृष्ठात् कक्षौच्च्यं तत्र कक्षाव्यासा भूव्यासोनाअर्धिताः कृता उभयथा समत्वात् कक्षौच्च्यमेवग्रहौच्च्यं ग्रहस्य तत्राधिष्ठानादिति एतेन सिद्धग्रहौ-च्च्येभ्यः परस्परान्तरज्ञानं सुगममिति श्रीपति वाक्ये(तन्मानं वक्ष्यमाण स्पष्टम्) किमन्तरा इति प्रश्नस्योत्तरंस्वतः सिद्धमेवेति दिक् अथोर्ध्वक्रमेण सिद्धाः कक्षा विवक्षुप्रथमं चन्द्रस्य कक्षां बुधशीघ्रोच्चकक्षां चाह “खत्रयाब्धि-द्विदहनाः कक्षा तु हिमदीधितेः ज्ञशीघ्रस्याङ्कखद्वि-त्रिकृतशून्येन्दवस्ततः” सू० सि० “चन्द्रस्य कक्षा सहस्र-गुणितसिद्धरामाः ३२४००० तुकारादागमप्रामाण्येनाङ्गी-कार्या अन्यथान्योन्याश्रयापत्तेस्ततश्चन्द्रादूर्ध्वं बुधशी-घ्रोच्चस्य कक्षा नवखदन्तवेद दशः १०५३२०९ यद्यपि बुध-शीव्रोच्चमाकाशे प्रत्यक्षं नेति तत्कक्षोक्तिरयुक्ता तथा पबुधशीघ्रोच्चः गणानीतकक्षायां गत्यनुरोधेन चन्द्रेर्ध्वगायांबुधो भ्रमति पूर्वं सूर्यशुक्रेन्दुजेन्दवः” इति क्रमोक्तेः ।अन्यथा भगणैक्यादेककक्षायां रविबुधशुक्राणामवस्थितौमण्डलभङ्गापत्तेरिति सूचनार्थमुक्ता अथ शुक्रशीघ्रो-च्चस्य कक्षां सूर्यबुधशुक्राणामभिन्नां कक्षां चाह” र० ना०“शुक्रशीघ्रस्य सप्ताद्रिरसाब्धिरसषड्यमाः ततोऽर्क-बुवशुक्राणां खखार्थैकसुरार्णवाः” सू० सि० “तृध्वशुक्रशीघ्रोच्चस्य कक्षाऽश्वाद्र्यङ्गवेदषट्रसपक्षाः २६६४६७७शुक्रावस्थानसूचनार्थमुक्ता ततस्तदूर्ध्वं मूर्यबुधशुक्राणांभगणैक्यादभिन्ना कक्षा खखपञ्चभूदेवाब्धयः ४३३१५०० य-द्यपि बुधशुक्रयोः सूर्याधःस्थत्वात् केवलं सूर्यत्रक्षो वक्तुमुचितातथापि यदि एतया फक्षयैको भगणस्तदा कल्परविसावन-दिनैः स्ववक्षामितयोजनानि तदाहर्गणेन कानीत्यमुपा-तागतयोजनैः इत्यनुपातेन सूर्यबुधशुक्राणामभिनुत्व-सिद्व्यर्थं बुधशुक्रयोरप्युक्ता अन्यथा समत्वानुपपत्तरिति ।अथ भौमस्य कक्षां चन्द्रमन्दोच्चस्य कक्षां चाह” र० ना०“कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः चन्द्रोच्चस्यकृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः” सू० सि० “भौमस्य ।अपिशब्दात् मूर्यादूर्ध्वकक्षा नबखनपषडिन्द्रसर्पाः८१४६९०९ चन्द्रप्रन्दोच्चस्य कक्षा वेदाहिवेदसर्पपक्ष-रामनागरामाः ३८३२८४८४ इयमप्याकाशे दृश्यातथापि गतयोजनैश्चन्द्रोच्चज्ञानायोक्ता अथ गुरुराह्वोःकक्षे आह, र० ना० “कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः ।स्वर्मानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः” सू० सि० “वृह-स्पतेर्भौमाच्चन्द्र च्चाद्वोर्ध्वं कक्षा वेदाङ्गमुनिपञ्चस्वररामचन्द्रशराः ५१३७५७६४ राहोः कक्षा वेदाङ्गगजयम-सप्तपञ्चाशीतयः ८०५७२८६४ इयमदृश्यापि राहो-र्गतियोजनैर्ज्ञानार्थमुक्ता अत्रापि पातस्य चक्रशुद्धत्वमव-धेयम्
अथ शनेः कक्षां नक्षत्राधिष्ठितमूर्तगोलमध्यकक्षांचाह र० ना० “पञ्चबाणाक्षिनागर्तुरसाद्र्यर्काः शनेस्ततः ।भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनः” सू० सि० “ततोवृहस्पतेराहोर्वोर्ध्वं शनेः कक्षा पञ्चपञ्चद्व्यष्टषट्-रससप्तार्काः १२७६६८२५५ नक्षत्राणां गोल-मध्ये कक्षा शनेरूर्ध्वं द्वादशनवशताष्टनवतितत्त्वानि२५९८९००१२ यद्य “भवेद्भकक्षा तीक्ष्णंशोर्भ्रमणंषष्टिताडितम्” इत्यनेनोक्त भकक्षाया द्वादशान्तरितत्वादयु-क्तत्वं तथापि “सैव यत्कल्पभगणैः” इत्यनेन सूर्यकक्षायाउक्त्या द्वादशाधोऽवयवस्य निबन्धने त्यागेऽपि भकक्षर्थंभगवता गृहीतत्वाददोषः एतेनाधोऽवयवस्यार्धन्यून-त्वन त्यागोऽर्धाभ्यधिकत्वेनोर्ध्वमेकाधिकग्रहणं कक्षानि-बन्धेन कृतमि सूचितम् ननु चन्द्रकक्षाया आगम-प्रामाण्येनाङ्गीकारे सर्वकक्षाणामागमप्रामापयापत्त्या “सैवयत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत्” इति कक्षानयनंव्यर्थम् अन्यथाकाशकक्षाज्ञानासम्भवापत्तेरित्यत आका-शकक्षैरागमप्रामाण्येनाङ्गीकार्येति वसन्ततिलकेनाह”र० ना० “खव्योमखत्रयखसागरषट्कनागव्योमाष्ट-शून्ययमरूपनगाष्टचन्द्राः व्रह्माण्डसम्पुटपरिभ्रमणंसमन्तादभ्यतरे दिनकरस्य करप्रसारः” सू० सि०
१८७१२०८०८६४०००००० मितयोजनानि” र० ना० ।कक्षादीनां योजनमानभेदेऽनुपदं वक्ष्यमाणस्य सि० शि०वाक्यस्य सूक्ष्मत्वादविरोधः) खगोले अगस्त्यादीनांस्थानदेशमाह यथा“अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः विंशे चमिथनस्वांशे मृगव्याधो व्यवस्थितः विक्षपो दक्षिणेभागैः खार्णवैः स्वादपक्रमात् हुतभुग्ब्रह्महृदयौवृषे द्वाविंशभागगौ अष्टाभिस्त्रिंशता चैव विक्षिप्ता-वुत्तरेण तौ गोलं बद्ध्वा परीक्षत पिक्षपं ध्रुवकंस्फुटम्” सू० सि० “स्वकीयात् क्रान्तिविभागस्थानात्(२४) दक्षिणस्यामशीत्यंशैस्तारात्मकोऽगस्त्यो मिथुनान्तगःकर्काद्यभागे स्थितः अगस्त्यनक्षत्रस्य राशित्रयं (९०)ध्रुवकः दक्षिणविक्षेपोऽशीतिरित्यर्थः मृगव्याधोलुब्धको मिथुनराशेर्विंशतिभागे (८०) स्थितः चकारःसमुच्चये लुब्धकनक्षत्रस्य रात्रिद्वयं विंशतिभागा ध्रुवकइत्यर्थः दक्षिणस्यां चत्वारिंशता भागैः परिमितस्तस्यच क्रान्तिवृचस्थानाधिक्षपः वृषराशौ वह्निब्रह्महृदयौद्वाविंशभागे स्थितौ (५०) वह्निब्रह्महृदयनक्षत्रयोर्घाविंश त-भागाविकैकराशिर्ध्रुवकः तौ वह्निब्रह्महृदयौ अष्टा-भिस्त्रिंशता चकारः क्रमार्थे एवकारो न्यूना-धिकव्यवच्छदार्धः उत्तरेणोत्तरस्यामित्यर्थः विक्षिप्तौविक्षेपवन्तौ वह्नेर्बिक्षेपोऽष्टभाग उत्तरः ब्रह्महृदय-स्योत्तरो विक्षेपस्त्रिंशदित्यर्थः नन्वेते ध्रुवाविक्षपाश्चकालक्रमेण नयता अनियता वेत्यत आह नोल-मिति गोलं वक्ष्यमाणं बद्ध्वा वशशलाकादिभिर्निबध्यस्फुटं विक्षेपं क्रान्तिसंस्कारयोग्यं ध्रुवामिमुखं ध्रुवकस्फुटमायनदृक्कर्मसंस्कृतं परीक्षेत स्वस्वकाले दृग्गो-चरसिद्धमङ्गीकुरुत तथा क्रान्तिसंस्कारयोग्यविक्षे-पायनसंस्कृतध्रुवकयोरयनांशवशादस्थिरत्वादपि मयेदानी-न्तनसमयानुरोधेन लाघपार्थमायनदृक्कर्मसंस्कृता ध्रुवाःक्रान्तिसंस्क रयोग्यविक्षेपाश्च नियता उक्ताः काला-न्तरे गोलयन्त्रेण वेधस्तु गोलबन्धोक्तविधिना गोलयन्त्रेकार्यः” तत्र खगालस्योपरि भगोलम्, आधारवृत्तस्योपरिबिषुवद्वृत्तम् तत्र यथाक्तं क्रान्तिवृत्तं भगणांशाङ्कितंच बद्ध्वा ध्रुवयष्टिकीलथोः प्रोतमन्यच्चलं भवेधवलयम् ।तच्च भगणांशाङ्कितं कार्यम् ततस्तदगोलयन्त्रं सम्यग्-ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयं यथा भवतितथा स्थिरं कृत्वा रात्रौ गोलमध्यच्छिद्रगतया दृष्ट्यारेवतीतारां विलेक्य क्रान्तिवृत्ते मीनान्ताद्दशकलान्तरित-पश्चाद्भागे रेवतीतारायां निवेश्यं मध्यगतयैव दृष्ट्याश्विन्या-देर्नक्षत्रस्य योगतारां विलोक्य तस्या उपरि तद्व धवलयंनिवेश्यम् एवं कृते सति वेधवलयस्य क्रान्तिवृत्तस्यच यः सम्पातः मीनान्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्यनक्षत्रस्य ध्रुवांशा ज्ञेयाः वेधवलये तस्यैव सम्पातंस्ययोगत रायाश्च यावन्तोऽन्तरेंऽशास्तावन्तस्तस्य यिक्षपांशादक्षिणा उत्तरा वा वेद्याः अथ रोहिणीशकटभेदमाह”र० ना० “वृषे सप्तदशे भागे यस्य याम्योऽशकद्वयात् ।विक्षपोऽभ्यधिको भिन्द्याद्रोहिण्याः शकटं तु सः” सू० सिः“वृषराशौ सप्तदशेंऽशे यस्य ग्रहस्य भागद्वयाधिको विक्षेपोदक्षिणः ग्रहो रोहिण्याः शकटं शकटाकारसन्निवेशंभिन्दात् तन्मध्यगतो भवेदित्यर्थः तुकाराद्ग्रहवि-क्षेपो रोहिणीविक्षेपादल्प इति विशेषार्थकः बिक्षेपस्यदक्षिणस्य रोहिणीविक्षेपादधिकत्वे शकटाद्बहिर्दक्षिण-भागे ग्रहस्य स्थितत्वेन तद्भेदकत्वाभावात् अत्र शक-टाग्रिमनक्षत्रस्य ध्रुव एकराशिः सप्तदशांशाः ४७ दक्षिणःशरो भागद्वयमिति वेधसिद्धा स्पष्टा युक्तिः” र० ना० ।अथ ब्रह्मसञ्ज्ञकनक्षत्रावस्थानमाह ।“पूर्वस्यां ब्रह्महृदयादशकैः पञ्चभिः स्थितः प्तजापति-र्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः” सू० सि० “ब्रह्म-हृदयस्थानात् पूर्वभागे पञ्चभिरंशैः प्रजापतिस्तारात्मकोब्रह्मा क्रान्तिवृत्ते स्थितः कुत्रेत्यत आह वृषान्तइति वृषान्तनिकटे एकराशिः सप्तविंशत्यंशा ५७ ब्रह्म-ध्रुवक इत्यर्थः अस्य विक्षेपमाह असाविति ।ब्रह्मा उत्तरस्यामष्टत्रिंशद्भागैः स्थितः अष्टत्रिंशद्भागाअस्य विक्षेप इत्यर्थः” र० ना० “अपांवत्सस्तु चित्रा-यामुत्तरेंऽशैस्त पञ्चभिः वृहत्किञ्चिदतो भागैरापःषडभिस्वथोत्तरे” सू० सि० “चित्रायाः सकाशादपां-वत्ससञ्ज्ञकस्तारात्मकः पञ्चभिर्भागैरुत्तरस्यां स्थितः प्रथ-मतुकारश्चित्राध्रुवतुल्यध्रुवकार्थकः द्वितीयतुकारश्चित्राविक्षेपस्य दक्षिणभागद्वयात्मकत्वादपांवत्सविक्षेप उत्तर-स्त्रिभाग इति स्फुटार्थकः अतोऽपांवत्सात् किञ्चिद-ल्पात्तरेण वृहत् स्थूलतारात्मक आपसञ्ज्ञकः तथाऽ-पांवत्सात् षड्भिरंशैरुत्तरस्यां स्थितश्चित्राध्रुवक एवापस्यउत्तरो नवांशः” र० ना० ।तारास्वरूपादिकम् अश्लेषाशब्दे ४९९ पृ० दर्शितं तेषांध्रुवकविक्षेपरूपशरयोरानयनविधा सू० सि० दर्शिता यथा“प्रोच्यन्ते लिप्तिका भानां स्वभोगोऽथ दशाहतः ।भवन्त्यतीतधिष्ण्यानां भोगलिप्ता युता ध्रुवाः” सू० सि०“भानामश्विन्यादिनक्षत्रणामुत्तराषाढाभिजिच्छ्रवणधनि-ष्ठावर्जितानां लिप्तिका भोगसञज्ञाः कलाः प्रोच्यन्तेसमनन्तरमेव कथ्यन्ते अथानन्तरं स्वभोगः स्वाभीष्टन-क्षत्रभोगः कलात्मको वक्ष्यमाणो दशभिर्गुणितः कार्यः ।तत्र स्वाभीष्टनक्षत्रगतनक्षत्राणामश्विन्यादीनां भोग-लिप्ताः भभोगोऽष्टशती लिप्ता इत्युक्ताष्टशतकलाः प्रत्येकंयुताः अश्विन्याद्यतीतनक्षत्रसङ्ख्यागुणितकलाष्टशतंयुतमित्यर्थः ध्रुवा नक्षत्राणां भवन्ति” अथ प्रति-ज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिजिच्छ्रवणधनि-ष्ठाव्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह”र० ना० “अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः ।अष्टार्था अब्धयोऽष्टागा अङ्गागा मनवस्तथा कृतेषवोयुगरसाः शून्यवाणा वियद्रसाः खवेदाः सागरनगागजागाः सागरर्तवः मनवोऽथ रसा वेदा वैश्वमाप्या-र्धभोगगम् आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवण-स्थितिः त्रिचतुःपादयोः सन्धौ श्रविष्ठा श्रवणस्य तु ।स्वभोगतो वियन्नागाः षट्कृतिर्यमलाश्विनः रन्ध्रादयःक्रमादेषां विक्षेपाः स्वापदक्रमात् दिङ्मासविषयःसौम्ये याम्बे पञ्चदिशो नव सौम्ये रसाः खं याम्येऽ-गाः सौम्ये खार्कास्त्रयोदश दक्षिणे रुद्रयमलाः सप्त-त्रिंशदथोत्तरे याम्येऽध्यर्धत्रिककृता नवसार्धशरेषवः ।उत्तरस्यां तथा षष्टिस्त्रिंशत् षट्त्रिशदेव हि दक्षिणेत्वर्धभागस्तु चतुर्विंशतिरुत्तरे भागाः षड्विंशतिः खंच दस्रादीनां यथाक्रमम्” सू० सि० “अश्विन्यादि-नक्षत्राणां क्रमाद्भोगा एते तत्राश्विन्थाम् अष्टचत्वा-रिंशत् कलाः भरण्याश्चत्वारिंशत् कृत्तिकायाः कलाःपञ्चषष्टिः रोहिण्याः सप्तपञ्चाशत् कलाः मृगशिर-सोऽष्टपञ्चाशत् आर्द्रायाश्चत्वारः अत्राब्धय इत्यत्रगोऽब्धयो गोग्नय इति वा पाठस्त्वयुक्तः शाकल्य-संहिताविरोधात् “सौरोक्तरुद्रभस्यांशास्त्र्यद्रयोऽगा-ब्धयः कलाः इति नार्मदोक्तं दशकलोनपञ्चदश-भागा मिथुने सर्वजनाभिमतध्रुवको दशकलोनपञ्चदश-भागाः पर्वताभिमतध्रुवकश्च निरस्तः पुनर्वसोरष्टस-प्ततिः पुष्यस्य षट्सप्ततिः अश्लेषायाश्चतुर्द्दश ।तथेति छन्दःपूरणार्थम् मघायाश्चतुःपञ्चाशत् पूर्व-फाल्गुन्याश्चतुःषष्टिः उत्तरफाल्गुन्याः पञ्चाशत् ।हस्तस्य षष्टिः चित्रायाश्चत्वारिंशत् स्वात्याः चतुः-सप्ततिः विशाखाया अष्टसप्ततिः अनुराधायश्चतुः-षष्टिः ज्येष्ठायाश्चतुर्दश अनन्तरं मूलस्य षट् ।पूर्वाषाढायाश्चत्वारः उत्तराषाढाया ध्रुवकमाह ।वैश्वमिति उत्तराषाढाद्योगतारानक्षत्रम् आप्यार्ध-भोगगम् आप्यस्य पूर्वाषाढानक्षत्रस्यार्धभोगः धनू-राशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम् अष्टौ राशयोविंशतिभागा उत्तराषाढायाध्रुवः इत्यर्थः एतेन पूर्वा-षाढायोगतारायाः सकाशादुत्तराषाढायोगतारा विंशति-कलोनसप्तभांगान्तरिता तेन पूर्वाषाढाध्रुवकोऽष्टराशय-श्चतुर्दश भागा विंशतिकलोनसप्तभागैर्युत उत्तराषाढायाध्रुवश्चत्वारिंशत्कलाधिकोक्तध्रुव इति पर्वतोक्तमपास्तम्ब्रह्मसिद्धातविरोधात् अभि जिद्ध्रुवकमाह आप्य-स्येति पूर्वाषाढाया अवसाने धनूराशेर्विंशतिकलोन-सप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया चत्वारिंशत्-कलाधिकषड्विंशतिभागाधिका अष्टौ राशयोऽभिजितोध्रुव इत्यथः एवकारोऽन्ययोगव्यवच्छेदार्थः तेनसंहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकलायुत-त्रयोदशकलायुतचतुर्दशभागादिकनवराशयो निरस्तम् ।श्रवणस्य ध्रुवकमाह वैश्वान्त इति उत्तराषाढायाअवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम् नव राशयोदश भागाः श्रवणध्रुवक इत्यर्थः धनिष्ठाया ध्रुवक-माह त्रिचतुःपादयोरिति श्रवणस्य तृतीयचतुर्थ-चरणयोः क्रमेणान्तादिसन्धौ मकरराशेर्विंशतिभागे श्र-विष्ठा धनिष्ठा ज्ञेया नव राशयो विंशतिभागा धनिष्ठा-ध्रुव इत्यर्थः तुकारात् क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्यविंशतिकलोनसप्तभागा निरस्तम् शतताराया भोग-माह स्वभोगत इति धनिष्ठाभोगात् कुम्भस्य विंश-तिकलोनसप्तभागावधेरित्यर्थः शतताराया अशीति-र्भोगः अतः प्राग्वद्ध्रुव इति ज्ञापनार्थं स्वभोगतइत्युक्तम् शततारायाः स्थानं शततारकध्रुव इतिपर्यवसन्नम् अवशिष्टनक्षत्राणां भोगानाह षट्-कृतिरिति पूर्वभाद्रपदायाः षट्त्रिंशत् कला भोगः ।उत्तरभाद्रपदाया द्वाविंशतिः रेवत्या एकोनाशीतिः ।अथ ध्रुवकानयनं यथा अश्विन्था भोगः ४८ दश-गुणितः ४८० अतीतनक्षत्राभावाद्भोगयोजनाभावः ।अतोऽश्विन्याः फलात्मको ध्रुवः ४८० राश्याद्यस्तु० ।भरण्या भोगः दशाहतः ४०० अतीतनक्षत्र-स्यैकत्वादष्टशतयुतो भरण्याः परिभाषया राश्याद्यो ध्रुवः। २० एवमार्द्राभोगः दशाहतः ४० ।अतीतनक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन ४००० ।चतुःसहस्रात्मकन युतः कलाद्यो ध्रुवः ४०४० ।राश्याद्यस्तु २० एवं पूर्वाषाढाया दशगुणितोभोगः ४० एकोनविंशतिगुणिताष्टशतेन १५२०० ।युतः परिभाषया राश्याद्यो ध्रुवः १४ शतता-रात्या दशगुणितो भोगः ८०० त्रयोविंशतिगुणिता-ष्टशतिन १९४०० युतश्चतुविंशतिगुणिताष्टशतरूपो ।१९२०० जातो ध्रुवो राश्याद्यः १० २० पूर्वभा-द्रपदाया दशगुणितो भोगः २६० चतुविंशतिगुणि-ताष्टशतेन १९२०० युतो १९५६० जातो ध्रुवोराश्याद्यः १० २६ उत्तराषाढाभिजिच्छ्रवणधनि-ष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्तरीत्यसम्भवाद्भि-न्नरीत्या ध्रुवका उक्ताः स्वादिस्थानाद्योगतारा यदन्तर-कलाभिस्थितास्ता लाघवाद्दशापवर्तिता भोगसञ्ज्ञाउक्ताः तथा ब्रह्मसिद्धान्ते “अष्टौ विंशतिरर्घोनगजाग्निर्व्यर्धखेषवः त्रितर्काः सत्रिभागाद्रिरसास्त्र्य-ङ्काश्च शट्शतम्
नवाशा नवसूर्याश्च वेदेन्द्राः शरवा-णभूः खात्यष्टिः खधृतिर्गोऽतिधृतिर्विश्वाश्विनस्तथा
वेदाकृतिर्गोदृग्थस्ताः क्वब्धिहस्ता युगार्थदृक् खोत्-कृतिस्त्र्यंशहीनाश्वरसहस्ताः खहस्तिदृक्
खगोऽ-श्विनः खदन्ताः षड्दन्ताः शैलगुणाग्नयः मेषाद्यश्व्या-दिमध्यांशाः षङंशोनाः खषड्गुणाः”
इति अथनक्षत्राणां विक्षेपभागानाह एषामिति उक्तध्रुव-कसम्बधिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादि-त्यर्थः स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्त-स्थध्रुवकस्थानादित्यर्थः विक्षेपा विक्षेपभागा दक्षिणाउत्तरा वा भवन्ति तत्रोत्तरदिश्यश्विन्यादित्रयाणांदिङ्मासविषयाः क्रमेण दश द्वादश पश्चेत्यर्थः दक्षिण-दिशि रोहिण्यादित्रयाणां पञ्चदश नव उत्तरस्यां पुन-र्वसोः षड्भागाः पुष्यस्य खं विक्षेपाभावः अत्र पञ्चमा-क्षरस्य गुरुत्वेन छन्दोभङ्ग आर्षात्वान्न दोषः दक्षिणस्मा-मश्लेषायाः सप्त उत्तरस्यां मघादित्रयाणां शून्यंद्वादश त्रयोदश दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ ।अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत् दक्षिणस्यांविशाखादीनां षण्णां साधैंकः त्रयं चत्वारः नव सार्ध-पञ्च पञ्च क्रमेण उत्तरदिशि तथा विक्षेपभागा अभि-जितः षष्टिः श्रवणस्य त्रिंशत् धनिष्ठायाः षट्-त्रिंशत् एवकारो न्यूनाधिकव्यवच्छेदार्थः चकारःपूरणार्थः दक्षिणस्यां तुकारस्तथा अर्धभागः शत-तारायाः तुकारस्तथा उत्तरस्यां पूर्वभाद्रपदा-याश्चतुर्विंशतिः तस्यामेव दिशि भागा विक्षेपभागाउत्तरभाद्रपदायाः षड्विंशतिः रेवत्या विक्षेपाभावः ।चकारः पूरणार्थः” र० ना०
अत्र स्पष्टत्वात्अनेकेषां नक्षत्राणां ध्रुवका दर्शिताः सि० शि०प्रमिताक्षरायां तु यथाक्रमं सर्वेषांखरूपतो ध्रुवकादर्शिता यथाअ* भ* कृ* रो* मृ* आ* पु* पु* आ* म* पू* उ* ह* चि*० ६८ २० २२ १६ १८ २७ २० ३० २८ २८ २० ०स्वा* वि* अ* ज्ये* मू* पू* उ* अ* श्न* ध* श* पू* उ* रे*६ १० १० ११ ०१९ १४ १९ १४ २० २५ २० २० २६ ०० ०विक्षेपा यथाअ* भ* कृ* रो* मृ* आ* पु* पु* आ* म* पू* उ* ह* चि*१० १२ १० ११ १२ १३ १३ ११० ३०उ ४५स्वा० वि० अ० ज्ये० मू० पू० उ० अ० श्र० ध० श० पू० उ० रे०३७ ६२ ३० ३६ २६ ०२० ४५ ३० २० २०उ २०सि० शि० ग्रहकक्षा अन्यविधा उक्ता यथा“सार्धाद्रिगोमनुसुराब्धिमितार्ककक्षा ४३३१४९७१/२चान्द्री सहस्रगुणिता जिनरामसंख्या ३२४००० अभ्रेष्वि-भाङ्कगजकुञ्जरगोऽक्षपक्षाः २५९८८९८५० कक्षां गृणन्तिगणका भगणस्य चेमाम्” सि० शि० शेषाणां ग्रहाणांकक्षाप्रमाणानि श्रीपतिनान्यथोक्तानि यथा “अष्ट्यङ्कषण्मनुगजाः ८१४६९१६ क्षितिनन्दनस्य ज्ञस्येशदन्तकृतखेन्दुमिता१०४३२११ सूरेः रूपाश्विनागयुगशैलगुणेन्दुवाणाः५१३७४८२१ खाग्न्यङ्गसागररसीत्कृतयः २६६४६३० सितस्य, भूधराहिमगनागरसर्तुक्ष्माधराश्विशशिनः १२७६६८७८७ ।शनिकक्षा” रव्यादीनां मन्दोच्चादिपरिधिमानसुक्तं सि० शि०“मन्दोच्चनीचपरिविस्त्रिलवोनशक्र १३ ४० भागा रवेर्जिन-कलोनरदा ३१ ३६ हिमांशोः खाश्वा ७० भुजङ्गदहना३८ अमरा ३३ भवाश्च ११ पूर्णेषवो ५० निगदिताः क्षिति-जादिकानाम्” सि० शि० “इह ग्रहभ्रमणोपपत्त्यर्थं मन्दो-च्चनोचवृत्तानि पूर्वैः कल्पितानि तेषां प्रमाणान्येता-बन्तो भागाः अत्रोपपत्तिः ग्रहस्य यन्त्रवेघविधिनायत् परमं फलमुत्पद्यते तस्य ज्या परमफलज्यान्त्य-फलज्या चोच्यते अन्त्यफलज्यातुल्यव्यासार्धेन यदृत्त-मुत्द्यते तन्नीचोच्चवृत्तम् तत्परिधिस्त्रैराशिकेन यदित्रिज्याव्यासार्धे भांशाः ३६० परिधिस्तदान्त्यफलज्या-व्यासार्धे किमिति लब्धं परिधिभागाः एवमर्कादीनांत्रिलवोनशक्रा इत्यादय उत्पद्यन्ते अथ भौमादीनांचलपरिधीनाह” प्रमि० सौरागमेण सूक्ष्मत्वान्नविरोधः ।“एषां चलाः कृतजिनास्त्रिलवेन हीना २४३ ४०दन्तेन्दवो १३२ वसुरसा ६८ वसुवाणदस्राः २५८ ।पूर्णाब्धयो ४० ऽथ भृगुजस्य तु मन्दकेन्द्रदोःशिञ्जिनीद्विगुणिता त्रिगुणेन ३४३८ भक्ता लब्धेन मन्दपरिधीरहितः स्फुटः स्यात् तच्छ्रीघ्रकेन्द्रभुजमौर्व्यथ वाणनिघ्नी ।उत्तरस्यां सप्तर्षिस्थानं ऋषिशब्दे १४५२ पृ० दर्शितंतेषां शतवर्षैरेकैकनक्षत्रभोगस्तत्र प्रमाणं वराहसंहितावाक्यं तत्रोक्तम् भचक्रञ्च द्वादशधा विभक्तमपि अश्वि-न्यादिभिः सप्तविंशतिनक्षत्रात्मकं तत्र त्रिभिस्त्रिभिर्नक्षत्रै-र्नव वीथयः वृह० सं० उक्ता यथा “नागगजैरावत-वृषभगोजरद्गवमृगाजदहनाख्याः अश्विन्याद्याः कैश्चित्त्रिभाः क्रमाद्वीथयः कथिताः
नागा तु पवनयाम्यानलानि पैतामहात्त्रिभास्तिस्रः गोवीथ्यामश्विन्यः पौष्णंद्वे चापि भाद्रपदे
जरद्गव्यां श्रवणात् त्रिभं मृगाख्यात्रिभं मैत्राद्यम् हस्तविशाखात्वाष्ट्राण्यजेत्यषाढाद्वयंदहना
तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्य-मार्गस्थाः तासामप्युत्तरमध्यदक्षिणावस्थितैकैका
वीथीमार्गानपरे कथयन्ति यथा स्थिता भमार्गस्य नक्ष-त्राणां तारायाम्योत्तरमध्यमास्तद्वत्
उत्तरमार्गो या-म्यादि निगदितो मध्यमस्तु भाग्याद्यः दक्षिणमार्गोऽषा-ढादि कैश्चिदेवं कृता मार्गाः”
भचक्रस्थग्रहाणां प्राग्गतिभेदकारणमुक्तं सू० सि० यथा“पश्चाद् व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः जीयमा-नास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः”
सू० सि० ।”“पश्चादनन्तरं पुनरावृत्त्या पश्चात् पश्चिमदिगभिमुखं नक्षत्रै-स्तारकादिभिः सह ग्रहाः सूर्य्यादयोऽतिजवात् प्रवहवायु-सत्वरगतिवशात् सततं निरन्तरं व्रजन्तो गच्छन्तः स्वमार्ग-गाः खकक्षावृत्तस्था जीयमाना नक्षत्रैः पराजिता नक्षत्रा-णामग्रे गमनात् अत एव लज्जयेव गुरुभूता इति तात्प-र्यार्थः तुल्यं समम् एवकारादधिकन्यूनव्यवच्छेदः ।लम्बन्ते स्वस्थानात् पूर्व्वस्मिन् लम्बायमाना भवन्ति यथालज्जितः पश्चाद्भवति नाग्रे तुकारादधोऽधः कक्षाक्रमा-नुरोधेन शन्यादिग्रहाणां चन्द्रान्तानां गुरुतापचयः शनि-रतिगुरुभूतस्तस्मात् किञ्चिन्न्यूनो गुरुस्तस्मादपि भौम इत्यादियथोत्तरम् यस्य कक्षा महती तस्य गुरुत्वाधिक्यं यस्यलघ्वी तस्य तदनुरोधेन गुरुताल्पत्वमिति एतदुक्तं भवति ।व्रह्मणा प्रवहवायौ नक्षत्राधिष्ठितो मूर्त्तो गोलः स्थापित-स्तदन्तर्गताः स्वस्वाकाशगोलस्थाः शन्यादयो नक्षत्राधिष्ठित-मूर्त्तगोलस्थक्रान्तिवृत्तस्थरेवतीयोगतारासन्नरूपमेषादिप्रदेश-समसूत्रस्थाः स्थापिताः क्रान्तिवृत्तं तु मेषतुलास्थाने-विषुवद्वृत्तलग्न सम्पातात् त्रिभान्तरितक्रान्तिवृत्तप्रदेशौ स्वा-सन्नविषुवद्वृत्तप्रदेशाभ्यां चतुर्बिशत्यंशान्तरेण दक्षिणोत्तरौमकरकर्कादिरूपौ तदेवं द्वादशराश्यात्मकं वृत्तं ग्रहचारभू-तम् विषुवद्बृत्तं तु ध्रुवमध्यस्थ निरक्षदेशोपरिगम् तत्रप्रवहवायुना स्वाघातेन मूर्त्तो नक्षत्रगोलो नाक्षत्रषष्टिघटी-भिः परिवर्त्यते तदन्तर्गतवायुभिस्तदाघातेन वा ग्रहाभ्रमन्तोऽपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषादिप्रदेशेन समंन गच्छन्ति वायूनां स्वल्पत्वात् तदाघातस्याप्यल्पत्वाद्वि-म्बानां गुरुत्वाच्च अतस्तत्स्थानाद्ग्रहाणां लम्बनंदृश्यते अत एव नक्षत्रोदयकाले तेषां द्वितीयदिनेनोदयः किन्तु ग्रहो लम्बितप्रदेशेन वायुना तदनन्तर-मूर्द्धमागच्छतीत्यनन्तरमुदयः लम्बनं तु शन्यादीनांकक्षानुरोधेन गुरुत्वाद्वायूनां तद्घातानां वा कक्षानुरोधेनबह्वल्पत्वात् तुल्यम् यद्यपि वायोर्ध्रुवानुरोधेन सत्त्वा-द्ग्रहावलम्बनं विषुवद्वृत्ते भवितुमुचितं क्रान्तिवृत्ते, तथा वक्ष्यमाणक्रान्त्यनुपपत्तिः क्रान्तिवृत्तस्थद्वादश-राशिभोगेन वक्ष्यमाणानां भगणानामनुपपत्तिश्च तथापिवायुनावलम्बितो ग्रहो विषुवन्मार्गगोऽपि तद्विषुवप्रदेशा-सन्नक्रान्तिवृत्तप्रदेशेन ग्रहाकाशगोल एव स्वसमसूत्रेणा-कृष्यत इति नानुपपत्तिः अत एव स्वमार्गगा इतिक्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षामार्गगता इत्यर्थक-मुक्तमिति सङ्क्षेपः अत एव ग्रहाणां लोके प्राग्गतित्वंसिद्धमित्याह” र० ना० ।“प्राग्गतित्वमतस्तेषां भगणैः प्रत्यह गतिः परिणा-हवशाद्भिन्ना तद्वशाद्भानि भुञ्जत सू० सि० “अतोऽवलम्बनादेव तेषां ग्रहाणां प्राग्गतित्वं प्राच्यां दिशिगतिर्येषां ते प्राग्गतयस्तद्भावः प्राग्गतित्वं सिद्धम् ।लम्बनस्वरूपैव ग्रहाणां पूर्वगतिरुपपन्ना लोकैः कारणा-नभिज्ञैः प्रत्यक्षावगततया तच्छक्तिजनिता कल्पितेत्यर्थः ।सा कियतीत्यत आह भगणैरिति
वक्ष्यमाणभग-णैः प्रत्थहं प्रतिदिनं गतिः प्राग्गमनरूपा भगणानांयदि गत्युपपन्नत्वाद्भगणसम्बन्धिवक्ष्यमाणदिनैः सूर्य्यसावनै-र्ग्रहभगणा लभ्यन्ते तदैकेन दिनेन केत्यनुपाताज्ज्ञेया ।ननु ग्रहभगणानां तुल्य त्वाभावात् प्रतिदिनं ग्रहगति-र्भिन्नेति पूर्वं लम्बनरूपा ग्रहगतिरयुक्तोक्ता ग्रहलम्बन-स्याभिन्नत्वादित्यत आह परिणाहवशादिति परि-णाहः कक्षापरिधिस्तद्वशात् तदनुरोधादियं ग्रहगति-र्भिन्नाऽतुल्या अयमभिप्रायः ग्रहाणां लम्बनंतुल्यप्रदेशे न, परन्तु स्वस्वकक्षायां तत्तत्प्रदेशे तुल्ये याःकलास्ता गतिकलास्तास्तु महति कक्षावृत्तेऽल्पा लघु-कक्षावृत्ते बह्व्यः सर्वकक्षापरिधीनां चक्रकलाङ्कितत्वात्भगणास्तु गतिवशादेव यस्य कक्षावृत्तं महत् तत्राल्पायस्य लघु कक्षावृत्तं तस्य बहवस्तदुपपन्ना गतिरपितथेति विरोधः नन्वेकरूपगतिं विहाय भिन्नरूपागतिः कथमङ्गीकृतेत्यत आह तद्वशादिति भिन्न-गतिवशाद्भानि राशीन् नक्षत्राणि भुञ्जते ग्रहा भुञ्जन्ती-त्यर्थः तथा ग्रहराश्यादिभोगज्ञानार्थमियमेवगतिरुपयुक्ता नैकरूपेति भावः अथ भभोगे विशेषंवदन् वक्ष्यमाणभगणस्वरूपमाह” र० ना० “शीघ्रगस्ता-न्यथाल्पेन कालेन महताल्पगः तेषां तु परिवर्त्तेनपौष्णान्ते मगणः स्मृतः” सू० सि० “अथशब्दः पूर्वोक्तविशेषसूचकः शीघ्रगतिग्रहस्तानि भान्यल्पेन कालेनभुनक्त्यल्पगतिर्ग्रहो बहुकालेन भुनक्ति तुल्यराश्यादि-भोगो मन्दशीघ्रगतिग्रहयोस्तुल्य कालेत भवतीतिविशेषार्थः तेषां राशीनां परिवर्त्तेन भ्रमणेन तुका-राद्ग्रहादिगतिभोगजनितेन भगणः प्राज्ञैरुक्तः क्रा-न्तिवृत्ते द्वादशराशीनां सत्त्वात् तद्भोगेन चक्रभोगसमा-प्तेर्यत् स्थानमारभ्य चलितो ग्रहः पुनस्तत् स्थानमायातिस चक्रभोगः परिवर्त्तसञ्ज्ञोऽपि द्वादशराशिभोगाद्भगणइत्यर्थः ननु क्रान्तिवृन्ते सर्वप्रदेशेभ्यः परिवर्त्तसम्भवा-दत्र कः परिवर्त्तादिभूतः प्रदेश इत्यत आह पौष्णान्तइति सृष्ट्यादौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगताराऽऽ-सन्नप्रदेशे सर्वग्रहाणां निवेशितत्वात् तदवधितो ग्रहचल-नाच्च पौष्णस्य रेवतीयोगताराया अन्ते निकटे पदेशेतथा रेवतीयोगतारामन्नाग्रिमस्थानमेवाद्यन्तावधि-भूतमिति भावः” र० ना० ।सूर्य्यादिग्रहाणां महायुगे भगणमानप्युक्तं तत्रैव ।“युगे सूर्य्यज्ञशुक्राणां खचतुष्करदार्णवाः कुजा-र्किगुरुशीघ्राणां भगणाः पूर्वयायिताम्” सू० सि० “महा-युगे ४३२०००० वर्षे सर्थ्यबुधशुक्राणां खानां चतुष्कमेक-स्थानादिसहस्रस्थानान्तचतुःस्थानस्थितानि शून्यानि ततो-ऽयुतादिप्रयुतस्थानपर्य्यन्तं दन्तसमुद्रास्तथा युगे सौर-वर्षाणि खाभ्रखाम्रद्विरामवेदमितानि ४३२०००० भगणाद्वादशराशिभोगात्मकपरिवर्त्तानां सङ्ख्या भवन्तीति शेषः ।भौमशनिवृहस्पतीनां यानि शीघ्राणि शीघ्रोच्चानि तेषामेतन्मिता भगणाः चकारः समुच्चयार्थकोऽनुसन्धेयः अत्रकक्षाक्रमेण चारक्रमेण वा गुरोः खलु मध्यगता भवतीतिन तथोद्देशः स्वतन्त्रस्य नियोगानर्हत्वाद्वा नन्वाकाशएषां विम्बाभावादवलम्बनासम्भवेन गत्यभावात् कथं भ-गणा उक्ता इत्यत आह पूर्वयायिन मिति पूर्व्वगा-मिणाम् तथा तेषामदृश्यरूपाणां पूर्व्वगतिसद्भावाद्भ-गणोक्तौ क्षतिः एषां स्वरूपादिनिर्णयस्तु स्पष्टा-धिकारे प्रतिपादयिष्वते अथ चन्द्रभौमयोर्भगणा-नाह” र० ना० “इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु” सू०सि० “पूर्वश्लोकोक्तभगणा इत्यत्राग्रिमश्लोकेष्वप्यन्वेति ।भूधराः सप्त तु पर्वतस्य धराभिधानत्वादेकसप्ततिःमार्गणाः शरास्तथा चन्द्रस्य भगणाः षडग्निदेवपञ्च-सप्तसप्तपञ्चमिताः ५७७५३३३६ भौमस्य तुकारादाकाशस्थ-विम्बात्मकस्येति पुनरुक्तिभ्रमवारणार्थं दन्ताष्टषडाकृति-मिताः २५६८३२ अथ बुधशीघ्रोच्चगुर्योर्भगणानाह” र० ना० ।“बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः वृहस्पतेःखदस्राक्षिवेदषड्बह्नयस्तथा” सू० सि० “वुधशीघ्रोच्चस्या-दृश्यरूपस्य पूर्वगतेर्भगणाः षष्टिसप्ततित्र्यङ्कात्यष्टिमिताः१७९३७०६० वृहस्पतेस्तथा बिम्बात्मकस्येति पुनरुक्तिभ्रम-वारणाय नखद्विवेदषड्राममिताः ३६४२२० अथ शुक्र-शीघ्रोच्चशन्यार्भगणानाह” र० ना० “सितशीघ्रस्यषट्सप्तत्रियमाश्विखमूधराः शनेर्भुजङ्गषट्पञ्चरसवेदनिशा-कराः” सू० सि० “शुक्रशीघ्रोच्चस्यादृश्यरूपस्य पूर्वगते-र्भगणाः षट्सप्तत्रिद्विद्विखसप्त ७०२२३७६ एतेन भूधराइत्यस्यैकसप्ततिरेकादश वार्थो निरस्तः शवेर्विम्बात्मक-स्याष्टषट्पञ्चरसेन्द्रमिताः १४६५६८ अथ चन्द्रस्योच्चपातयो-र्भगणानाह” र० ना० “चन्द्रोच्चस्याग्निशून्याश्विवसु-सर्पार्णवा युगे वामं पातस्य वस्वग्नियमाश्विशिखिद-स्रकाः” सू० सि० “चन्द्रमन्दोच्चस्य पूर्व्वगतेरदृश्यरूपस्यभगणा महायुगे रामनखाष्टाष्टवेदमिताः ४८८२०३ ।भातस्य चन्द्रशब्दस्य सन्निहितत्वाच्चन्द्रपातस्यादृस्य-रूपस्य वामं पश्चिमगत्या द्वादशराशिभोगात्मकपरि-वर्त्तरूपभगणा महायुगे अष्टरामाकृ तरामद्विमिताः २३२२३८अत्र युगग्रहणं वक्ष्यमाणग्रहोच्चपातभगणसम्बन्धिकल्प-वारणार्थम् ग्रहोच्चपातभगणास्तु युगे युगे नोत्पन्नाइत्यस्मिन् युगसम्ब न्धप्रसङ्गेनोक्ताः मन्दोच्चपातस्वरू-पादिनिर्णयस्तु स्पष्टाधिकारे व्यक्तो भविष्यति” अथ युगेनाक्षत्रदिवसांस्तत्स्वरूपावगमाय ग्रहसावनदितस्वरूपंस्वसङ्ख्याज्ञानहेतुकं चाह” र० ना०
“भानामष्टाक्षि-वस्वद्रित्रिद्विद्व्यष्टशरेन्दवः भोदया भगणैः स्वैः स्वैरूनाःस्वस्वोदया युगे” सू० सि० “भानां नक्षत्राणां स्वतोगत्यभावेऽपि प्रवहवायुना परिभ्रमणात् तत्सङ्ख्यातुल्याभगणाः स्वदिनतुल्याः अत एवात्र बाममिति पूर्वो-क्तस्य युक्तोऽन्वयः अष्टद्व्यष्टनगाग्निजातिगजतिथि-मिताः १५८२२३७८२८ ननु ग्रहाणामपि प्रवहवायुनापरिभ्रमणनोदयसद्भावात् तेषां दिवसाः कथं ज्ञेया इत्यतआह भोदया इति उदयन्त्यस्मिन्नहनि स्वाद्यन्ता-वधिरूप इति व्युत्पत्त्योदयशब्देन दिनम् तथा भोदयानक्षत्रदिसा एते उक्ताः स्वैः स्वैः स्वकीयैः स्वकीयैर्भ-गणैः प्रागुक्तैर्वर्जिताः सन्तः स्वस्वोदया भिजनिजसावन-दिवसा युगे भवन्ति युग इत्यनेनाभीष्टकाले नाक्षत्रदि-वसा ग्रहगतभोगादिना भगणादिनोना ग्रहसावनदिवसाअभीष्टा भवन्ति परन्तु राशीन् पञ्चगुणितानंशादिकंदशगुणितं कृत्वा घट्यादिस्थाने होनं कार्य्यमन्यथाविजातीयत्वादन्तरानुपपत्तेरिति सूचितम् अत्रोपपत्तिःयदि ग्रहाणां प्राग्गमनावलम्बनं स्यात् तर्हि ग्रहो-दयनक्षत्रोदययोरेकहेतुकत्वान्नाक्षत्रसावनदिवसयोरभेदःस्यात्अतो ग्रहाणां लम्बनेन नाक्षत्रादिदिवसेभ्यः सावनादि-दिवसानामन्तरितत्वादवलम्बनजभगणान्तरेण युगे नाक्ष-त्रदिवसेभ्यो ग्रहसावनदिवसा न्यूना भवन्ति प्रवहेणभगणतुल्यपश्चिमग्रहतुख्यानामकरणादिब्धुपपन्नं भोदयाइत्यादि! अनेनैव भगणसाषनभोगो नाक्षत्रदिवसाइत्यव्यर्थसिद्वम्” र० ना० महायुगे चान्द्रा दमासदिन-संख्यां तत्रोक्ता यथा“भवन्ति शशिनी मासाः सूर्य्येन्द भगणान्तरम् रवि-मासोनितास्ते तु शेषाः स्युरधिमासकाः” सू० ति० “सूर्य-चन्द्रभगणयोरन्तरं चन्द्रस्य मासा मवन्ति ते चान्द्रतासारविमासोनिताः अत्र प्रथमं तुकारान्वयाद्द्वादश-गुणितरविभगणरूपपक्ष्यसाणार्कमासैहृनिताः सतः शेषाअवशिष्टा ये चान्द्रमासास्तेऽधिमासा एव भवन्ति नान्ये ।अनेन चान्द्रत्वमधिमासानां स्पष्टीकृतम् अत्रोपपत्तिः ।त्रिंशत्तिथ्यात्मकस्य रवीन्दुयुतिकालरूपदर्शान्तावधेश्चान्द्र-मासस्य द्वादशराशिमितेन सूर्य्येन्द्वन्तरेणैव सिद्धिः ।कथमन्यथा दर्शान्ते मन्दशीघ्रयोः सूर्येन्द्वोर्योगस्यपुनर्दर्शान्ते सम्भवः द्वादशराश्यन्तरं त्वेकं भगणान्तर-मतो भगणान्तरेण चान्द्रो मासः सिद्धः सौरमासा-पेक्षया यदन्तरेण चान्द्रमासानामधिकत्वं एवाधिमासाइति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम् अथवक्ष्यमाणावमसूर्यसावनयोः स्वरूपमाह” र० ना० ।“सावनाहानि चान्देभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः ।उदयादोदयं भानोर्भूमिसावनवासराः” चान्द्रेभ्यो द्युभ्योवक्ष्यमाणचान्द्रदिवसेभ्यः सकाशादित्यर्थः सावनाहानिसावनदिनानि प्रोज्झ्य त्यक्त्वावशेषं निथिक्षयाः तिथिषुचान्द्रदिनेषु सावनदिनानामवशेषतुल्यः क्षयो न्यूनत्वम् ।यद्वा तिथिशब्देन सावनो दिवसस्तस्य चान्द्रदिवसात्क्षय इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम् ।ननु भोदया भगणैरित्यादिना पूर्वं सर्वेषां सावनदिवसाउक्ता इत्यत्र कस्य ग्राह्या इत्यतः सूर्य्यसावनस्वरूपकथन-च्छलेनोत्तरमाह उदयादिति सूर्य्यस्योदयकाल-मारभ्याव्यवहिततदुदयकालपर्य्यन्तं यः काद्धः एको-दिवसः इति ये दिवसास्ते भूमिसावनवासराः ।भूदिवसा उदयस्य भूसम्बन्धेनावगमात् सावनादिवसा-श्चेत्यर्थः तथा निरुपपदसावनभूमिशब्दाभ्यां सूर्यस्यवासरा एव नान्येषां सोपपदत्वाभावादिति भावः तेकियन्त इत्यतस्तत्प्रमाणं चान्द्रदिनप्रमाणं चाह” र० ना०“वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे चान्द्राः खा-ष्टखखव्योमखाग्निखर्तुनिशाकराः” सू० “अष्टाश्वि-गजसप्तपञ्चभूमिता युगे सूर्य्यसावनदिवसाः चान्द्रादिवसा युगतिथय इत्यर्थः अशीतिशून्यचतुष्कत्रिख-नृपा एते त्रिंशद्भक्ताश्चान्द्रमासा उक्तप्रायाः अनेनैवचान्द्रदिवसानामुपपत्तिः सूर्य्यचन्द्रयोर्भगणयोरन्तररूप-चान्द्रमासास्त्रिंशद्गुणिता इति स्पष्टीकृता अथाधि-मासावमयोः सङ्ख्यामाह” र० ना० “षड्वह्नित्रिहुता-शाङ्कतिथयश्चाधिमासकाः तिथिक्षया यमार्थाश्विद्व्यष्ट-व्योमशराश्विनः” सू० “अधिमासकाः प्रागुक्तस्वरूपा-श्चकाराद्युगे षड्देवरामगोशरेन्दुमितास्तिथिक्षया दिन-क्षया अवमानीत्यर्थः अर्थाः पञ्च एवं द्विशराकृत्य-ष्टखतत्त्वानि ननु सूर्य्यमासानुक्तेरधिमाससङ्ख्या कथंज्ञातेत्यतो रविमाससङ्ख्यां स्वरूपेण क्वहांश्चाह” र० ना० ।“खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः भवन्ति भो-दयाभानुभगणैरूनिताः क्वहाः” सू० “सूर्य्यमासाद्वादशगुणितरविभगणानुरूपाः शून्यखाभ्रखसेदधृतिशर-मिताः ननु सावनदिवससङ्ख्या प्रागुक्ता कथमवगते-त्याह भवन्तीति भोदया नाक्षत्रदिवसाः प्रागुक्तासूर्य्यभगणैः प्रागुक्तैर्वर्जिताः सन्तः क्वहा भूवासराभवन्ति भोदया इत्यादिप्रागुक्तेः ।ननु सूर्य्यादिमन्दोच्चभौमादिपातानां युगे भगणानुत्पत्तेःकल्पभगणकथनमावश्यकमतस्तत्पङ्क्त्यां प्रागुक्ता एतेभगणादयः कल्प एव थं नोक्ता इत्यत आह” र० ना० ।“प्राग्गतेः सूर्य्यमन्दस्य कल्पे सप्ताष्टवह्नयः कौजस्यवेदखयमा बौधस्याष्टर्तुवह्नयः खखरन्ध्राणि जैवस्यशौक्रस्यार्थगुणेषयः गोऽग्नयः शनिमन्दस्य पातानामथवामतः” सू० सि० प्राग्गतेः कल्प इत्यनयोः शनि-मन्दान्तं प्रत्येकं सम्बन्धः पूर्व्वगतेः सूर्य्यमन्दोच्चस्यकल्पे सप्ताष्टराममिताः ३८७ शनिपातस्य भगणा इतिवक्ष्यमाणस्यभगणा इति पदमत्र प्रत्येकमन्वेति कौजस्यकुजसम्बन्धिनः सूर्य्यमन्दस्येत्यस्यैकदेशो मन्दस्येति म-न्दोच्चस्येत्यर्थकमत्रान्वेति तथा भौममन्दोच्चस्यचतुरधिकं शयद्वयम् २०४ बौधस्य बुधमन्दोच्चस्याष्टषटत्रि-भिताः ३६८ जैवस्य गुरुसम्बन्धिनः अत्र शनिमन्दस्येतिवक्ष्यमाणस्यैकदेशो मन्दस्येति मन्दोच्चस्येत्यर्थकमन्वेत्ये-कवृत्तस्थत्वात् यद्वाद्यन्तयोर्मन्दस्येत्युक्त्यैव मध्यस्थाना-मन्वयः सूपपन्न इति तथा गुरुमन्दोच्चस्य नवशतं ९००शौक्रस्य शुक्रमन्दोच्चस्य पञ्चत्रिंशदधिकपञ्चशतं ५३५ शनि-मन्दोच्चस्यैकोनचत्वारिंशत् ३९ अथानन्तरं पातानांभौम दिपातानां वामतः पश्चिमगत्या भगणा उच्यन्त इतिशेंषः तान् श्लोकाभ्यामाह” र० ना० “मनुदस्रास्तुकौजस्य बौधस्याष्टाष्टसागराः कृताद्रिचन्द्रा जैवस्यत्रिखाङ्काश्च भृगोस्तथा शनिपातस्य भगणाः कल्पेयमरसर्त्तवः भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः” ।सू० सि० “कुजसम्बन्धिनः तुकारात् पातस्य भौ-मपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्वयम् २१४ ।बौधस्य बुधसम्बन्धिनः शनिपातस्येत्यस्यैकदेशः पातस्येत्य-त्रान्वेति बुधपातस्य द्वादशोना पञ्चशती ४८८ जैवस्यगुरुपातस्य चतुःसप्तत्यधिकं शतम् १७४ भृगोः शुक्रस्यतथा सम्बन्धिनश्चकारात् पातस्य शुक्रपातस्येत्यर्थः त्र्य-धिका नवशती ९०३ शनिपातस्य द्विरसषट्का ६६२ भगणाःकल्पे भवन्ति नन्वस्मिन् प्रसङ्गे चन्द्रस्योच्चपातयोर्भगणाःकथं नोक्ता इति मन्दाशङ्कापाकरणाय पूर्वोक्तं स्मारयति ।भगणा इति चन्द्रोच्चपातयोश्चन्द्र मन्दोच्चपातयोर्भगणा अत्रास्मिन्नधिकारे पूर्वं ग्रहयुगभगणकथने एवकारो विस्मरणनिरासार्थकः “प्रोक्ताश्चन्द्रोच्चस्येत्थादिश्लोकेनोक्ताः” र० ना० ।कुजादिकक्षाणां भूमिसध्यत उच्छ्रितिः श्रीपतिनोक्ता यथाभौमस्य गोकुरसषण्णवसूर्यसंख्या १२९६३१९ दन्ताभ्रषण्-णृपमिता १६६०३२ श्रुतिरिन्द्रुजस्य पूज्यस्य नागगुण-पञ्चरसाद्रिभूमि नागाश्च ८१७६५३८ सर्पगजखाब्धिय-माब्धयोऽथ ४२४०८८ शुक्रस्य, सूर्यतनयस्य कुसप्तखाङ्कभूत्र्यभ्रदस्रमित २०३१९०७१ योजनकर्ण एवम् नागाक्ष-षड्रामरसाग्निकुवेदसंख्यो ४१३६२६५८ नक्षत्रमण्डलभवःश्रवणो निरुक्तः” सि० शि० विशेष उक्तः ।“सृष्ट्वा भचक्रं कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः ।शश्वद्भ्रमे विश्वसृजा नियुक्तं तदन्ततारे तथाध्रुवत्वे ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीघ्र-तरे भ्रमत्यपि तदल्पगत्येन्द्रदिशं नभश्चराश्चरन्तिनीचोच्चतरात्मवर्त्मसु” मू० “यदेतद्भचक्रं ग्रहैः सहभ्रमद्दृश्यते तद्विश्वसृजा जगदुत्पादकेन कमलोद्भवेनघ्रह्मणा सृष्ट्यादौ सृष्ट्वा ततः शश्वद्भ्रमेऽनवरतभ्रमणेनियुक्तम् एतदुक्तं भवति भान्यश्विन्यादीन्यन्यानिविशिष्टानि ज्योतींषि तेषां समूहश्चक्रं ग्रहाश्च सूर्य्या-दयस्तैः सह सृष्टम् तानि भानि प्राक् संस्थया सम-न्तान्निवेशितानि ग्रहास्तु भगणादावश्विनीमुखे निवे-शितास्त उपर्य्युपरि संस्थया तत्रादौ तावदधश्चन्द्रः ।तदुपरि धुः ततः शुक्रः ततो रविः तस्मा-द्भौमः ततो गुरुः ततः शनिः सर्वेषामुपरिदूरे भचक्रम् एषां कक्षाप्रमाणानि कक्षाध्याये प्रति-पादयिष्यन्ते अहो यद्यूर्ध्वोर्ध्वस्था ग्रहास्तदुपरिदूरतो भगणस्तत् कथं भगणादिसंस्थैर्ग्रहैरित्युच्यते ।सत्यम् अत्र भूमध्ये सत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रंभचक्रेऽश्विनीमुखे किल निबद्धम् तस्मिन् सूत्रे प्रोतामणय इव चन्द्रादयो ग्रहाः सृष्ट्यादौ ब्रह्मणा निवे-शिताः भूमण्डलं द्वादशधा विभज्यैवं भूमध्यात्सूत्राणि प्रतिभागं नीत्वा किल बद्धानि तैः सूत्रैः सहग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः ।तद्वत्प्रकारा राशय इति सङ्क्षिप्तमिहोक्तम् कक्षाध्यायेगोले किञ्चिद्विस्तीर्य वक्ष्यामः एवंविधं भचक्रसृष्ट्वा व्रह्मणा गगने निवेशितम् यत्र निवेशितं तत्रप्रवहो नाम वायुः नित्यं प्रत्यग्गतिः तेनसमाहतं भचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृत्तम् ।यत् तस्य प्रत्यग्भ्रमणं तच्छीघ्रतरम् यत एकेनाह्नाभमण्डलस्य परिवर्त्तः एवं तस्मिन् भपञ्जरे सखेचरेशीघ्रतरे भ्रमत्यपि खेचरा इन्द्रदिशं चरन्ति पूर्वाभिमुखंव्रजन्ति नीचोच्चतरात्मवर्त्मसु अनन्तरकथितेषु स्वस्व-मार्गेषु तेषां प्राग्भ्रमणम् तत् तदल्पगत्या प्रत्यग्-गतेर्बहुत्वात् प्रागल्पगत्या व्रजन्तो नीपलक्ष्यन्ते इतिभावः तथा तस्य भपञ्जरस्य यौ दक्षिणोत्तराबन्तौतत्र ये तारे ते ध्रुवत्वे नियुक्ते” प्रमिता० सि० शि०ग्रहाणां केषां चित् कल्पेभगणा अन्यथोक्ता यथा ।“अर्कशुक्रबुधपर्यया विधेरह्नि कोटिगुणिता रदाब्धयः४३२००००००० एत एव शनिजीवभूभुवां कीर्त्तिताश्चगणकैश्चलोच्चजाः खाभ्रखाभ्रगगनामरेन्द्रियक्ष्माधरा-द्रिविषया ५७७५३३००००० हिमद्युतेः युग्मयुग्म-शरनागलोचनव्यालषण्णवयमाऽश्विनो २२९६८२८५२२ऽसृजः सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो१७९३६९९८९८४ ज्ञशीघ्रजाः पञ्चपञ्चयुगषट्कलोचन-द्व्यब्धिषड्गुणमिता ३६४२२६४५५ गुरोर्मताः द्विनन्द-वेदाङ्कगजाग्निलोचनद्विशून्यशैलाः ७०२२३८९४९२ सित-शीघ्रपर्ययाः भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवः१४६५६७२९८ सूर्यसुतस्य पर्ययाः खाष्टाब्धयो ४८०ऽष्टाक्षगजेषुदिग्द्विपद्विपाब्धयो ४८८१०५८५८ द्व्यङ्कयमा२९२ रदाग्नयः ३३२ शरेष्विभा ८५५ स्त्र्यक्षरसाः६५३ कुसागराः ४१ स्युः पूर्वगत्या तरणेर्मृदूच्चजाः ।गजाष्टिभर्गत्रिरदाश्विनः २३२३१११६८ कुभृद्रसाश्विनः२६७ कुद्विशराः ५२१ क्रमर्त्तबः ६३ त्रिनन्दनागा८९३ युगकुञ्जरेषवो ५८४ निशाकराद्व्यस्तगपातपर्ययाः” मू० ।ग्रहाणां पूर्वगत्या गच्छतां कल्प एतावन्तो भगणा भ-वन्ति तथा मन्दोच्चानां चलोच्चानां प्राग्गत्या एता-वन्तः पर्यया भवन्ति तथा पातानां पश्चिमगत्या एता-वग्तो भवस्ति अत्रोपपत्तिः सा तु तत्तद्भाषाकुशलेनतत्तत्क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव श्रोतुं शक्यते नान्येन ।ग्रहमन्दशीघ्रोच्चपाताः स्वस्वमार्गेषु गच्छन्तः एतावन्तःपर्ययान् कल्पे कुर्वन्तीत्यत्रागम एव प्रमाणम् सचागमो महता कालेन लेखकाध्यापकाध्येतृदोषैर्बहुधाजातस्तदा कतमस्य प्रमापयम् अथ यद्येवमुच्यत गणि-तस्कन्ध उपपत्तिमानेव गमः प्रमाणम् उपपत्त्या येसिध्यन्ति भगणास्ते ग्राह्याः तदपि यतीऽति-प्राज्ञेन पुरुषेणोपपत्तिर्ज्ञातुमेव शक्यते तया तेषांभगणानामियत्ता कर्त्तुं शक्यते पुरुषायुषोऽल्पत्वात् ।उपपत्तौ तु ग्रहः प्रत्यहं यन्त्रेण वेध्यः भगणान्तंयावत् एवं शनैश्चरस्य तावत्वर्षाणां त्रिंशता भगणःपूर्यते मन्दोच्चानां तु वर्षशतैरनेकैः अतो नायमर्थःपुरुषसाध्य इति अत एवातिप्राज्ञा गणकाः साम्प्रतो-पलब्ध्यनुसारिणं प्रौढगणकस्वीकृतं कमप्यागममङ्गीकृत्यग्रहगणित आत्मनो गणितगोलयोर्निरतिशयं कौशलंदर्शयितुं तथान्यैर्भ्रान्तिज्ञानेनान्यथोदितानर्थांश्च निरा-कर्तुमन्यान् ग्रन्थान् रचयन्ति ग्रहगणित इति कर्त-व्यतायामस्माभिः कौशलं दर्शनीयं भवत्वागमो योऽपिकोऽप्ययमाशयस्तेषाम् यथात्र ग्रन्थे ब्रह्मगुप्तस्वीकृता-गमोऽङ्गीकृत इति तर्हि तिष्ठतु तावदुपपत्त्या भग-खानामियत्तासाधनम् अथ यद्युपपत्तिरुच्यते तर्हिंइतरेतराश्रयदोषशङ्कया यक्तुमशक्या तथापि संक्षिप्ता-मुपपत्तिं वक्ष्यामः इतरेतराश्रयदोषोऽत्र दोषाभासः ।उपपत्तिभेदानां यौगपद्येन वक्तुमशकत्वात् अथोच्यतेअर्कशुक्रबुधपर्यया विधेरित्यादि यावन्ति कल्पे वर्षाणितावन्त एव सूर्यभगणा इत्युपपन्नम् यतो भगणभोग-कालो हि वर्षमुक्तम् बुधशुक्रौ तु रवेरासन्नावेवकदाचिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविव सदाव्रजन्तौ दृश्येते अतस्तयोरपि रविभगणतुल्या भगणाइत्युपपन्नम् चलोच्चभगणोपपत्तिमग्रे वक्ष्यामः अथसमायां भूमावभीष्टकर्कटकेन त्रिज्यामिताङ्कैरङ्कितेनवृत्तं दिगङ्कितं भगणांशैश्चाङ्कितं कृत्वा तत्र प्राचीचिह्ना-द्दक्षिणतो नातिदूरे प्रदेश उत्तरेऽयने वृत्तमध्यस्थितेनकीलेन रवेरुदयो वेध्यः ततोऽन्तरं वर्षमेकं रव्युदयागणनीयाः ते पञ्चषष्ट्यधिकशतत्रय ३६५ तुल्याभवन्ति तत्रान्तिमोदयः पूर्वोदयस्थानादासन्नो दक्षिणतएव भवति तयोरन्तरं विगणय्य ग्राह्यम् ततोऽन्य-स्मिन् दिने पुनरुदयो वेध्यः तु पूर्वचिह्नादुत्तरतएव भवति तदप्युत्तरमन्तरं ग्राह्यम् ततोऽनुपातः ।यद्यन्तरद्वितयकलाभिरेकीकृताभिः षष्टि ६० घटिकाकभ्यन्ते तदा दक्षिणेनान्तरेण किमिति अत्र लभ्यन्तेपञ्चदश घटिकास्त्रिंशत् पलानि सार्धानि द्वाविंशतिर्विप-लानि १५ ३० २२ ३० आभिर्घटीभिः सहि-तानि पञ्चषष्ट्यधिकशतत्रयतुल्यानि सावनदिनान्येकखिन्रव्यब्दे भवन्त ३६५ १५ ३० २२ ३० ततोऽ-नुपातः यद्येकेन वर्षेणैतावन्ति कुदिनानि तदा कल्प-वर्षैः किमिति एवं ये लभ्यन्ते ते सावनदिवसा भवन्तिकल्पे अथ यदि तैरेव रवेर्वर्षान्तःपातिभिः कुदिनैश्चक्रकलालभ्यन्ते तदैकेन किमिति फलं मध्यमा रविगतिरित्यु-पपन्नम् अथ चन्द्रभगणोपपत्तिः तत्रादौ तावद्ग्रहवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रंकार्यम् तत्र खगोलस्यान्तर्भगोल आधारवृत्तद्बयस्यो-परि विषुवद्वृत्तम् तत्र यथोक्तं क्रान्तिवृत्तं भग-णांशाङ्कितं बध्वा कदम्बद्वयकीलकयोः प्रोतमन्यच्चलंग्रहवेधवलयम् तच्च भगणांशाङ्कितं कार्यम् ततस्तद्गोलयन्त्रं सम्यग ध्रुवामिमुखयष्टिकं जलसमक्षितिज-वलयं यथा भवति तथा अन्तरं कृत्वा रात्रौ गोल-मध्यचिह्नगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्तिवृत्तेयो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगतयैवदृष्ट्या चन्द्रं विलोक्य तद्वेधवलयं चन्द्रोपरि निवेश्यम् ।एवं कृते सति वेधवृत्तस्य क्रान्तिवृत्तस्य यः संपातस्तस्यमीनान्तस्य यावदन्तरं तस्मिन् काले तावान् स्फुट-श्चन्द्रो वेदितव्यः कान्तिवृत्तस्य चन्द्रविम्बमध्यस्य चवेधवृत्ते यावदन्तरं तावांस्तस्य विक्षेपः ततो यावतीषुरात्रिगतघटिकासु वेधः कृतस्तावतीष्वेव पुनर्द्वितीयदिनेकर्तव्यः एवं द्वितीय दने स्फुटचन्द्रं ज्ञात्वा तयोर्यद-न्तरं सा तद्दिने स्फुटा गतिः अथ तौ चन्द्रौ “स्फुट-ग्रहं मध्यखगं प्रकल्प्येत्यादिना” मध मौ कृत्वा तयोरन्तरंया मध्यमा चन्द्रग तः तयाऽनुपातः यद्येकेन दिने-नैतावती चन्द्रगतिस्तदा कुदिनैः किमित्येवं चन्द्रभगणाउत्पद्यन्ते तथा चाह श्रोमान् ब्रह्मगुप्तः “ज्ञातंकृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः त्रैराशि-केन भुक्त्या कल्पग्रहमण्डलानयनम्”
ऐवमन्येषामपिभगणोपपत्तिः अथ चन्द्रेक्षस्य एवं प्रत्यहं चन्द्र-वेधं कृत्वा स्फुटगतयो विलेक्याः यस्मिन् दिने गतेःपरमाल्पत्वं दृष्टं तत्र दिने मध्यम एव स्फुटश्चन्द्रोभवति तदेवोच्चस्थानम् यत उच्चसमे ग्रहे फलाभावोगतेश्च परमाल्पत्वम् ततश्च तस्माद्दिनादारभ्यान्यस्मिं-श्चन्द्रपर्यये प्रत्यहं चन्द्रवेवात् तथैवोच्चस्थानं ज्ञेयम् तच्चपूर्वस्थानादग्रत एव भवति यत् तयोरन्तरं तज्ज्ञात्वा-ऽनुपातः क्रियते यद्येतावद्भिरन्तरदिनैरिदमुच्चयोरन्तरंलभ्यते तदैकेन किमिति फलं तुङ्गगतिः तयानु-पातात् कल्पभगणाः अथ चन्द्रपातभगणोपपत्तिः ।एव प्रत्यहं चन्द्रवेधाद्दक्षिणविक्षेपे क्षीयमाणे यस्मिन्दिने विक्षेपाभावो दृष्टः क्रान्तिवृत्ते तत् स्थानं चिह्नयित्वातत्र यावान् विधुः भगणाच्छुद्धः पातः स्यादितिज्ञेयम् पुनरन्यस्मिन्नपि पर्यये दक्षिणविक्षेपाभावस्थानंज्ञेयम् क्रान्तिवृत्ते तत् स्थानं पूर्वस्थानात् पश्चिमत एवभवति अतो ज्ञाता पातस्य विलोमा गतिः साचानुपातात् यद्येतत्कालान्तरदिनैरेतावत् पातयोरन्तरंलभ्यते तदैकेन किमिति फलं पातगतिः तयाप्राग्वत् कल्पभगणाः अथ रवितुङ्गोपपत्तिः मिथु-नान्ते रवौ कस्मिंश्चिद्दिने रेवतीतारकोदयाद्यावतीभि-र्घटिकाभीरविरुदितस्तावतीभिर्मीनान्ताल्लग्नं साध्यम् ।यल्लग्नं तदा स्फुटो रविर्ज्ञेयः एवमन्यस्मिन् दिने-ऽपि तयोः स्फुटार्कयोरन्तरं स्फुटा गतिः एवंप्रत्यहं स्फुटगतयो ज्ञातव्याः यस्मिन् दिने गतेःपरमाल्पत्वं तद्दिने यावान् रविस्तावदेव रवेरुच्चं भवति ।तस्योच्चस्य चलनं वर्षशतेनापि नोपलक्ष्यते किन्त्वाचार्यै-श्चन्द्रमन्दोच्चवदनुमानात् कल्पिता गतिः सा चैवम्यैर्भगणैः साम्प्रताहर्गणाद्वर्षगणाद्वा एतावदुच्चं भवतिते भगणा युक्त्या कुट्टकेन वा कल्पिताः अथान्येषांशीघ्रोच्चोपपत्तिः तत्र “एत एव शनिजीवभूभुवामि-त्यादि” उच्चो ह्याकर्षकी भवति तेन स्वकक्षामण्डलेभ्रमन् ग्रहः स्वाभिमुखमाकृष्यते तेनाकृष्टः सन् कक्षा-मण्डले मध्यग्रहादग्रतः पृष्ठतो वा यावतान्तरेण दृश्यतेतावत् तस्य फलं भान्द्यं शैघ्य्रं वा अहो उच्चो नामप्रदेशविशेषस्तेन कथमाकृष्यते? अतस्तस्य देवतारूपत्वमुक्तंसूर्यसिद्धान्ते “अदृश्यरूपाः कालस्य मूर्तयो भगणा-श्रिताः शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ।तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः प्राक्पश्चादपकृष्यन्ते यथासन्नं स्वदिङ्मुखम्” इत्यादि ।एवमत्रोच्चस्य देवताविशेषत्वेनाङ्गीकृतत्वाददोषः एतदुक्तंभवति शनेर्जीवात् कुजाद्वा यदा रविरग्रे वर्त्तते तदामध्यग्रहात् स्फुटग्रहोऽग्रतो दृश्यते यदा तु पृष्ठ-गतोऽर्कस्तदा मध्यात् स्फुटग्रहः पृष्ठतो दृश्यते अत-स्तेषां त्रयाणां रविसमं शीघ्रोच्चं धीरैः कल्पितम् ।अतो रविभगणतुल्याः शीघ्रोच्चभगणा इत्युपपन्नम् ।अथ मन्दोच्चोपपत्तिः तत्र वेधेन स्फुटग्रहं ज्ञात्वा तंमन्दस्फुटं प्रकल्प्य ततः शीघ्रफलमानीय तत् तस्मिन्स्फुटे विलोमं कृत्वैवमसकृन्मन्दस्फुटो ज्ञेयः एवंप्रत्यहं मन्दस्फुटमुपलक्ष्य मन्दस्फुटो धनर्ण्णं मन्दफलेक्षीयमाणे यस्मिन् दिने मध्यमतुल्यो भवति तदा तत्तु-ल्यमेव मन्दोच्चं ज्ञेयम् ततस्तस्माद्रविमन्दोच्चवद्भगणाःकल्प्याः एवं सर्वेषाम् अथ बुधशुक्रयोः शीघ्रो-च्चोपपत्तिः तत्र रविशुक्रयोः पूर्वस्यां दिशि चक्रयन्त्र-वेधेनान्तरभागा ज्ञेयाः ते तयोः स्फुटयोरन्तरांशाजातास्तैः स्फुटार्काद्विशोधितैः स्फुटः शुक्रो भवति ।ततः शुक्रस्य मन्दफलमानीय तत् स्फुटे शुक्रे धनर्णंव्यस्तं कार्य्यम् रविश्च मध्यमः कार्यः तयोर्यदन्तरंतच्छीघ्रफलमृणं धनं ज्ञेयम् एवं प्रतिदिनवेधेनतच्छीघ्रफलं परममृणं ज्ञातव्यम् तत् तादृक् फलमर्कानतिर्यक्स्थितेनोच्चेनाकृष्टस्य भवति तच्च तिर्यक्स्थत्वंत्रिभान्तरितस्य स्यात् अतस्तत्र त्रिभोनेन स्फुटशुक्रेणतुल्यं शीघ्रोच्चं ज्ञेयम् एवं पुनरन्यस्मिन् पर्यये प्राच्या-मेवान्यच्छीघ्रोच्चं ज्ञात्वानुपातः क्रियते यद्येतत्काला-न्तरदिनैस्तयोरुच्चयोरन्तरं लभ्यते तदैकेन किमिति ।फलं तुङ्गगतिः प्राग्बत् तया भगणाः एवं बुध-स्यापि अथ भौमादीनां वेधेन प्राग्वद्दक्षिणविज्ञेपाभाब-स्थाने यावान् मन्दस्फुटो ग्रहश्चक्रशुद्धस्तावान् पातः ।बुधशुक्रयोस्तु तदा मन्दफलव्यस्तसंस्कृतं यावच्छीघ्रोच्चंचक्रशुद्वं तावान् पातो ज्ञेयः ततः प्राग्वद्भगण-कल्पना अथ भभ्रमानाह” प्रमि० “खखेषुवेदषड्गुणाकृती-भभूतभूमयः शताहता १५८२२३६४५०००० भपश्चिम-भ्रमा भवन्ति काहनि” काहनि ब्रह्मदिन एतावन्तो भानांपश्चिमभ्रमा भवन्ति अत्रोपपत्तिर्गोल “समं भूसूर्यावुदिता-वित्यादिना” कथिता व्याख्याता अथ सूर्याहांश्चान्द्रा-हांश्चाह” प्रमि० “विधिदिने दिनकृद्दिवसाः करेन्द्रियशरेषु-भुवोऽर्बुदसंगुणाः १५५५२०००००००० नवनवाङ्ककराभ्र-रसेन्दवः प्रयुतसंगुणिता १६०२९९९००००००० विधुवासराः”अत्रोपपत्तिः रविवर्षाणि (४३२००००००० ३६० गुणि-तानि) दिनीकृतानीनि सुगमम् चन्द्रार्कयोर्यावन्तः कल्पेयोगास्तावन्तः किल शशिमासाः ते तु योगा भगणा-न्तरतुल्याः स्युः उभयोरपि प्राग्गमनात् अतो भगणा-न्तरतुल्याः शशिमासा भवन्ति ते त्रिंशद्गुणाः शशिदिवसाभवन्तीत्युपपन्नम् अथ कुदिनान्याह भूदिनानि शरवेद-भूपगोसप्तसप्ततिथयोऽयुताहताः १५७७९१६४५०००० ।मभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानिवा”
एषामुपपत्तिः प्रागेवोक्ता एकस्मिन्रविवर्षेयावन्तो भभ्रमाः स्युस्तावन्त एवैकोना रविसावनदिवसाभवन्ति यतो रविः प्राग गत्या एकं पर्ययं गतः ।अतो भगणसंख्ययोना भभ्रमाः क्वहा भवन्ति एव-मन्येषामपि ग्रहाणां कुदिनानि स्युरित्युपपन्नम्” प्रमि०इदानीं कलिगतादप्यहर्गणादिकमाह “कलिगतादथवा दिनसंचये दिनपतिर्भृगुजप्रभृतिस्तदा कलिमुख-ध्रुवकेण समन्वितो भवति तद्द्युगणेद्भवखेचरः” सि० शि०“अत्र कलिगताहर्गणेऽयं विशेषः शुक्राद्यो वारोगणनीयः यतः कल्पगताहर्गणात् कलिमुखे शुक्र-वारी भवति तत्र ये ग्रहास्ते ध्रुवसंज्ञाः कल्-पिताः तद्द्युगणभवः खेचरश्च कलिमुखध्रुवकेणसमन्वितः कार्य इत्यत्र वासनापि सुगमा इदानीं कलि-मुखग्रहानाह” प्रमि० “खाद्रिरामाग्नयः ३३७० क्वग्नि-रामाङ्कका ९३३१ वेदवेदाङ्कचन्द्रा १९४४ विलिप्ताःक्रमात् षड्रसाङ्गाव्धयो ४६६६ ऽङ्गाभ्रवेदाब्धयो४४०६ वेदषट्काभ्रभूपाभ्रभूसंमिताः १०१६०६४ वेद-चन्द्रद्विवेदाब्धिनागाः ८४४४२१४ करद्व्यब्धिवेदाब्धिशैलं७४४५२२ भवेयुः कुजात् द्वापरान्तध्रुवाश्चक्रशुद्धास्तथासूर्यतुङ्गेन्दुतुङ्गेन्दुपातोद्भवाः” सि० शि० “कुजादीनां सर्वेशांध्रुवाश्चक्रशुद्धाः पठिता लाघवार्थम् स्पष्टार्थमिदम्” प्रमि०कल्यादौ ग्रहाः ।मं* वु* गु* शु* श* रतुं* चंतुं* चंपा११ ११ ११ ११ ११ ५१९ २७ २९ २८ २८ १७ ३३ २४ २७ ४२ ४६ ४५ २९ १२५० २९ ३६ १४ ३४ ३६ ४६ ५८अत्र बालावबोधार्थं रूपमहर्गणं कृत्वा ग्रहाणां सावनदिनगतयः साधिताः ।र चं मं बु गु शु पा० १३ ०५९ १० ३१ ३६ ३८ ३४ २६ ३२ ५९ ४० १०१० ५३ २८ १८ ४४ २२ ५३ ४८२१ २८ ३५ ५१ ५६ २०दिनगणः स्वषष्ट्यंशोनो भाग इति प्रत्यहमेकोनषष्टिःकला गृहीताः शेषावयवेन सत्रिभागैः सप्तभिर्दिनै-रेका कला भवति” प्रमि० ।खगोले सप्त वायुस्कन्धा” सि० शि० उक्ताः यथा “भूवायु-रावह इह प्रवहस्तदूर्द्ध्वः स्यादुद्वहस्तदनु सवहसंज्ञकश्च ।अन्यस्ततोऽपि सुवहः परिपूर्वकोऽस्माद्बाह्यः परावंह इमेपवनाः प्रसिद्धाः भूमेर्बहिर्द्वादश योजनानि भूवायुरत्राम्बु-दविद्युदाद्यम् तदूर्द्ध्वगो यः प्रवहः, नित्यं प्रत्यग्गति-स्तस्य तु मध्यसंस्था नक्षत्रकक्षा खचरैः समेतो यस्मा-दतस्तेन समाहतोऽयम् भपञ्जरः खेचरचक्रयुक्तोभ्रमत्यजस्रं प्रवहानिलेन” श्रीपतिः “स्यादावहःप्रवह उद्वहसंवहौ स्वादिर्वहः परिबहश्च परा-वहश्च स्कन्धाः क्रमेण मरुतामिह सप्तसंख्या विश्व-म्भरापवनमावहमाहुरेके” ।मतभेदेन भूगोलभगोलयोश्चलाचलत्वविप्रतिपत्तौभगोलस्यैव भ्रमणं सि० शि० भु० को० निरूपितंयथा “यान्तो भचक्रे लघुपूर्वगत्या खेटास्तु तस्याप-रशीघ्रगत्या कुलालचक्रस्नमिवामगत्या यान्तो कीटाइव भान्ति यान्तः” सि० शि० आर्य्यभट्टमते तु मूमेरेवचलनं व्यवस्थापितं यथा“अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् अच-लानि भानि तद्वत् समपश्चिमगानि लङ्कायाम्” अनेनभूमेरेव गतिवशाद्भ्रचक्रस्य भ्रमणभ्रम इत्युक्तम् तेन चभचक्रस्थानां ग्रहाणामुदयास्तमयनिमित्तं भ्रमणमङ्गी-कृतम् यथा “उदयास्तमननिमित्तं प्रवहेन वायुनाक्षिप्तः लङ्कायां समपश्चिमगोभपञ्चस्थोग्रहोभ्रमति”अत उदयस्तमयनिमित्तत्वेन ग्रहगतिस्वीकारेण कालभेदेशुक्रादीनामिव रवेरुदयास्तमयाभावात् गतिमत्त्वंप्रत्यहमुदयास्तमयौ तु तस्य भूगत्यैब सम्भवतः भूमिवृ-त्तार्द्धेनाच्छादनाद्दृश्यत्वाभावेनास्तत्वमिति भेदः अत्रेदंबोध्यम् ग्रहगतिस्वीकारेणैव सर्वोपपत्तौ भूगतिस्वीकारो-ऽनर्थक इत्यभिप्रेत्य श्रीपतिना आर्य्यभट्टमतमुपन्यस्य तत्रदूषणमुक्त्वा भगोलस्यैव भ्रमणमुपपादितं यथा “नौस्थो-विलोमगमनादचलं यथावन्ना मन्यते चलति नैवमिला-भ्रमेण लङ्कासमापरगतिप्रचलद्भचक्रमाभाति सुस्थिर-मपीति वदन्ति केचित् यद्येवमम्बरचराविहगाः स्वनीड-मासादयन्ति खलुभ्रमणे धरित्र्याः किञ्चाम्बुदा अपिन भूरिप्रयोमुचः स्युर्देशस्य पूर्वगमनेन चिराय हन्त ।भूगोलवेगजनितेन समीरणेन केत्वादयोऽप्यपरदिग्गतयःसदा स्युः प्रासादभूधरशिरांस्यपि संपतन्ति तस्माद्भ्रम-त्युडुगणस्त्वचलाऽचलैव” रङ्गनाथोऽपि “यदि भ्रमतिक्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः इषवोऽभिनभःसमुज्झिता निपतन्तः स्युरपांपतेर्दिशि पुरतोऽभिमुखेभ्रमे भुवो वरुणाशाभिमुखो व्रजेद्घनः अथ मन्दगमात्तथा भवेत् कथमेकेन दिवा परिभ्रमः” इत्याह ।सि० शि० भूमेरेव स्थितत्वं व्यवस्थापितं यथा“भूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्य र्किनक्षत्रकक्षा-वृत्तैर्वृत्तो वृतः सन् मृदनिलसलिलव्योमतेजोमयोऽयम् ।नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्यपृष्ठेनिष्ठं विश्वं शश्वत् सदनुजमनुजादित्यदैत्यं सम-न्तात् सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः कदम्ब-कुसुमग्रन्थिः केसरप्रसरैरिव” सि० शि० “योऽयं मृद-निलसलिलव्योमतेजोमय इति पाञ्चभौतिको भूमेः पिण्डोवृत्तो वर्तुलाकारस्तदवहिस्थैः शशाङ्कादिकक्षावृत्तैरावृतःसन्ननन्याधारः स्वशक्त्यैव नियतं निश्चितं वियत्याकाशेतिष्ठति तत्पृष्ठनिष्ठं जगत् सदनुजमनुजादित्यदै-त्यम् दनुजा दानवाः मनुजा मानवाः आदित्यादेवाः दैत्या असुराः तैः समेतं समन्तात् तिष्ठति ।शेषं स्पष्टार्थम्” प्रमि० इदानीं पुराणेषु भूमेराधार-परम्परा या पठिता तां निराकुर्वन्नाह “मूर्तो धर्ताचेद्धरित्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था अन्त्येकल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्चमूर्तिः” सि० शि० कथमियं भूमेः स्वशक्तिरित्याशङ्कांपरिहरन्नाह “यथोष्णतार्कानलयोश्च, शीतता विधौ, द्रुतिः के कठिनत्वमश्मनि मरुच्चलो भूरचला स्वभावतोयतो विचित्रा वत वस्तुशक्तयः आकृष्टिशक्तिश्च महीतया यत् खस्थं गुरु स्वाभिमुखं स्वशक्त्या आकृष्यतेतत्पततीव भाति समे समन्तात् क्व पतत्वियं खे”सि० शि० “आकृष्टिशक्तिश्व महीत्यनेन भूमेरधःपतनशङ्कातत्तिर्यगधःस्थितानां चाधःपतनशङ्का निरस्ता” प्रमि० ।तथान्यत्रापि युक्तिस्तत्र दर्शिता यथा “विलोक्याह्ना घ्रव-मत्स्य परिभ्रमम्” “यदा भरणीस्थो रविर्भवति तदातस्यास्तमयकाले ध्रुवमत्स्यस्तिर्यक्स्थो भवति तस्यमुखतारा पश्चिमतः, पुच्छतारा पूर्वतः तदा मुखता-रासूत्रे रविरित्यर्थः अथ निशावसाने मुखतारापरिवर्त्य पूर्वतो याति पुच्छतारा पश्चिमतो याति ।ततो मुखतारासूत्रगतस्यैवार्कस्योदयो दृश्यते” प्रमि० ।अत्रायमाशयः यदि भूमेरेव चलनं भचक्रस्य चलन-मुररीक्रियेत तदा ध्रुवमत्स्यस्य ध्रुवतारासन्निकृष्टस्थानेभचक्रे स्थितस्य शूलतारात्मकताराद्वयस्य ध्रुवचतुर्दिक्षुभचक्रभ्रमणवत् पश्चात् प्रत्यहमेकेनाह्ना परिभ्रमणंदृश्यते भरणीस्थे सूर्य्ये अस्तमयकाले ध्रुवमत्स्य मुख-तारायाः पश्चिमस्थत्वं पुच्छतारायाश्च पूर्बस्थत्वं दृश्यतेदृश्यते निशावसाने तयोर्दिग्विपर्य्ययः भूमेरेव चल-नात् तस्योदयास्तमयस्वीकारे यथास्थितैकरूपेणावस्थानमपिदृश्येत तथा दृश्यते अतो भचक्रस्यैव चलनात्सर्बव्यवहारोपपत्तौ मुधा भूमेश्चलनाङ्गीकारेण एवंसप्तर्षिमण्डलस्य मरीच्यादिक्रमेण निशामुखे उदयसमयेपूर्वस्थत्वमस्त मयकाले निशावसाने तद्विपर्य्ययेणावस्थानंभचक्रभ्रमणं विनाऽनुपपन्नमेव तेषां राशिचक्रे यथापूर्व्वादिक्रमेण स्थितिः शतवर्षेणेकैकनक्षत्रभोगस्तथाऋषिशब्दे १४५१ पृ० दर्शितम् अत्र श्रीपतिना “प्रासाद-शिरांशि पतन्तीति” यदुक्तं तदापाततः भूमेः स्वोर्द्ध्वाकाश-विभागस्थानस्थानां तयाकृष्टमूर्त्तीनामेव भूमौ पतनमितिनियमेन स्वाधिष्ठिततया भूभागस्यैवाधोभागतत्रैव पतन-सम्भवात् तेन प्रासादशिरःपतनसम्भवः “क्वाधःपतेदितिवाक्यापर्य्यलोचनया तथैवावगमादिति सुधीभिर्भाव्यम् ।भूचलने अन्येऽपि दोषाः सम्भवन्ति तथाहि पूर्वापर-भागे तुल्ययन्त्रेणाकृष्य क्षिप्तशरयोः समगतिरेव प्रत्यक्ष-सिद्धा समया गत्या तुल्यभूमिभागे एव तयोः पतनमु-चितम् भूमेः प्राग्गतित्वाङ्गीकारे प्राक्क्षिप्तस्याधिक-भूम्यन्तरे, पश्चात्क्षिप्तस्य चाल्पभूम्यन्तरे पतनं स्यात् चतथा लक्ष्यते किञ्च द्वादशयोजनात्मकभूवायुना सार्द्धंभूमेः प्राग्गतिस्वीकर्त्तृणामिलण्डीयज्योतिर्विदां मतेऽपिप्राग्गतेः शरस्य वाय्वनुकूलत्वादपि अधिकगतित्वं प्रत्यग्गतेस्तुप्रतिकूल वायुना प्रतिरोधात् अल्पगतित्वमपि स्रोतो-ऽनुकूलप्रतिकूलगतिमतोर्गतिभेदवत् स्यात् ।किञ्च आर्य्यभट्टमते भूमेः स्वकक्षायामेव भ्रमणाङ्गीरेऽपिइंलण्डीयज्योतिर्भिः प्रत्यहं भूमेरेककारं प्राग्गतावपिवर्षेण क्रमशः सूर्य्यमण्डलभ्रमणमुररीकृतं तथाऽङ्गी-कारे भूमेः विषुवद्स्थानावधि षड्राशिषुक्रमशो वेष्टना-कारेणोर्द्धगत्या षण्मासोत्तरं सूर्य्यस्योर्द्ध्वं स्थितिः स्यात् ।तथा तदानीं सूर्य्यस्य भूवृत्तापेक्षया यावदुच्छ्रुतप्रदेशे-स्थिति स्तावद्भिर्योजनैः सूर्य्यस्योर्द्ध्वं भूमेः स्थितिः अयनद्वये चतिर्यक्स्थितिः स्यात् तथा स्वीकारे ध्रुवतारयोरपिंविषवतो-नतत्वोन्नतत्वेन दृश्यत्वापत्तिः अयनयोश्च तिर्य्यक्स्थितत्वा-पत्तिश्च नच तथा दृश्यते सदा एकरूपेणैव तयोर्दर्शनात्न तयोरतिदूरस्थत्वात् तथा लोकनं सम्भाव्यतेइति वाच्यं भचक्रस्य ध्रुबलग्नत्वेन नक्षत्रकक्षासन्निकृष्ट-तया ध्रुवस्य सिद्धतया नक्षत्रकक्षायाश्च सूर्य्यकक्षायाःषष्टिगुणान्तरितत्वात् तदानीं सूर्व्योर्द्ध्वस्थितस्य भूमण्डलस्यततोऽल्पान्तरेण स्थितेरतिदूरस्थत्वाभावात् सूर्य्याधःस्थिति-काले अधिकान्तरे भूमेः सत्त्वावश्यकत्वापत्तेः तावद्भि-र्योजनैः ध्रुवसन्निकृष्टपूर्वपश्चिमतारात्मकमत्स्यस्य नतोन्नत-तया तिर्व्यक्तया दर्शनापत्तेर्वज्रलेपत्वात् किञ्च सूर्य्यो-र्द्धस्थितिकाले सूर्य्येण सहैकराशिगतानां कुजजीवशन्या-दीनामासन्नतातारतम्येन तेषां स्थूलत्वतारतम्येन दर्शना-पत्तिः इत्यादि बहु वक्तव्यमस्ति विस्तरभयाद्विरम्यते ।सि० शि० भूवृत्तादिमानमुक्तं यथा “प्रोक्तो योजनसंख्ययाकुपरिधिः सप्ताङ्गनन्दाब्धय ४९६७ स्तद्व्यासः कुभुजङ्गसा-यकभुवो १५८१ ऽथ प्रोच्यते योजनम् याम्योदक्पुरयोःपलान्तरहतं भूवेष्टनं भांश ३६० हृत् तद्भक्तस्य पुरान्तराध्वनइह ज्ञेयं समं योजनम्” सि० शि० “भूपरिधेरुपपत्ति-र्गोले कथिता योजनलक्षणं गणिते कथितमस्ति तथा-प्यत्र यदुच्यते तत्रेदं कारणम् भूरेकैव किन्तु यत्त्वार्य-भट्टादिभिराचार्यैः सत्यपि नियामके पलांशदर्शनेऽन्यथा-न्यथा तत्प्रमाणमभिहितं तत्र षट्सप्ताष्टयवमङ्गुलंकनिष्ठिकादिभेदेन शास्त्रे दृश्यते तेनाभिप्राये-णाऽन्येन वा तथोक्तम् याम्योत्तरयोः पुरयोःपलांशान् वक्ष्यमाणप्रकारैर्ज्ञात्वा तेषामन्तरेणानुपातः ।यदि भांशपरिधौ दक्षिणोन्तरमण्डल एतावत् पलान्तरंतदा मूपरिघौ पुरान्तरे किमिति यल्लब्धं तावन्तोविभागाः पुरान्तरस्य क्रियन्ते यावानेको विभागस्ता-वद्योजनं ज्ञेयम् तादृशैर्योजनैर्देशान्तरं कर्तव्यमित्यर्थः”प्रमि० इदार्नीं भूपरिधिस्फुटीकरणं मध्यरेखां चाह ।“लम्बज्यागुणितो भवेत् कुपरिधिःस्पष्टस्त्रिभज्याहृतोयद्वा द्वादशसंगुणः विषुवत्कर्णेन भक्तः स्फुटः ।यल्लङ्कोज्जयिनीपुरीपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्रंमेरुगतं पुधैर्निगदिता सा मध्यरेखा भुवः” सि० शि० ।रेखापुराण्याह श्रीपतिः “लङ्का कुमारी नगरी चकाञ्ची पानाटमद्रिश्च सितः षडास्यः श्रीवत्सगुल्मंच पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा
स्यादाश्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम् ।श्रीगर्गराटं सरोहिताख्यं स्थानेश्वरं शीतगिरिःसुमेरुः
इतीव याम्योत्तरगां धराया रेखामिमां गोल-विदो वदन्ति अन्यानि रेखास्थितिभाञ्जि लोके ज्ञेयानितज्ज्ञैः पुटभेदनानि”
ग्रहाणां प्रतिदिनं खकक्षायोजनगतिमानं सि० शि० उक्तम्“कल्पोद्भवैः क्षितिदिनैर्गगनस्य कक्षा भक्ता भवेद्दिन-गत्रिर्गगनेचरस्य पादोनगोऽक्षधृतिभूमितयोजनानि११८५८ ४५ खेटा व्रजन्त्यनुदिनं निजवर्त्मनीमे” सि० शि०अत्रोपपत्तिः यदि कल्पदिनैः खकक्षामितयोजनानि गच्छतितदैकेन किमिति फलं दिनगतियोजनानि तानिच स्थूलत्वेन तावत् पादोनगोऽक्षधृतिभूमितानि स्युः”ग्रहाणां दिनभुक्तिमाह” प्रमि० “महीमितादहर्गणात्फलानि यानि तत्कलाः भवन्ति मध्यमाः क्रमा-न्नभःसदां द्युभुक्तयः समा गतिस्तु योजनैर्नभः-सदां सदा भवेत् कलादिकल्पनावशान्मृदुद्रुता चलास्मृता” सि० शि० “अत्रोपपत्तिस्त्रैराशिकेन पूर्वं गति-र्योजनामिका ग्रहाणां तुल्यैवोक्ता इदानीमतुल्या साकलादिकल्पनावशात् इदानीमतुल्यत्वे कारणमाह प्रमि०“कक्षाः सर्वा अपि दिविसदां चक्रलिप्ताङ्कितास्तावृत्ते लघ्व्यो लघुनि महति स्युर्महत्यश्च लिप्ताः तस्मा-देते शशिजभृगुजादित्यमौमेज्यमन्दा मन्दाक्रान्ता इवशशधराद्भान्ति यान्तः क्रमेण” सि० शि० “यतः सर्वाअपि कक्षाश्चक्रलिप्ताभिरेवाङ्किताः अतो महति वृत्तेमहत्यो लिप्ताः स्युः “लघुनि लघ्व्यः तद्यथा चन्द्र-कक्षा सर्वाधिस्था लघुः तस्यामेका कला पञ्चदशभि-र्योजनैर्भवति शनेः कक्षा सर्वोपरिस्था सा महतीतस्यामेका कला योजनानां षडिभिः सहस्रैरेकसप्त-त्योनै ५९२९ र्भवति योजनं चतुःक्रोशमेव अत-श्चन्द्रात् सकाशादूर्द्धोर्द्ध्वस्था बुधशुक्रादयः क्रमेण मन्दा-क्रान्ता मन्दगतय इव भान्ति” प्रमि० ।ग्रहाणां तुङ्गादिपरिधिभेदकारणम् सि० शि० उक्तंयथा “उच्चस्थितो व्योमचरः सुदूरे नीचस्थितः स्यान्नि-निकटे घरित्र्याः अतोऽणुविम्बः पृथुलश्च भाति भानो-स्तथासन्नसुदूरवर्त्ती” सि० शि० इदानीमन्यदृक्तुं प्रका-रान्तरमाह” प्रमि० “उक्ता मयैषा प्रतिवृत्तभङ्ग्ययुक्तिः पृथक् श्रोतुरसंभ्रमार्थम् स्पष्टीकृतेस्तां पुनरन्यथाहं नीचोच्चवृत्तस्य वचमि भङ्ग्या” सि० शि० ।“इह किल स्पष्टीकरणयुक्तिः प्रतिवृत्तभङ्ग्या मयोक्ता ।अथ तामेव नीचोच्चवृत्तभङ्ग्या वच्मि इदानीं तांभङ्गिमाह” प्रमि० “कक्षास्थमध्यग्रहचिह्नतोऽथ वृत्तंलिखेदन्त्यफलज्यया तत् नीचोच्चसंज्ञं रचयेच्च रेखांकुमध्यतो मध्यखगोपरिस्थाम् कुमध्यतो दूर-तरे प्रदेशे रेखायुते तुङ्गुमिह प्रकल्प्यम् नीचं तथा-सन्नतरेऽथ तिर्यङ्नीचोच्चमध्ये रचयेच्च रेखाम् ।नीचोच्चवृत्ते भगणाङ्कितेऽस्मिन् मान्द्ये विलोमं निजकेन्द्र-गत्या शैघ्य्रेऽनुलोमं भ्रमति स्वतुङ्गादारभ्य मध्यद्यु-चरो हि यस्मात् अतो यथोक्तं मृदुशीघ्र-केन्द्रं देयं निजोच्चाद्द्युचरस्तदग्रे दोर्ज्योच्चरेखावघि-खेटतः स्यात् तिर्यक्स्थरेखावघि कोटिजीवा” सि० शि० ।“प्राग्वत् कक्षावृत्तं चक्रांशाङ्कितं कृत्वा तत्र मध्यग्रहं चदत्त्वा ग्रहचिह्नेऽन्त्यफलज्याप्रमाणेनान्यद्वृत्तं लिखेत् ।तन्नीचोच्चसंज्ञवृत्तम् अथ मूमव्याद्ग्रहोपरिगता रेखाकिञ्चिद्दीर्घा कार्य्या सात्रोच्चरेखा नोचोच्चवृत्ते भूमे-र्दूरतरे प्रदेशे रेखायुते उच्चं प्रकल्यम् आसन्ने रेखा-युते नीचम् नीचोच्चचिह्नाभ्यां मत्स्यमुत्पाद्य तिर्य-ग्रेखा सध्ये कार्य्या तस्मिन् वृत्ते केन्द्रगत्योच्चस्थाना-दारभ्य मध्यग्रहो भ्रमति मान्द्ये विलोमं, शैघ्रेऽनु-लोमम् अतः कारणान्मन्दकेन्द्रमुच्चाद्विलोमं देयम् ।शीघ्रकेन्द्रमनुलोमम् तदग्रे ग्रहः” प्रमि० ।ग्रहाणामस्तकालांशाश्च सि० शि० उक्ताःतच्च वाक्यं १९९१ पृ० कालशब्दे उक्तम् ग्रहविम्बानांगोलाकारत्वेऽपि सूर्य्याभिमुखानामेव द्युतिलाभः यथा-हार्य्यभट्टः “भूग्रहभानां गोलार्द्धानि यथा विवर्ण्णानि ।अर्द्धानि यथासारं सूर्य्याभिमुखानि दीप्यन्ते” सि० शि०रविचन्द्रराहुबिम्बमानम् उक्तं यथा “बिम्बं रवेर्द्वि द्वशरर्तु६५२२ संख्यानीन्दोः खनागाम्बुधि ४८० योजनानि भू-व्यासहीनं १५८१ रविबिम्बमिन्दुःकर्णाहतं भास्करकर्णभ-क्तम् भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभावि-स्तृतिरिन्दुमार्गे” सि० शि० “सूर्य्यस्य विम्बं मध्यमंद्वियमवाणषट्कतुल्यानि ६५२२ योजनानि इन्दोस्तुशून्यवसुवेद ४८० मितानि राहोरुच्यते रवि-बिम्बं ६५२२ भूव्यासेन १५८१ हीनं कृत्वेन्दुतर्णेन स्फुटेनयोजनात्मकेन संगुण्य रविकर्णेन स्फुटेन भजेत् फतेनभूव्यासो वजितश्चन्द्रकक्षायां भूभाव्यासो भवति ।एतानि योजनविम्बानि अत्रोपपत्तिः यस्मिन्दिनेऽर्कस्य मध्यतुल्यैव स्फुटा गतिः स्यात् तस्मिन्दिने उदयकाले चक्रकलाव्यासार्धमितेन यष्टिद्वितयेनमूलमिलितेन तत्रस्थदृष्ट्या तद्यष्ट्यां बिम्बप्रान्तौ विध्येन् ।या यष्ट्यग्रयोरन्तरकलास्ता रविबिम्बकला मध्यमाः भवन्तिताश्च द्वात्रिंशत् किञ्चिदधिकैकत्रिंशद्विकलाधिकाः ३२ ३१३३ एवं विधोरपि पौर्णमास्यां यदा मध्यैव गतिःस्पष्टा सिध्येत् तस्यैवं किञ्चिदधिकाः द्वात्रिंशत्कलाः ३२ उत्पद्यन्ते बिम्बकलानां योजनीकरणा-यानुपातः यदि त्रिज्याव्यासार्धे एतावत्प्रमाणं बिम्बंतदा पठितश्रुतियोजनैः किमित्येवमुत्पद्यन्ते द्विद्विशरर्तु६५२२ संख्यानि योजनानि विधस्तु खनागाम्बुधिः४८० मितानीति” “अत्र श्रीपतिः व्यासा रवीन्दुक्षिति-गोलकानां क्रमेण तेजोजलमृण्मयानाम् स्युर्योजनै-राकृतिवाणषड्भिः ६५२२ र्व्योमाष्टवेदैः ४८० कुगजेषुचन्द्रैः १५८५” अन्येषां गुरुगुरुतरकक्षास्थितानांग्रहाणां गुरुगुरुतरत्वादिकं बोध्यं तु विशेष संख्यासौरागमेषुक्ता विष्णुपुराणादौ उक्ताऽपि उपपत्तिहीन-त्वादत्र प्रदर्शिता ।भास्कराचार्य्येण स्वल्पान्तरेणाङ्गीकृतानि मेषादिराशि-स्थितेऽर्के सावनदिनानि ।मे वृ मि सिं तु वृ कु मी३० ३१ ३१ ३१ ३१ ३० २९ २९ २९ २९ २९ ३०५५ २४ ३७ २८ २९ ५७ २७ १५ २४ ४९ २३३३ ५६ ३२ ३५ ५२ ३९ ४३ ३१एतन्निबन्धनश्लोकाश्च “त्रिंशत् पञ्चशरा देवा मेषेऽर्केदिवसादिकम् वृषे धराग्नयः सिद्धाः षट्शरा मिथुनेक्रमात्
धराग्नयः सप्तरामा रदः कर्के धराग्नयः ।गजाश्विनोऽक्षरामाश्च, सिंहे भूवह्नयो द्वयम्
द्विशराश्च, स्त्रियां त्रिंशद्गोऽश्विनः श्रुतय, स्तुले गोऽश्विनोऽद्रिशराःपक्षौ, गोऽश्विनो भानि गोऽग्नयः
कौर्प्ये, धनुधिगोदस्नास्तिथयो वह्नयो, मृगे गोऽश्विनोऽब्धियमाः, कुम्भे गोदस्रा गोऽब्धयस्तथा
रामाब्धयो, झषे त्रिंश-द्रामदस्रा धराग्नयः” ।सर्बेषां राशीनां त्रिंशद्भागात्मकत्वेऽपि कालभेदेनैवतेपामुदयो देशभेदात् भिन्नएव तेन देशभेदेन दिन-रात्रिमानभेदश्च तत्र कारणं सि० शि० निरूपितं यथा“यो हि प्रदेशोऽपममण्डलस्य तिर्यक्स्थितोयात्युदयंतथास्तम् सोऽल्पेन कालेन ऊर्ध्वसंस्थोऽनल्पेनसोऽस्मादुदया तुल्याः उद्गमे याम्यनतामृगाद्याःखखापमेनापि निरक्षदेशे याम्याक्षतस्तेऽतिनतत्वमाप्ताउद्यन्ति कालेन ततोऽल्पकेन कर्क्यादयः सौम्यनताहियेऽत्र ते यान्ति याम्याक्षवशादृजुत्वम् कालेन तस्माद्ब-हुनोदयं ते तदन्तरे स्वञ्चरखण्डमेव” सि० शि० “विषुव-दहोरात्रवृत्तानि लङ्कायां समपश्चिमगानि राशिवलयं तुमकरादौ परमक्रान्त्या २४ विषुवन्मण्डलाद्दक्षिणतो मिथु-नान्त उत्तरतो सग्नमतस्तिरश्चीनं तत्रापि मेषः स्वक्रा-न्त्या महत्या तिरश्चीन उदेति अतोऽल्पकालोदयं वृषभ-स्तदल्पयातस्वस्मात्किञ्चिदधिककालः मिथुनस्तदल्पयात-स्तदधिककालः एवं निरक्षेऽपि समा उदयाः अथ येमकरादयो याम्ये नतास्ते याम्याक्षवशात् अतिनता उद्ग-च्छन्ति स्वदेशेऽतोऽल्पकालादयाः, ये तु कर्क्यादयः खस्व-क्रान्त्या सौम्ये नतास्ते याम्याक्षवशादृजुत्वं गता उद्यन्तिअतश्चिरकालोदयाः लङ्कास्वदेशोदययोरन्तराले स्वञ्चर-खण्डमेव भवति यतस्तत्क्षितिजयोरन्तराले चरम् अथचरखण्डैरूनाधिकत्वं गोलभ्रमणोपरि यथा प्रतीयतेतथाह” प्रमि० “भचक्रपादास्तिथिनाडिकाभिः पृथक्समुद्यन्ति निरक्षदेशे चक्रार्धमाद्यं तथा द्वितीयं सर्वत्रपूर्णाग्निमिताभिरेव मेषादेर्निथुनान्तो नाडीभि-स्तिथिमिताभिरुद्वृत्त लगति कुजे तदघःस्थें प्रथमंताभिश्चरोनाभिः कन्यान्ताडतषोऽन्तस्तिथिमितना-डीभिरुद्वलये, लगति कुजे चोर्ध्वस्थे पश्चात्ताभिश्चरा-ढ्याभिः तद्रहितत्रिंशद्भिः कन्थान्तो वा झषान्तो वा ।चरखण्डैरूनाढ्यास्तेन निरक्षादयाः खदेशे स्वुः ।क्षितिजेऽजादिं कृत्वा गोलं भ्रमयन् प्रदर्शयेत्सर्वम् उक्तभनुक्तं चान्यत् शिष्याणां बोधजननार्थम्” सि० शि० ।चरखण्डकालमाह सि० शि० “उन्मण्डलक्ष्माबलयान्तरालेद्युरात्रवृत्ते चरखण्डकालः तज्ज्यात्र कुज्याचरशिञ्जिनीस्याद्व्यासार्घवृत्ते परिणामिता सा” सि० शि० “क्षिति-जोन्मण्डलयोर्मध्येऽहोरात्रवृत्ते यावान् कालः चर-खण्डकालः तत्रोन्मण्डलादुभयतश्चरतुल्येऽन्तरै चिह्नेकृत्वा तथे र्निबद्धसूत्रस्यार्द्धं कुज्या सैव त्रिज्यावृत्तपरिणतासती चरज्या स्यादित्यादि त्रिप्रश्ने व्याख्यातम्” प्रमि० ।डदानीं लङ्कास्वदेशार्कोभयोरन्तरं चरकालमाह ।“निरक्षदेशे क्षितिजाख्यवृत्तमुन्मण्डलं तज्जमुरन्यदेशे ।स्वे स्वे कुजऽर्कस्य सनुद्गमोऽस्माच्चरार्द्धमर्कोदययोस्तुमध्ये” सि० शि० चरफलस्थ धनर्णवासनामाह ।“आदौ स्वदेशेऽथ निरक्षदेशे सूर्य्योदयोह्यस्तमयोऽन्यथातः ।ऋणं ग्रहेऽस्मादुदये स्वमस्ते फलं चरोत्थं रविसौम्य-गोले याम्ये विलोमं खलु तत्र यस्मादुन्मण्डलं स्वक्षि-तिजादधस्तात् नाड्याह्वयादुत्तरयाम्यभागौ गोलस्यतावुत्तरयाम्यगोलौ” सि० शि० ।चरस्थानञ्च सि० शि० दर्शित यथा“यल्लङ्कोज्जयिनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत्सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः आदौप्रागुदयोऽपरत्र विषये पश्चाद्धि रेखोदयात् स्यात् तस्मात्क्रियते तदन्तरभवं खेटेष्वृणं स्वं फलम्” सि० शि० ।“लङ्काया मेरुपर्य्यन्तं नीयमाना रेखोज्जयिनी कुरु-क्षेत्रादिदेशान् स्पृशन्वी या याति सा मध्यरेखत्युच्यते ।रेखायां यदार्कोदयस्तत्कालात् पूर्वमेव पूर्वदेशे भवतिरेखोदयकालादनन्तरं पश्चिमदेशेऽर्कोदयः तदन्तरालस्तदन्तरयोजनैः स्पष्टभूवेष्टनादनुपातेन ज्ञायते यदिस्फुटपरिधियोजनैः षष्ठि ६० घटिका लभ्यन्ते तदारेखाखपुरुयोरन्तरयोजनैः किमितीति त्रैराशिकेन देशा-न्तरवटिका सभ्यन्ते सब्धगत्था या आनीता नाह्य-स्ताभिरनुपातः यदि घटीषष्ठ्या ग्रहस्यगतिकला लभ्यन्तेतदा देशान्तरघटीभिः किभिति अथ योजनैरेवानु-पातः यदि स्फुठपरिधियोजनैर्गतिः प्राप्यते तदादेशान्तरयोजनैः किमिति फलं कलाः प्रागृणं यतस्तत्रा-दावुदयः पश्चाद्धनम् यतस्तत्र रेखोदयादनन्तरमर्को-दय इत्युपपन्नम्” प्रमि० ।चरखण्डानयनञ्च सि० शि० “एकस्य राशेर्वृहतो ज्यकाया द्वयोस्त्रिभस्यापि कृतीकृतानाम् खस्वापमज्याकृति-वर्जितानां मूलानि तासां त्रिगुणा ३४३८ हृतानि ।खखद्युमौर्व्या विमजेत् फलानां चापान्यधोऽधः परि-शोधिताति क्रमोत्क्रमस्थानि निरक्षदेशे मेषादिकाना-मुदयासवः स्थुः” सि० शि० “एकस्य राशेर्वृहती ज्ये-त्यष्टमी १७१९ ज्या द्वयोरिति षोडशी २९७७ ज्या ।त्रिभस्येति ३०३८ त्रिज्या आसां वर्गितानां खकीय-स्तकीयक्रान्तिज्यावर्गैर्वर्जितानां मूलानि त्रिज्यागुणितानि-खखद्युज्यया विभजेत् फलानां चापान्यधोऽधः परि-शोधिताषीति तृतीयात् द्वितीयं द्वितीयात् प्रथमं शोध्यम् ।प्रथमं तथाविधमेव एवं लङ्कीदयासवः स्युः अत्रोप-पत्तिः अत्रोद्गच्छतः क्रान्तिवृत्तस्यंतिर्यक्स्थितत्वात् त्र्य-स्राणि क्षेत्राण्युत्पद्यन्ते तद्यथा मेषान्तस्य ज्याक्रान्तिवृते कर्णः, तत्क्रान्तिज्या लङ्काक्षितिजे भुजः ।तद्वर्गान्तरपदं मेषान्तेऽहीरात्रवृत्ते कोटिः एवं राशि-द्ववस्य ज्या कर्णः, तत्क्रान्तिज्या भुजः, तव्वर्गान्तरपदंवृषभान्तेऽहोरात्रवृत्ते कोटिः एवं त्रिराशिज्या कर्णः, परमा क्रान्तिज्या भुजः, परमाल्पद्युज्या कोटिः ।एताः कोटयश्चापकरणार्थं त्रिज्यावृत्ते परिणामिताः ।त्रिज्यागुणाः खखद्युज्यया भक्तास्तासां चापानि प्रथमंमेषोदयस्य कालः द्वितीयं राशिद्वयस्य तृतीयंराशित्रयस्य अतो विश्लेषितानीत्युपपन्नम्” प्रनि० ।“इदानीं प्रकारान्तरेणाह “कीटादिराश्यन्तजकोटिजी-वास्त्रिज्या ३४३८ गुणाः खखदिनज्ययाप्ताः चापीकृताःप्राग्नदधो विशुद्धाः कीटादिकानामुदयासवो वा” सि० शि० ।“कीटादिराशान्तजकोटिजीवास्ता एकद्वित्रिराशिज्याभवन्ति १७१९ २९७७ ३४३८ एवास्त्रिज्यया ३४३८ गुण्याःस्वस्वदिनज्ययाः भक्ता इति यैव वृषभान्ते द्युज्या सैनकीटान्तेऽपि ३२१८ यैव मेषान्ते द्युज्या सैव सिंहा-न्तेऽपि ३३६६ कन्यान्ते द्युज्या त्रिज्यैव ३४३८ ।आभिस्ता भाज्याः फलानां चावान्यधोऽधः शुद्धानिकीटादीनामुदयासवः स्युर्निरक्षे वा एव मिथुन-वृषभमेषाणामित्यर्थः अत्रोपपत्तिः क्रान्तिवृत्तेवृषभान्ते सूत्रस्यैकमग्रं बद्धा द्वितीयमग्रं कीटान्ते निब-ध्यते तस्य सूत्रस्यार्धमेकराशेर्ज्या भवति एवं सूत्रस्यै-कमग्रं मेषान्ते बद्ध्वा द्वितीयं सिहान्ते तस्य सूत्रस्यार्द्धंराशिद्वयस्य ज्या भवति एवं मेषतुलादौ बद्धसूत्रस्यार्द्धंत्रिज्या एता एव वृषभान्तमेषान्तमानान्ताऽहोरात्र-वृत्तानां ज्या भवन्ति यतस्तत्सम्पातेषु क्रान्तिवृत्तेसूत्राणि बद्धानि अतस्तासां त्रिज्यावृत्तपरिणतानांचापान्तराणि कीटादिकानामुदया भवन्तीति गोले प्रद-र्शयेत्” इदानीं पुनः प्रकारान्तरेणाह प्रमि० ।“मेषादिजीवास्त्रिगृहद्युमौर्व्या ३१४१ क्षुणा हृताः स्व-स्वदिनज्यया वा चापीकृताः प्राग्वदधो विशुद्धामेषादिकानामुदयासवो वा” सि० शि० अस्योपपत्तिर्गोलेकथितैव सुगमा अथ निष्पन्नांस्तानसूनाह “तेऽभ्राद्रिभूपा १६७० गुणगोऽद्रिचन्द्राः १७९३ सप्ताग्नि-नन्देन्दुमिता १९३७ अथैते क्रमोत्क्रमस्थाश्चरखण्डकैःस्वैः क्रमोत्कृमस्थैश्च विहीनयुक्ताः मेषादिषण्णामुदयाःस्वदेशे तुलादितोऽमी विलोनसंस्थाः उदोत राशिःसमयेन येन तत्सप्तमोऽस्तं सपुपैति तेन” सि० शि० ।अत्र प्रथमप्रकारेण प्रथम उदयो गृह्यते द्वितीयप्रकारेणद्वितीयतृतीयौ “अत्रोपपत्तिः निरक्षस्वदेशार्को-दययोरन्तरं चरम् निरक्षे स्वदेशे मेषादिः सम-मुदेति मेषान्त आदौ स्वक्षितिजे तत उन्मण्डले लगति ।अतश्चरखण्डोनो मेषोदयः स्वदेशोदयो भवति एवंवृषमिथुनयोरणि कर्क्यादौ तु चरखण्डानामपचीय-मानत्वाद्धनं तानि परिणमन्ति तुलादौ तून्मण्डल-स्याधःस्थित त्वाच्चरखण्डानि धनं भवन्ति मकरादौ तुचरखण्डानामपचीयमानत्वादृणं परिणमन्ति इत्यादिगोले सम्यग्बिलोक्यम्” प्रमि० ।दिननिशोर्लघुत्वमहत्त्वे हेतुमाह “अतश्चसौम्ये दिबसो महान् स्याद्रात्रिर्लघुर्व्यस्तमतश्च याम्ये ।द्युरात्रवृत्ते क्षितिजादधस्थे रात्रिर्यतः स्याद्दिनमानमूर्द्धे ।सदा समत्वं द्युनिशोर्निरक्षे नोन्मण्डलं तत्र कुजाद्यतो-न्यत्” सि० शि० “क्षितिजादुपरिस्थेऽहोरात्रवृत्तखण्डेयावान् कालस्तावान् दिवसः यावांस्तदधस्थे तावतीरात्रिरिति” प्रमि० इदानीं विशेषमाह “षट्षष्टि-भागाभ्यधिकाः पलांशा यत्राथ तत्रास्त्यपरो विशेषः ।लम्बाधिका क्रान्तिरुदक् यावत्तावद्दिनं सन्ततमेव तत्र ।यावच्च याम्ये सततं तमिस्रा ततश्च मेरौ सततं समार्द्धम्”सि० शि० “यत्र देशे षट्षष्टे (६६) रधिकाः पलांशा-स्तत्रायं विशेषः अर्कस्योत्तरा क्रान्तिः (२४) र्यावत्कालंलम्बाधिका भवति तावत्कालं सततं दिनमेव याम्या क्रान्ति(२४) र्यावत् तावत्सततं रात्रिरेव तद्यथा यत्र किल सप्ततिः(७०) पलांशास्तत्र लम्बो विंशतिः (२०) तत्र देशे विषुवद्वृत्तंदक्षिण क्षितिजादुपरिभागविंशत्योत्तरक्षितिजादधश्च तावतयदा रवेरुत्तरा क्रान्तिर्भागविंशतिर्भवति तदोत्तरक्षितिजेरविविम्बमर्धोदितं भूत्वान्मध्याह्ने दक्षिणक्षितिजादुपरि-याम्योत्तरमण्डले भागचत्वारिंशतोन्नतं भवति तदात्रिंशत्घटिका दिनदलम् अतोदिनं षष्टिः रात्रिः शून्यंतता द्वितीयदिने उत्तरक्रान्तेरधिकत्वाद्रविरुत्तरक्षितिजंनस्पृशति एवं प्रतिपर्ययं परमक्रान्ति (२४) र्यावदुपर्युपरिपरिभ्रमति एवं मिथुनान्ते उत्तरक्षितिजादुपरिभाग-चतुष्टयं याति पुनस्तेनैव क्रमेणावरोहति विंशतिभागा-धिका क्रान्ति र्यावत्तावत्कालं रविः सततं दृश्यः ताव-द्दिनमेव अनयैव युक्त्या दक्षिणगोले क्षितिजादधस्थेऽर्केसततं रात्रिरिति अतएव मेरौ षण्मासं दिनम्” प्रमि० ।तेनात्र देशे सौम्ययाम्ययोर्दिनरात्रिमानं वर्षः ।“विषुवद्वृत्तं द्युसदां क्षितिजत्वमितं तथा दैत्यानाम् ।उत्तरयाम्यौ क्रमशोमूर्धोर्द्ध्वगतौ ध्रुवौ यतस्तेषाम् ।उत्तरगोले क्षितिजादूर्द्ध्वं परितो भ्रमन्तमादित्यम् सव्यंत्रिदशाः सततं पश्यन्त्यसुरा अपसव्यगं याम्ये” सि० शि० ।अयनकालभेदे संहितोक्तेरन्यार्थपरत्वमाह ।“दिनं सुराणामयनं यदुत्तरं निशेतरत्सांहितिकैः प्रकीर्तितम् दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा तत्-फलकीर्तनाय तत् द्वन्द्वान्तमारोहति यैः क्रमेणतैरेव वृत्तैरवरोहतीनः यत्रैव दृष्टः प्रथमं देवैस्तत्रैवतिष्ठन्न विलोक्यते किम्?” सि० शि० “सांहितिकानां नचेदयमभिप्रायस्तर्हमेषादेरूर्ध्वं मिथुनान्तं यावत् यैर्वृत्तैरेवारोहणं कुर्वन्नपि देवैर्दृष्टः तैरेव पुनरवरोहणं कुर्वन्किं दृश्यत इति” प्रमि० तत्फलं दर्शितं श्रीपतिना“मृगादिराशिद्वयभानुभोगात् षट्चर्त्तवः स्युः शिशिरोवसन्तः ग्रीष्मश्च वर्षा शरच्च तद्वद्धेमन्तनामा कथितोऽत्रषष्ठः शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तदा-मरम् भवति दक्षिणमन्यदृतुत्रयं निगदिता रजनी मरुतांच सा गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम् ।सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत् खलु दक्षिणे च” ।इदानीं दिनरात्रिस्वरूपे पितृदिनञ्चाह “दनं दिनेशस्ययतोऽत्र दर्शने तमी तमोहन्तुरदर्शने सति कुपृष्ठ-गानां द्युनिशं यथा नृणां तथा पितॄणां शशिपृष्ठ-वासिनाम्” सि० शि० पितृदिनस्योदयास्तकालानाह ।“विधूर्ध्वभागे पितरोवसन्तः स्वाधः सुधादीधितिमाम-नन्ति पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोऽस्मात्द्युदलं तदेपाम्! भार्द्धान्तरत्वान्न विधोरधःस्थं तस्मान्नि-शीथः खलु पौर्णमास्याम् कृष्णे रविः पक्षदलेऽभ्युदेतिशुक्लेऽस्तमेत्यर्थत एव सिद्धम्” सि० शि० ।इदानीं देशविशेषेण राशिभेदान् सदोदिताननुदितांश्चाह ।त्र्यंशयुङ्नवरसाः (६९११/२०) पलांशका यत्र तत्र विषयेकदाचन दृश्यते मकरो नकार्मुकं किञ्च कर्कमिथुनौसदोदितौ यत्र साङ्घ्रिगजवाजिसंमिता (७८ १/४)स्तत्र वृश्चिकचतुष्टयं दृश्यतेऽथ वृषभाच्चतुष्टयंसर्वथा समुदितं लक्ष्यते यत्र तेऽथ नवतिः (९०)पलांशकास्तत्र काञ्चनगिरौ कदाचन दृश्यते भदलंतुलादिकं सर्वदा समुदितं क्रियादिकम्” सि०शि० “अयमर्थस्त्रिप्रश्ने “लम्बाधिका क्रान्तिरुदक् चयावात्तावद्दिनं सन्ततमेव तत्र” इत्यादिना सम्यक्क-थित एव यत्र वृश्चिकान्तक्रान्तितुल्यो लम्बस्तत्र तेपलांशाः” ६९ १/२० तत्र धनुर्मकरौ क्षितिजादधस्थिता-वेव भ्रमतः” कर्कमिथुनौ तूपर्येव (तेन देवभागे धनु-र्मकरस्थसूर्य्यकौ द्वौ मासौ रात्रिः शिष्टा दश मासा-दिनम्) एवमसुरभागे तथा पलांशके कक दिस्थरविकौद्वौ मासौ रात्रिः शिष्टा दशमासा दिनम् यत्र तुलान्त-क्रान्तितुल्योलम्बस्तत्राष्टसप्ततिःपञ्चदशकलाधिकाः ७८ १५ ।पलांशास्तत्र वृश्चिकादिचतुष्टयं क्षितिजादधो वृषभादि-कमुपरि “तेन देवभागे वृश्चिकादिस्थरविकाश्चत्वारोमासा-रात्रिः शिष्टा अष्टौमासादिनम् दैत्यभागे तु विपर्य्ययेणतथा दिनरात्री एवं मेरौ नवतिः ९० पलांशास्तत्र तुलादिषट्कमधोमेषादिकमुपरीति (तेन मेषादिषड्राशि-स्थरविकाः षण्मासादेवानां दिनं शिष्टा रात्रिः ।एवं तुलादिषडाशिस्फरविकाः षण्मासादैत्यानां दिनंशिष्टा रात्रिः) सर्बं भगोले भ्रामिते सति दृश्यते”प्रमि० “यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्चभवतोऽक्षलम्बकौ तौ क्रमाद्विषुवदह्न्यहर्द्दलेयेऽथवा न-तसमुन्नतालवाः” सि० शि० “चक्रयन्त्रेण ग्रहवेधवत् ध्रुवंविध्येत् तत्र नेम्यां ये उन्नतांशास्तेऽक्षांशाः ये नतास्तेलम्बांशाः अथ वा विषुवद्दिनार्धे येऽर्कस्य नतोन्नतां-शास्तेऽक्षलम्बांशा इति युक्तियुक्तम्” प्रमि० सप्तमरा-श्युदयस्यास्तकालताहेतुमाह तत्रैव “योऽभ्युदेति समयेनयेन तत् सप्तगोऽस्तमुपयाति तेन राशिरूर्ध्वमपमण्डलंकुजादर्धमेव सततं यतः स्थितम्” मू० “यो राशिर्येन कालेनउदेति तेन तत्सप्तमोऽस्तं याति ये मेषादीनामुदयास्ते तुला-दीनामस्तमयाः ये तुलादीनामुदयास्ते मेषादीनामस्त मयाइत्यर्थः यतः अपमवृत्त क्षितिजादुपरि अर्धमेव भवतिअर्धमधश्च अतो राश्योरुदयमस्तमयञ्च गच्छतोस्तुल्यकालताउपपद्यते इदानीं विशेषमाह” प्रमि० “यत्र लम्बजल-वा जिनो २४ नकास्तत्र नोदयचराद्यमुक्तवत् नान्यसं-स्थिततयान्यथोदितं येन नैष विषयो नृगोचरः” यस्मि-न्देशे षट्षष्टिभागाधिकः पलस्तत्र केचक राशयःसदोदयाः केचन सदा अस्तमिताः केचन प्रान्तादुद्गच्छान्तअतस्तत्र यथा कथितास्तथा उदया भवन्ति यावत्सदो-दितो रवि स्तावदहोरात्रवृत्तं क्षितिजं स्पृशति अहो-रात्रवृत्ते क्षितिजोन्मण्डलयोरन्तरं हि चरम् अतस्तत्रकुज्याचरज्यादिकमसत् शेषं स्पष्टम्” प्रमि० ।कालविभागाः सि० शि० दर्शिता यथा “गुर्वक्षरैःखेन्दुमितै १० रसुः स्यात् षड्भिः पलं तैघटिकाखषड्भिः स्याद्वा घटोषष्टिरहः खरामैर्मासो दिनैस्तैर्द्वि-कुभिश्च वर्षम्” “एकमात्रो लघुः द्विमात्रो गुरुः तथाच“स्वानुस्वारोविसर्गान्तोदीर्घोयुक्तपरस्तु यः” इति छन्दो-लक्षणप्रतिपादितम् यदक्षरं स्वानुस्वारं विसर्गात्तंदीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेयम् ।गुर्वक्षरस्योच्चार्यमाणस्य यावान् कालस्तद्दशकेनैकोऽसुःप्राणः प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छ्वासान्तर्वर्त्ती कालइत्यर्थः षड्भिः प्राणैरेक पानीयपलम् पलानां षष्ट्याघटी वटीनां षष्ट्या दिनम् त्रिंशद्दिनैरेकोमासःमासैर्द्वादशभिर्वर्षमिति कालस्य विभागो दशितः” प्रमि० ।भचक्रविभागस्तत्रैव विकलानां कला षष्ट्या तत्षष्ट्याभाग उच्यते तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते” ।ब्राह्मादि दिनभेदाः सू० सि० उक्ता यथा“ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा सौरंच सावनं चान्द्रमार्क्षं मानानि वै नव चतुर्भि-र्व्यवहारोऽत्र सौरचान्द्रर्क्षसावनैः बार्हस्पत्येन-षष्ट्यव्दं ज्ञेयं नान्यैस्तु नित्यशः” सू सि० “अत्रमनुष्यलोके सौरचान्द्रनाक्ष वनैश्चतुनिर्मानैर्पर्व हारःकर्मघटना षष्ट्यव्दं प्रभवादिषष्टिवर्षं जात्यभिप्राये-णैकवचनम् बार्हस्पत्येन बृहस्पतिमानेन बृहस्पति-मध्यमराशिभोगात्मककालेन प्रत्येकं ज्ञेयम् अन्यैरव-शिष्टैर्ब्राह्मदिव्यपित्र्यप्राजापत्यैः नित्यशः सदेत्यर्थः ।व्यवहारो नास्ति तुकारात् कादाचित्कत्वेन तैर्व्यव-क्षारः” र० ना अथ सौरेण व्यवहारं प्रदर्शयति“सौरेण द्युनिशोर्वामं षडशीतिमुखानि अयनंविषुवच्चैव संक्रान्तेः पुण्यकालता” सू० सि० “अहो-रात्र्योर्मानं सौरेण ज्ञेयम् प्रात्यहिकसूर्य्यगति-भोगादहोरात्रं भवतीत्यर्थः षडशीतिमुखानि वक्ष्य-माणानि चः समुच्चये तेन सौरमानेन ज्ञेयानिअयनं विपुवत् चः समुच्चये संक्रान्तेः पुण्यकालतासूर्य्यबिम्बकलासम्बद्धा सौरमानेन” र० ना० अथ षड-शीतिमुखमाह “तुलादिषडशीत्याह्नां षडशीतिमुखंक्रमात् तच्चतुष्टयमेव स्याद्द्विस्वभावेषु राशिषु” सू० सि० ।“तुलारम्मात् षडशीतिदिवसानां सौराणां षडशीति-सुखं भवति तच्चतुष्टयं षडशीतिमुखस्य चतुःसङ्ख्याद्विस्वभावेषु राशिषु चतुर्षु क्रमादेवं वक्ष्यमाणा भवति”र० ना० “षड्विंशे थनुषो भागे द्वाविंशेऽनिमिषस्यच ।मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे” सू० सि० ।“धनुराशेः षड्विंशतितमेऽंशे षडशीतिमुखं, मीनराशे-र्द्वाविंशतितमेऽंशे षडशीतिमुखम् चकारः समुच्चया-र्थकः प्रत्येकमन्वेति मिथुनराशेरष्टादशेऽंशे षडशीति-मुखं, कन्यायाश्चतुर्दशे भागे षडशीतिमुखम् अत एवतुलादितः षडशित्यंशो गणनया येषु राशिषु भवति तेराशयो द्विस्वभावाः षडशीतिमुखसञ्ज्ञा संक्रान्तिप्रकरणेसांहितिकैरुक्ताः” र० ना० अथ शडशीत्यंशगणनयाचत्वारि षडशीतिमुखान्युक्त्वा भगणांशपूर्त्त्यर्थमवशिष्टांशाःषोडशातिपुण्या इत्याह “ततः शेषाणि कन्यायायान्यहानि तु षोडश क्रतुभिस्तानि तुल्यानि पितॄणांदत्तमक्षयम्” सू० सि० “ततः कन्यादिचतुर्दशभागा-नन्तरं शेषाणि भगणभागेऽवशिष्टानि कन्याया यान्य-हानि सौरभागसमानि तानि षोडश तुकारात् पूर्व-दिनासमानि क्रतुभिर्यज्ञैः समानि अतिपुण्यानीत्यर्थः ।तत्र पितृणां दत्तं श्राद्धादि कृतमक्षयमनन्तफलदं भवति”र० ना० “अथ राश्यधिष्ठितक्रान्तिवृत्ते चत्वारि स्थानानिपदसन्धिस्थाने विषुवायनाभ्यां प्रसिद्धानीत्याह“भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम् अयनद्वितयंचैव चतस्रः प्रथितास्तु ताः” सू० सि० “भचक्रनाभौभगोलस्य ध्रुबद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वि-तयं विषुवद्द्वयं समसूत्रगं परस्परं व्याससूत्रान्तरितंध्रुवमध्ये विषुवद्वृत्तस्थानात् तद्वृत्ते क्रान्तिवृत्तभागौयौ लग्नौ तौ क्रमेण पूर्वापरौ विषुवत्सञ्ज्ञौ मेष-तुल्याख्यौ चेत्यर्थः अयनद्वितयमयनद्वयं कर्कमकरादि-रूपम् चः समुच्चये तेन समसूत्रगं ता विषुवाय-नाख्याः क्रान्तिवृत्तप्रदेशरूपा भ्रमयश्चतस्रश्चतुःङ्ख्याकाःप्रथिता गणितादौ पदादित्वेन प्रसिद्धाः एवकारा-दन्यराशोनां निरासः तुकारात् तासां समसूत्रस्थत्वे-ऽपि विषुवायनत्वाभावात् पदादित्वेनाप्रसिद्धिरित्यर्थः”र० ना० अथावशिष्टनामादिस्वरूपमन्यदप्याह ।“तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः नैरन्तर्यात् तुसंक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्” सू० सि० “तदन्तरेषुविषुवायनान्तरालेषु अत्रान्तरालानां चतुःस्थाने सद्भा-वाद्बहुवचनम् संक्रान्तिद्वितयं द्वितयं पुना राश्यादि-गागे ग्रहाणामाक्रमणं वारद्वयं भवति तदन्तरालेराश्यादिभागौ द्वौ भवत इत्यर्थः तथा हि मेषाख्य-विषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी कर्क-तुलयोरन्तराले सिंहकन्ययोरादी तुलामकरयोरन्त-राले वृश्चिकधनुषोरादी मकरमेषयोरन्तराले कुम्भ मीन-योरादी इति एवं विषुवानन्तरं संक्रमणद्वयमनन्तर-नयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमनन्तरंसंक्रान्तिद्वयमनन्तरमयनमित्यादि पौनःपुन्येन ज्ञेय-मित्यर्थः संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेषमाहनैरन्तर्य्यादिति निरन्तरतया सम्भूतायाः मंक्रान्तेःसकाशाद्विष्णुपदीद्वयं तदन्तराले इत्यर्थः अवगम्यंप्रथमसंक्रान्तिर्विष्णुपजसञ्ज्ञा तयोर्द्वयं तदभ्यन्तरे प्रत्येकंभवतीति तात्पर्य्यार्थः षडशीतिसञ्ज्ञं द्वितीयसंक्रमणंपूर्वसूचितं तयोरपि द्वयं तदन्तराले भवतीति ध्येयम्”र० ना० अथायनद्वयमाह “भानोर्मकरसंक्रान्तेःषण्मासा उत्तरायणम् कर्कादेस्तु तथैव स्यात् षण्-मासा दक्षिणायनम्” सू० सि० “सूर्यस्य मकरसंक्रान्तेःसकाशात् षट् सौरमासा उत्तरायणं भवति कर्कादेःकर्कसंक्रान्तेः सकाशात् तथा सूर्यभोगात एवकारा-दन्यग्रहनिरासः षण्मासाः तुकारात् सौराः ।दक्षिणायणं भवति” र० ना० अथर्तुमासवर्षाण्याह“द्विराशिनाथा ऋतवस्ततोऽपि शिशिरादयः मेषादयोद्वादशैते मासास्तैरैव वत्सरः” सू० मि० “ततो मकर-संक्रान्तेः सकाशात् अपिशब्दः उत्तरायणावधिनासमुच्चयार्थकः द्विराशिनाथा राशिद्बयस्वामिकाराशिद्वयार्कमोगात्मका इत्यर्थः शिशिरादयः शिशिर-वसन्तग्रीष्मवर्षाशरद्धेमन्ता ऋतवः कालविभागविशेषाभवन्ति एते सूर्यभोगविषयका मेषादयो राशयो द्वा-दश मासास्तैर्द्वाददशभिर्मासैः एवकारान्न्यूनाधिकव्यव-च्छेदः वत्सरः सौरवर्षं भवति” र० ना० अथ प्रस-ङ्गात् संक्रान्तौ पुण्यकालानयनमाह “अर्कबिम्बकलाःपष्ट्या गुणिताभुक्तिभाजिताः तदर्धनाड्यः संक्रान्ते-रर्वाक् पुण्यं तथापरे” सू० सि० “सूर्यस्य बिम्बप्रमाण-कला षष्ट्या गुणिताः सूर्यगत्या भक्तास्तस्य फलस्यार्द्धंतत्सङ्ख्याका घटिका इत्यर्थः संक्रान्तेः सूर्यस्य राशि-प्रवेशकालादित्यर्थः अर्वाक् पूर्वं पुण्यं स्नानादिधर्म-कृत्ये पुण्यघटिकाः पुण्यवृद्धिकारिकाः अपरे संक्रान्त्यु-त्तरकाले तथा स्नानादिधर्भकृत्ये पुण्यवृद्धिदा इत्यर्थः ।अत्रोपपत्तिः सूर्यविम्बकेन्द्रस्य राश्यादौ सञ्चरणकालःसंक्रसणकालस्तस्य सूक्ष्मत्वेन दुर्ज्ञेयत्वात् स्थूलकालः को-ऽप्यभ्युपेयः तु राश्यादौ बिम्बसञ्चरणरूपोऽङ्गीकृतोबिम्बसम्बन्धात् अतोयदिसूर्य्यगत्या षष्टिसावनघटिका-स्तदा सूर्य्यबिम्बकलाभिः का इत्यनुपातानीता विम्बघटिकाःसंक्रान्तिकालः स्थूलेः प्राङ्नेमिसञ्चरणकालात् पश्चिम-नेमिसञ्चरणकालपर्य्यन्तं तदर्द्धघटिका व्यासार्द्धघटिकाइति संक्रान्तिकालात् ताभिः पूर्वमपरत्र काले प्रागपर-नेम्योः क्रमेण सञ्चरणात् पूर्वोत्तरकाले पुण्या इति” र० नाअथ सौरमुक्त्वा क्रमप्राप्तं चान्द्रमानमाह “अर्काद्वि-निःसृतः प्राचीं यद्यात्यहरहः शशी तच्चान्द्रमानमंशैस्तुज्ञेया द्वादशभिस्तिथिः” सू० सि० “सूर्य्यात् समागमंत्यक्त्वा विनिर्गतः पृथग्भूतः संश्चन्द्रोऽहरहः प्रतिदिनंयत् तत्सङ्ख्यामितं प्राचीं पूर्वा दिशं गच्छति तत्प्रतिदिनं चान्द्रमानं तत्तु गत्यन्तरांशमितम् ननुसौरदिनं सूर्यांशेन यथा भवति तथैतद्रूपैर्भागैः कियद्भिःपूर्णं चान्द्रं दिनं भवतीत्यत आह अंशैरिति भागैस्तु-कारात् सूर्य्यचन्द्रान्तरोत्पन्नैः, तस्य तद्रूपत्वात् द्वादशभि-र्द्वादशसङ्ख्याकैस्तिथिर्ज्ञेया एकं चान्द्रं दिनं ज्ञेयमि-त्यर्थः एतदुक्तं भवति सूर्य्यचन्द्रयोगाच्चान्द्रदिनप्रवृत्तेःपुनर्योगे माससमाप्तेर्भगणान्तरेण चान्द्रे मासस्त्रिंशच्चान्द्र-दिनात्मकः अतस्त्रिंशद्दिनैर्यदि भगणांशान्तरं तदैकेनकिमिति द्वादशभागैरेकं चान्द्रःदनम् “दर्शः सूर्य्येन्दु-सङ्गमः” इत्यभिधानाद्दर्शावधिकमासस्य त्रिंशत्तिथ्यात्मकत्वात्तिथिश्चान्द्रदिनरूपेति” र० ना० अथ चान्द्रव्यवहारमाह“तिथिः करणमुद्वाहः क्षौरं सर्बक्रियास्तथाः व्रतोपबास-यात्राणां किया चान्द्रेण गृह्यते” सू० सि० “तिथिःप्रतिपदाद्या करणं बवादिकमुद्वाहो विवाहः क्षौरंचौलकर्म एतदाद्याः सर्वक्रिया व्रतबन्धाद्युत्सवरूपाव्रतोपवासयात्राणां नियभोपवासगमनानां क्रिया करणम् ।तथा समुच्चयार्थकः चान्द्रमानेन गृह्यते अङ्गी-क्रियते” र० ना० अथ चान्द्रमासं प्रसङ्गात् पतृमानंचाह “त्रिंशता तिथिभिर्मासश्चान्द्रः, पित्र्यमहः स्मृतम् ।निशा च, मासपक्षान्तौ तथोर्मध्ये विभागतः” सू० सि० ।“त्रिंशता त्रिंशन्मितैस्तिथिभिश्चान्द्रो मासः पित्र्यंपि सम्बन्धि अहर्दिनम निशा रात्रिः पितृ-सम्बद्धा चकारो व्यवस्थार्थकः तेनोभयं नैकं प्रत्येकं, किन्तु मिलितम् स्मृतमिति लिङ्गानुरोधेनोभयत्रान्वेतितथा चान्द्रो मासः पित्र्याहोरात्रञ्चेत्यर्थः फलितः ।मासपक्षान्तौ मासान्तो दर्शान्तः, पक्षान्तः पूर्णिमान्तःएतावित्यर्थः विभागतः क्रमेणेत्यर्थः तयोः पि-त्र्याहोरात्रयोर्मध्येऽर्द्धे भवतः दर्शातः पितॄणांमध्याह्नः, पूर्णिमान्तः पितॄणां मध्यरात्रमित्यर्थः अर्थात्कृष्णाष्टम्यर्धे दिनप्रारम्भः शुक्लाष्टम्यर्धे दिनान्त इतिसिद्धम्” र० ना० अथ क्रमप्राप्तं नाक्षत्रमानं प्रसङ्गा-न्माससञ्ज्ञां चाह “भचक्रभ्रमणं नित्यं नाक्षत्रं दिन-मुच्यते नक्षत्रनाम्ना मासास्ते ज्ञेयाः पर्वान्तयोगतः”“नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रसमूहस्य प्रवहवायुकृत-परिभ्रमः नाक्षत्रं नक्षत्रसम्बन्धि दिनं मानज्ञैः कथ्यतेनित्यमित्यनेन चन्द्रभोगनक्षत्रभोगो नाक्षत्रमित्यस्य निरासःभचक्रभ्रमणानुपपपत्तेः मासमञ्ज्ञा महानक्षत्र-नाम्नेति पर्वान्तयोगतः पर्बान्तः पूर्णिमान्तः तस्ययोगात तत्सम्बन्धात् नक्षत्रसञ्ज्ञया मासाः तुका-राच्चान्द्रा अवगम्याः पूर्णिमान्तस्थितचन्द्रनक्षत्रसञ्ज्ञो मासोज्ञेय इति तात्पर्य्यार्थः तथाहि यद्दर्शान्तावधिकश्चान्द्रीमासस्तदभ्यन्तरस्थितपूर्णिमान्तस्थितचन्द्रनक्षत्रसञ्ज्ञः यथाचित्रासम्बन्धाच्चैत्रः विशाखासम्बन्धाद्वैशाखः ज्ये-ष्ठासम्बन्धाज्ज्यैष्ठः आषाढासम्बन्धादाषाढः श्रवण-सम्बन्धाच्छ्रावणः भाद्रपदासम्बन्धाद्भाद्रपदः अश्वि-नीसम्बन्धादाश्विनः कृत्तिकासम्बन्धात् कार्त्तिकः ।मृगशीर्षसम्बन्धान्मार्गशीर्षः पुष्पसम्बन्धात् पौषः ।मघासम्बन्धान्माघः फाल्गुनीसम्बन्धात् फाल्गुन इति”र० ना० ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्-सञ्ज्ञा मासानामुचितेत्यत आह “कार्त्तिक्यादिषुसंयोगे कृत्तिकादि द्वयं द्वयम् अन्त्योपान्त्यौ पञ्चमश्चत्रिधा मासत्रयं स्मृतम्” सू० सि० नक्षत्रसंयोगार्थमितिनिमित्तसप्तमी कार्त्तिक्यादिषु कार्त्तिकमासादीनांपौर्णमासीष्वत्यिर्थः कृत्तिकादि द्वयं द्वयं नक्षत्रं कथितंकत्तिकारोहिणीभ्यां कार्त्तिकः मृगार्द्राभ्यां मार्ग शीर्षः ।पुनर्बसुपुष्पाभ्यां पौषः आश्लेषामघाभ्यां माघः ।चित्रास्वातिभ्यां चैत्रः विशाखानुराधाभ्यां वैशाखः ।ज्येष्ठामूलाभ्यां ज्यैष्ठः पूर्वोत्तराषाढाभ्यामाषाढः ।श्रवणधनिष्ठाभ्यां श्रावण इति फलितम् अविशिष्ट-मासानामाह अन्त्योपान्त्याविति अत्र कार्तिक-स्यादित्वेन ग्रहणादन्त्य आश्विनः उपान्त्यो भाद्रपदः ।एतौ मासौ पञ्चमः फाल्गुनः चकारः समुच्चये इतिमासत्रयं त्रिधा स्थानत्रय उक्तम रेवत्यश्विनीभरणीतिनक्षत्रत्रयसम्बन्धादाश्विनः शततारापूर्वोत्तराभाद्रपदेतिनक्षत्रत्रयसम्बन्धाद्भाद्रपदः पूर्वोत्तराफाल्गु नीहस्तेतिनक्षत्रत्रयसम्बन्धात् फाल्गुन इति सिद्धम्” र० ना० ।अथ प्रसङ्गात् कार्त्तिकादिबृहस्पतिवर्षाण्याह “वैशा-खादिषु कृष्णे योगः पञ्चदशे तिथौ कार्त्तिकादीनिवर्षाणि गुरोरस्तोदयात् तथा” सू० सि० यथा पौर्ण-मास्यां नक्षत्रसम्बन्धेन तत्सञ्ज्ञो मासो भवति तथेतिसमुच्चयार्थकम् बृहस्पतेः सूर्यसान्निध्यदूरत्वाभ्यामस्ता-दुदयाद्वा वैशाखादिषु द्वादशसु सेषु कृष्णवक्षे पञ्चदशेतिथौ अमायामित्यर्थः चकारः पौर्णमासीसम्ब-न्धात् समुच्चयार्थकः योगो दिननक्षत्रसम्बन्धः कार्त्ति-कादीनि द्वादश वर्षाणि भवन्ति वैशाखकृष्णपक्षपञ्च-दश्याममारूपायां बृहस्पतेरस्त उदये वा जाते सतितदादि वृहस्पतिवर्षं कृत्तिकादिनक्षत्रसम्बन्धात् कार्त्तिक-सञ्ज्ञम् एवं ज्येष्ठाषाढश्रावणभाद्रपदाश्विनकार्त्तिक-मार्गशीर्षपौषमाघ फाल्गुनचैत्रामासु मृगपुष्पगघापूफा-चित्राविशाखाज्येष्ठापूषाश्रवणपूभाश्विनीदिननक्षत्रसम्बन्धान्मार्गशीर्षादीनि भबन्ति अत्रापि प्रोक्तनक्षत्रद्वयत्रय-सम्बन्धः प्रागुक्तो बोध्यः पञ्चदशे इत्युपलक्षणम् तेनयद्दिने वृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठित-नक्षत्रं तत्सञ्ज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पर्य्यम् ।संहिताग्रन्थेऽस्तोदयवशाद्वर्षोक्तिः परमिदानीमुदयवर्ष-व्यवहारो गणकैर्गण्यते “येनोदितेज्य इत्युक्तेरिति” र० ना०अथ क्रमप्राप्तं सावनमाह “उदयादोदयं भानोःसावनं तत् प्रकीर्त्तितम् सावनानि स्युरेतेन यज्ञकाल-विधिस्तु तैः” सू० सि० सूर्य्यस्योदयादुदयकालमारभ्या-व्यवहितोदयकालपर्य्यन्तं यत् कालात्मकं तत् सावनंमानज्ञैरुक्तम् एतेनोदयद्वयान्तरात्मकालस्य गणनयासावनानि वसुद्ध्यष्टाद्रीत्यादिना मध्याधिकारोक्तानि भ-वन्ति तद्व्यवहारमाह यज्ञकालविधिरिति ।यज्ञस्य यः कालस्तस्य गणना तैः सावनैः तुकारोऽन्य-माननिरासार्थकैवकारपरः” र० ना० अथ व्यवहारा-न्तरमाह “सूतकादिपरिच्छेदो दिनमासाव्दपास्तथा ।मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते” सू० सि० “सूतकंजन्ममरणसम्बन्धि आदिपदग्राह्यं चिकित्सितचान्द्रा-यणादि तस्य परिच्छेदो निर्णयः दिनाधिपमासे-श्वरवर्षेश्वराः तथा समुच्चये ग्रहाणां गतिर्मध्यमा ।तुकारात् स्पष्टगतेर्निरासः तस्याः प्रतिक्षणं वैलक्षण्या-द्दिनसम्बन्धस्याभावात् एतेन स्पष्टगत्या स्पष्टग्रहस्यचालनं निरस्तं स्थूलत्वादिति सूचितम् सावनमानेनएवकारादन्यमाननिरासः गृह्यते सुधीभिरङ्गीक्रियते ।अत्र बहुवचनानुरोधेन गृह्यत इत्यत्र बहुवचनं ज्ञेयम् ।अथ दिव्यमानमाह “सुरासुराणामन्योन्यमहोरात्रंविपर्ययात् यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात्”सू० सि० “पूर्वार्धं पूर्वं व्याख्यातम् यदहोरात्रंपूर्वार्वोक्तं सूर्य्यस्य भगणभोगपूर्तेः प्रोक्तं पूर्वमनेकधानिर्णोतं तदहोरात्रं दिव्यमानं स्यात्” र० ना० अथाव-शिष्टे प्राजापत्यब्राह्ममाने आह “मन्वन्तरव्यतस्थाच प्राजाप्रत्यमुदाहृतम् तत्र द्युनिशोर्भेदो ब्राह्मंकल्पः प्रकीर्त्तितम्” सू० सि० ।दृष्टान्त भूगोलभगोलरचनापकारः सू० सि० दर्शितो यथा“भूभगोलस्य रचानां कुर्व्यादाश्चर्य्यकारिणीम् ट्य-भीष्टं पृथिवीगोलं कारयित्वा तु दारवम् दण्डं तन्म-ध्यगं मेरोरुभयत्र विनिर्गतम् आधारकक्षाद्वितयं क-क्षां वैषुवतीं तथा” सू० सि० “भगोलस्य भूगोलाद-भितः संस्थितस्य नक्षत्राधिष्ठितगोलस्य प्रागव्यायोक्तार्थस्यरचनां स्थितिज्ञानार्थं दृष्टान्तात्मकगोलस्य निर्मितिंसुधीर्गणको गोलशिलपज्ञः कुर्य्यात् ननु त्वदुक्तेन सर्वंज्ञानं भवतीति दृष्टान्तगोलनिबन्धनं व्यर्थमेवेत्यत आहआश्चर्य्यकारिणीमिति उक्तप्रतीत्युद्भूताद्भुतबुद्धिजन-यित्रीं तथाचोक्तेन खाधस्तिर्य्यग्भागयोर्लोकावस्थानस्यतद्भागस्थभगोलप्रदेशस्य भूरेर्निराधारत्वादेश्च ज्ञानंमनसि सप्रतीतिकं भवत्यतो दृष्टान्तगोले तन्निश्चयस-म्भवात् तन्निवन्धनमावश्यकमिति भावः कथं रचनांकुर्य्या दथत आह अभीष्टमिति मुवो गोलमभीष्टंस्वेच्छाकल्पितपरंधिप्रमाणकं दारवं काष्ठघटितं सच्छिद्रंकारयित्वा काष्ठशिल्पज्ञद्वारा कृत्वेत्यर्थः मेरोरनुकलपरूपं दण्डकाष्ठं तन्मध्यगं तस्य ष्ठघटितभूगोलस्यमध्ये छिद्रमध्ये शिथिलतया स्थितम् उभयत्र भूगो-लस्थव्यासप्रमाणच्छिद्रस्याग्राभ्यां बहिरित्यर्थः विनि-र्गतमेकाग्रादन्यतराग्रावशिष्टदण्डप्रदेशतुल्यं निःसृतम् ।उभयाग्राभ्यां तुल्यौ दण्डपदेशौ यथा स्यातां तथाकुर्य्यादित्यर्थः भगोलनिबन्धनार्थमाधारवृत्तद्वयमाहआधारकक्षाद्वितयमिति भगोलनिबन्धनार्थमादावा-श्रयार्थं वृत्तयोर्द्वितयमुर्द्ध्वाधस्तिर्यगवस्थानक्रमेणैकमेक-मेवं द्वयमित्यर्थः भूगोलादुभयतस्तुल्यान्तरेण दण्डप्र-देशयोः प्रोतमेकं वृत्तं कुर्य्यात् तत्तुल्यं वृतमपरं त-दर्धच्छेदेन दण्डप्रोतं कुर्यादिति सिद्धोऽर्थः एतद्वृत्त-द्वयव्यतिरेकेण भूगोलादभितो भगोलनिबन्धनानुपपत्तेः ।भगोलनिबन्धनारम्भमाह कक्षेति वैषुवतीं विषुवस-म्बन्धिनीं कक्षां वृत्तपरिधिं विषुवद्वृत्तमित्यर्थः तथाधा-रवृत्तद्वयस्यार्द्धच्छेदेन भगोलमध्यवृत्तानुकल्पेन गणकेननिबद्धामित्यर्थः” र० ना० अथ मेषादिद्वादशराशीनाम-होरात्रवृत्तनिबन्धनमन्यदपि श्लोकपञ्चकेनाह “भगणां-शाङ्गुलैः कार्य्या दलितैस्तिस्र एव ताः स्वाहीरात्रा-र्धकर्णैश्च तत्प्रमाणानुमानतः क्रान्तिविक्षेपभागैश्च द-लितैर्दक्षिणोत्तरैः स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनाम-पक्रमात् कक्षाः प्रकल्पयेत् ताश्च कर्कादीनां विपर्य-यात् तद्वत् तिस्रस्तुलादीनां मृगादीनां विलोमतः ।याम्यगोल श्रिताः कायांः कक्षाधाराद्द्वयोरपि याम्यो-दग्गोलसंस्थानां भानामभिजितस्तथा सप्तर्षीणामग-स्त्यस्य ब्रह्मादीनां कल्पयेत् मध्ये वैषुवती कक्षासर्वेषावेव संस्थिता” सू० सि० “भगणांशाङ्गुलैः द्वा-दशराशिभागैः षष्ट्यधिकशतत्रयपरिमितङ्गुलैः दलितःसमविभागेन खण्डितैरङ्कितैरित्यर्थः ताः कक्षाः वंश-शलाकावृत्तात्मिकास्तिस्रः त्रिसङ्ख्याकाः एवकारा-दङ्कने वृत्ते न्यूनाधिकव्यवच्छेदः शिल्पज्ञेन गोल-गणितज्ञेन कार्याः एताः पूर्ववृत्तप्रमाणेन कार्याइत्यभिप्रायेणाह स्वाहोरात्रार्द्धकर्णैरिति स्वशब्देनमेषादित्रिकं तस्य प्रतिराश्यहोरात्रवृत्तस्यार्द्धकर्णो व्यासा-र्द्धं द्युज्या ताभिरित्यर्थः चकारात् कार्याः ।स्वस्वद्युज्यामितेन व्यासार्द्धेन मेषादित्रयाणां वृत्तत्रयंकार्थमित्यर्थः ननु स्पष्टाधिकारोक्ताहोरात्रार्द्धकर्णा-नयने युक्त्यभावात् तैर्वृत्तनिर्माणं कुतः कार्यमित्यतःआह तत्प्रमाणानुमानत इति विषुवतकक्षाप्रमा-णानुमानाद्वृत्तत्रयं कार्यम् यथा विषुवद्वृत्तं पूर्ववृत्त-समम् तथा तदनुरोधेन मेषान्तवृत्तमल्पं तदनुरोधेनवृषान्तवृत्तमल्पं तदनुरोधेन मिथुनान्तवृत्तमल्पमित्युत्तरो-त्तरमल्पव्यासार्द्धवृत्तम् तत्त्वहोरात्रवृत्तमिति द्युज्या-व्यासार्द्धेन वृत्तनिर्माणं युक्तियुक्तं क्रान्तिज्यावर्गो-नात् त्रिज्यावर्गान्मूलस्याहोरात्रवृत्तव्यासार्द्धत्वादितिभावः वृत्तत्रयं सिद्धं कृत्वा दृष्टान्तगोले निबध्नीतः ।क्रान्तिविक्षेषभागैरिति क्रान्तिवृचस्य विषुवद्वृत्तप्रदे-शाद्विक्षिप्तपद्दशा यैरंशैः चकारादाधारवृत्तस्थैर्दलितैःसमपिभागेन स्वण्डितैरङ्कितैः दक्षिणोत्तरैर्विषुवद्वृत्त-क्रान्तिवृत्तपदेशयोर्दक्षिणोत्तरान्तरात्मकैरुक्तलक्षणैः स्वकीयैःखकीयैः स्वराशिसम्बद्धैरपक्रमैः स्पष्टाघिकारानीतक्रा-न्त्यंशैर्मेषादीनां मेषादिराशित्रयान्तानां मेषान्तवृषान्त-मिथुनान्तानामित्यर्थः तिस्रस्त्रिसङ्ख्याकाः प्राङ्निर्मितावृत्तरूपाः कक्षाः अपक्रमात् अपशब्दस्योपसर्गत्वात्क्रमादित्यर्थः प्रकल्पयेत् शिल्पज्ञगणको विषुव-द्वृत्तानुरोधेनाषारवृत्तद्वये उत्तरतो निबन्धयेदित्यर्थः ।कर्कादीनामाह ता इति मेषादिकक्षा निबद्धाःकर्कादीनां कर्कसिंहकन्यानामादिप्रदेशानां विपर्ययात्व्यत्यासात् चकारः समुच्चये तेन प्रकल्पयेदित्यर्थः ।मिथुनान्तवृत्तं कर्कादे, र्वृषान्तवृत्तं सिंहादे, र्मेषान्तवृत्तंकन्यादेरिति फलितम् तुलादीनामाह तद्वदिति ।तुलादीमां तुलावृश्चिकधन्विनां तिस्रः अन्यास्त्रि-सङ्ख्यकाः कक्षास्तद्घदेकद्वित्रिराशिक्रान्त्यंशैस्तुलान्तवृश्चि-कान्तधनुरन्तानां याम्यगोलाश्रिताः विषुवद्वृत्ताद्द-क्षिणनाग आधारवृत्तद्वये निबद्धाः कार्याः गणके-नेति शेषः मकरादीनामाह मृनादीनामिति वि-लोमत उत्क्रमात् तुलादिसम्बद्धाः कक्षा मकरादीनांभवन्ति धनुरन्तवृत्तं मकरादे, र्वृश्चिकान्तवृत्तं कुम्भादे, -स्तुलान्तवृत्तं मीनादेरिति फलितम् ताराणां कक्षा-निबन्धनमाह कक्षाधारादिति मानामश्विन्यादिसप्त-विंशतिनक्षत्रविम्बानां याम्योदग्गोलसंस्थानां विषुवद्वृ-त्ताद्दक्षिणोत्तरभागयोर्यषायोग्यमवस्थितानां यन्नक्षत्रध्रु-बकस्पष्टक्रान्तिरुत्तरा तन्नक्षत्राणामुत्तरभागावस्थितानांयेषां स्पष्टक्रात्तिदक्षिणा तेषां दक्षिणभागावस्थिताना-मित्यर्थः द्वयोर्दक्षिणोत्तरभागयोः अपिशब्दो या-म्योत्तरनक्षत्रक्रमेण संबन्धार्थकः कक्षाधारात् कक्षा-णामाधारवृत्तद्वयात् तयोरित्यर्थः सप्तम्यर्थे पञ्चमी ।कक्षाः स्वस्पष्टक्रान्तिज्येत्पन्नद्युज्याव्यासार्द्धप्रमाणेन वृ-त्ताकाराः प्रकल्पयेत् शिलपज्ञो निबन्धयेत् अन्येपा-मप्याह अभिजित इति अभिजिन्नक्षत्रविम्बस्य सप्त-र्षिविम्बानामगस्त्यनक्षत्रविब्धानां चकारोऽवृसन्धेयः ।तथा कक्षा यथायोग्यं प्रकलपयेदित्यर्थः निबन्धनप्र-कारमुपसंहरति मध्य इति सर्वासामुक्तकक्षाणांमध्ये तुल्यभागेऽनाधारवृत्तमध्यप्रदेशे एवकारादन्थ-योगव्यवच्छेदः वैषुवती कक्षा विषुवसन्वन्धिनी वृत्त-रूपा संस्थिता यथाऽवस्थिता भवति तथा शिल्पज्ञः कक्षांनिवन्धयेदित्यर्थः विषुवद्वृत्तात् स्वस्पष्टक्रान्त्यन्तरेणस्वद्युज्याव्यासार्द्धप्रमाणेनाहोरात्रवृतमाधारवृत्तयोर्निबन्ध-येदिति निष्कृष्टोऽर्थः” र० ना० अथ गोले मेषादि-राशिसन्निवेशं सार्धश्लोकेनाह “तदाधारयुतेरूर्द्ध्वम-यने विषुवद्द्वयम् विषुवत्स्थानतो भागैः स्फुटैर्भगण-सञ्चरात् क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिः प्रकल्-पयेत्” सू० सि० “तदाधारयुतेस्तत् विषुवद्वृत्तमाधार-वृत्तं तयोर्युतेः सम्पातादूर्द्धमुपरि अन्तिमाहोरात्रा-धारवृत्तयोः सम्पातेऽयने दाक्षणोत्तरायणसन्धिस्थाने भवतःअत्रोर्ध्वपदसञ्चाराधारवृत्तमूर्ध्वाधरं ग्राह्यं तिर्यगु-न्मण्डलाकारम् तेनैतत् फलितम् विषुवद्वृत्तस्योर्ध्वा-धराधारवृत्ते ऊर्ध्वमधश्च यत्र सम्पातस्तत्रीर्द्ध्वसम्पातान्म-कराद्यहोरात्रवृत्तं चतुर्विंशत्यंशैस्तदाधारवृत्ते दक्षिणतोयत्र लग्नं तत्रोत्तरायणसन्धिस्थानम् एवमधः स-म्प तात् कर्काद्यहोरात्रवृत्तं चतुर्वंशत्यंशैस्तदाधारवृत्तेउत्तरतो यत्र लग्नं तत्र दक्षिणायणसन्धिस्थानमिति ।अयनाद्विषुवस्य विपरीतस्थितत्वादूर्ध्वशब्दयोजितविपरी-ताधःशब्दसम्बन्धाद्विषुबद्वयं भवति तात्पर्य्यार्थस्तु ति-र्यगुन्मण्डलाकाराधारवृत्तविषुवद्वृत्तसम्पातौ पूर्वापरौक्रमेण मेषादितुलादिरूपौ बिषुवत्स्थाने भवत इति ।अथ राशिसाकल्यसन्निबेशमाह विषुवत्स्थानत इति ।विषुवप्रदेशात् स्फुटैराशिसम्बन्धिभिस्त्रिंशन्मितैरंशैर्भग-णसञ्चाराद्राशिसाकल्यसन्निवेशात् तिर्यग्ज्याभिरुक्तवृत्तानु-कारातिरिक्तानुकारसूत्रवृत्तप्रदेशैरजादीनां मेषादीनाम् ।एवमयनविषुवकल्पनरीत्या तदन्तराले क्षेत्राणि स्थानानिसुधोर्मणकः प्रकल्पयेदङ्कयेत् यद्यथा पूर्वदिक्स्थविषुवस्था-नाद्गोलवृत्तद्वादशांशखण्डप्रदेशेन मेषान्ताहोरात्रवृत्ते पूर्वभागेयत्र स्यानं तस्मात् तदन्तरेण वृषान्ताहीरात्रवृत्ते तदस्तरेणवृषान्तस्थानमस्मादयनसन्धिस्थानं तत्प्रदेशान्तरेणामिथुनान्त-स्थानमस्मात् पश्चिमभागे कर्कान्ताहोरात्रवृत्ते तदन्तरेणकर्कान्तस्थानमस्मादपि सिंहान्ताहोरात्रवृत्ते तदन्तरेण सिंहान्वस्थानमस्म दपि तदत्तरेण पश्चिमविषुवस्थानं कन्यान्तस्था-नमस्मादपि तुलान्ताहोरात्रवृत्ते तदनरेण तुलान्तस्थान-नस्मादपि वृश्चिकाकान्ताहोरात्रवृक्षे तदन्तरेण वृश्चिकान्त-स्थानमस्मादपि तदन्तरेण दक्षिणायनसन्धिस्थानं धनुरन्त-स्थानमस्मात् कुम्भाद्यहोरात्रवृत्ते तदन्तरेण मकरान्तस्थान-मस्मादपि मीनाद्यहोरात्रवृत्ते तदन्तरेण कुम्भान्तस्थानंमीनादिस्थानं अस्मादपि पूर्वविषुवे मीनान्तस्थानं मेषादि-स्थानं तदन्तरेणेति व्यक्तम्” र० ना० ननु गोले वृत्ते द्वा-दशराशीनां सत्त्वादन्यथा चक्रकलानुपपत्तेरित्यत्रैकवृत्ता-भावात् कथं राश्यङ्कनं? राशिविभानुपपत्तिश्च अन्तरा-लभागस्याकाशात्मकत्वादित्यतो वृत्तकथनच्छलेन पूर्वोक्तंस्पष्टयन् सूर्यस्तद्वृत्ते भगणभोगं करोतीत्याह “अयना-दयनं चैव कक्षा तिर्यक् तथापरा क्रान्तिसञज्ञा तयासूर्यः सदा पर्येति भासयन्” सू० सि० “अयनस्थान-मारभ्य परिवर्त्ततदयनस्थानपर्य्यन्तं चकार आरम्भ-समाप्त्योर्भिन्नायनस्थाननिरासार्थकः अपरा गोल आ-धारवृत्तसमा वृत्तरूपा कक्षा तथा राश्यङ्कमार्गेण एवकारोऽन्यमार्गव्यवच्छेदार्थकः तिर्यक् उक्तवृत्तानु-कारविलक्षणानुकारा क्रान्तिसंज्ञा क्रमणं क्रान्तिः ।ग्रहगमनभोगज्ञानार्थं वृत्तं तत्सञ्ज्ञमनुकल्पतम् अय-नविषुवद्वयसंसक्तं क्रान्तिवृत्तं द्वादशराश्यङ्कितं गोले नि-बन्धयेदिति तात्पर्यार्थः भासयन् भुवनानि प्रकाशयन्सन् सूर्यः एतेन चन्द्रादीनां निरासः सदा निर-न्तरं तया क्रान्तिसञ्ज्ञया कक्षया पर्येति स्वशक्त्या गच्छन् भगणपरिपूर्त्तिभोगं करोति सूर्य्यगत्यनुरोधेननियतं क्रान्तिवृत्तं कलिपतमिति भावः” ननुचन्द्राद्याःक्रान्तिवृत्ते कुतो गच्छन्तीत्यत आह” र० ना० “चन्द्राद्याश्चस्वकैः पातैरपमण्डलमाश्रितैः ततोऽपकृष्टा दृश्यन्तेविक्षेपान्ते ष्वपक्रमात्” सू० सि० “चन्द्रादयोऽर्कव्यति-रिक्ता ग्रहाः स्वकैः स्वीयैः पातैः पाताख्यदैवतैरपम-ण्डलं क्रान्तिवृत्तमाश्रितैः स्वस्वभोगस्थानेऽधिष्ठितैस्ततःक्रान्तिवृत्तान्तर्गतग्रहभोगस्थानादित्यर्थः चकाराविक्षेपान्तरेणापकृष्टा दक्षिणत उत्तरतो वा कर्षिता भवन्ति ।अतः कारणादपक्रमात् क्रान्तिवृत्तान्तर्गतस्वभोगस्थाना-दित्यर्थः दक्षिणत उत्तरतो वा विक्षेपान्तेषु गणिता-गतविक्षेपकलाग्रस्थानेषु भूस्थजनैर्द्दश्यन्ते तथाच क्रा-न्तिवृत्तं यथा विषुवन्मण्डलेऽवस्थितं तथा क्रान्तिवृत्तेपातस्थाने तत्षड्भान्तरस्थाने लग्नमुकपरमविक्षेपक-लाभिस्तत्त्रिभान्तरस्थानादूर्ध्वावःक्रमेण दक्षिणोत्तरतोलग्नं वृत्तं विक्षेपवृत्तं चन्द्रादिगत्यनुरोधेन स्वं स्वंमिन्नं कल्पितं तत्र गच्छतीति भावः” र० ना० ।अथ त्रिप्रश्नाधिकारोक्तलग्नमध्यलग्नयोः स्वरूपमाह“उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात् लङ्कोदयैर्यथासिद्धं खमध्योपरि मध्यमम्” सू० सि० “उद-यक्षितिजे क्षितिजवृत्तस्य पूर्वदिग्देश इत्यर्थः लग्नंक्रान्तिवृत्तं यत्प्रदेशे प्रवहवायुना संसक्तं तत्पदेशो मे-षाद्यवधिभोगेनोदयलग्नमुच्यत इत्यर्थः प्रसङ्गादस्तलग्न-स्वरूपमाह अस्तमिति तद्वशादुदयलग्नानुरोधाद-स्तमस्तक्षितिजं क्षितिजवृत्तस्य पश्चिमदिक्प्रदेशमित्यर्थः ।क्रान्तिवृत्तं गच्छत् यत्प्रदेशेन प्रवहवायुना संलम्मंतत्प्रदेशो मेषाद्यवधिभोगेनास्तलग्नमुच्यत इत्यर्थः ।तथा क्षितिजोर्द्ध्वं तथा क्रान्तिवृत्तस्य सद्भावादुदयास्त-लग्नयोः षट्राश्यन्तरं सिद्धम् लङ्कोदयैर्निरक्षदेशीयराश्यु-दयासुभिः यथा त्रिप्रश्नाधिकारोक्तप्रकारेण तत्सङ्ख्या-मितं सिद्धं निष्पन्नम् मध्यमं मध्यमलग्नं तत् खमध्यो-परि खस्य दृश्यांशविभागस्य मध्यं मध्यगतदक्षिणोत्तरसू-त्रवृत्तानुकारप्रदेशरूपं नतु खमध्यं मास्कराचार्याभि-मतं खखस्तिकं तल्लग्नस्य कादाचित्कत्वेन तदानुत्पत्तेः ।तस्योपरि स्थितं क्रान्तिवृत्तं याम्योत्तरवृत्ते यत्प्रदेशेनलग्नं तत्प्रदेशो मेषाद्यवधिभोगेन मध्यलग्नमुच्यत इतितात्पर्यार्थः” र० ना० अथ त्रिप्रश्नाकिकारोक्तान्त्यायाःस्वरूपं स्पष्टाधिकारोक्तचरज्यायाः स्वरूप चाह “भ-मध्याक्षतिजयोर्मध्ये या ज्या सान्त्याभिधीयते ज्ञेयाचरदलज्या पिषुवत्क्षितिजान्तरम्” सू० सि० “याउत्तरगोले त्रिज्या चरज्यायुतिरूपा दक्षिणगोले चरज्योन-त्रिज्यारूपा त्रिप्रश्नाधिकारोक्ता सा अन्त्या मध्ये या-म्योत्तरवृत्तं क्षितिजं स्वाभितदेशक्षितिजवृत्तं तयोर्मध्ये-ऽन्तरालेऽहोरात्रवृत्तस्यैकदेशप्रदेशे ज्या उदयास्तसूत्र-याम्योत्तरसूत्रसम्पातादहोरात्रयाम्योत्तरवृत्तसम्पातावधि-सूत्ररूपा ज्यासूत्रानुकारा तु ज्या अहोरात्र-क्षितिजवृत्तसम्पातद्वयबद्धोदयास्तसूत्रस्याहोरात्रवृत्तव्यास-सूत्रत्वाभावात् अतएवोत्तरगोलेऽन्त्या त्रिज्याधिकासङ्गच्छते अभिधीयते गोलज्ञैः कथ्यते नन्वन्त्योपजी-व्यचरज्यैव किंस्वरूपा यया तत्सिद्धिरित्यत आह ज्ञे-येति “उन्मण्डलं विषुवन्मण्डलं परिकीर्त्त्यते” इतित्रिप्रश्नाधिकारोक्तेन द्वयोः शब्दयोरेकार्थवाचकत्वात्तिर्यगाधारवृत्तानुकारं स्थिरं निरक्षक्षितिजवृत्तमुन्मण्डलंक्षिनिजं स्वाभिमतदेशक्षितिजवृत्तमनयोरन्तरम् चकारोविशेषार्थकस्तुकारपरस्तेन तदन्तरालस्थिताहोरात्रवृत्तैक-देशस्यार्द्धज्यारूपमृजुसूत्रयोरन्तरविशेषात्मकम् तथा चस्वनिरक्षदेशस्वदेशयोरुदयास्तसत्रयोरन्तरमूर्द्ध्वाधरमिति फ-लितार्थः चरदलज्या तदन्तरालस्थिताहोरात्रवृत्तैकदे-शरूपचराख्यखण्डकस्य तु दलमर्द्धम् ज्या चर-ज्येत्यर्थः गोलज्ञैर्ज्ञातव्या” र० ना० ननु पूर्वश्लोक-द्वयोक्तं क्षितिजज्ञानं विना दुर्बोधमित्यतः श्लोकार्धेन क्षिति-जस्वरूपप्ताह “कृत्वोपरि स्वकं स्थानं मध्ये क्षिति-जमण्डलम्” स० सि० भूगोले स्वकं स्वीयं स्थानं भू-प्रदेशैकदेशरूपमुपरि सर्वपदेशेभ्य ऊर्द्ध्वं कृत्वा प्रकल्प्यमध्ये तादृशभूगोल ऊर्द्ध्वावःखण्डसन्धौ यद्वृत्तं तत् क्षि-तिजवृत्तं तदनुरोधेन दृष्टान्तगोले क्षितिजवृत्तं स्थिरंसंसक्तं कार्य्यमिति भावः” र० ना० अथैनं दृष्टान्तगोलंसिद्धं कृत्वास्य स्वत एव पश्चिमभ्रमो यथा भवति तथाप्रकारमाह “वस्त्रच्छन्नं बहिश्चापि लोकालोकेन वेष्टि-तभ् अमृतस्रावयोगेन कालभ्रमणमाधनम्” सू० सि० ।“बिहिः गोलोपरीत्यर्थः गोलाकारेण वस्त्रेण छन्नंछादितं दृष्टान्तगोलम् चकाराद्वस्त्रोपरि तत्तद्वृत्ताना-महनं कार्यम् लोकालोकेन वेष्टितं दृश्यादृश्यसन्धिस्थ-वृत्तेन क्षिनिजाख्येन संसक्तम् अपिः समुच्चये ।एतेन क्षितिजं वस्त्रच्छन्नं कार्यं किं तु वस्त्रोपरिक्षितिजं गोलसंसक्तं केनापि प्रकारेण स्थिरं यथा भ-वति तथा कार्य्यमिति तात्पर्यम् अमृतस्रावयोगेनैता-दृशं गोलं कृत्वा जलप्रवाहाधोघातेन कालभ्रमणसा-धनं षष्टिनाक्षत्रघटीभिर्दृष्टान्तगोलस्य भ्रमणं यथा भवतितथा साधनं कारणं कार्य्यं स्वयंवहगोलयन्त्रंकार्य्यमित्यर्थः एतदुक्तं भवति दृष्टान्तगोलं वस्त्रच्छन्नंकृत्वा तदाधारयष्ट्यग्रे दक्षिणोत्तरभित्तिक्षिप्तनलिकयोःक्षेप्ये यथा यष्ट्यग्रं ध्रुवाभिमुखं स्यात् ततो यष्ट्य-ग्रर्जुमार्गगतजलप्रवाहेण पूर्वाभिमुखेन तस्याधः पश्चाद्भागेघातोऽपि यथा स्यात् तथाऽस्य दर्शनार्थमेव वस्त्रच्छन्नत्वमु-क्तम् अन्यथा गोलवृत्तान्तरवकाशमार्गेण जलाघातद-र्शनभ्रमेण चमत्कारानुत्पत्तेः आकाशाकारतासम्पा-दनार्थमपि वस्त्रच्छन्नत्वमुक्तम् इदं वस्त्रमार्द्रं यथा नभवति तथा चिक्वणवस्तुना भस्मादिना लिप्तं कार्य्यम् ।क्षितिजवृत्ताकारेणाधो गोलो दृश्यो यथा स्यात् तथापरिखारूपा भित्तिः कार्य्या परन्तु दक्षिणयष्टिभाग-स्तत्र शिथिलो यथा भवति अन्यथा भ्रमणानुपपत्तेः ।पूर्वदिक्स्थपरिखाविभागाद्बहिर्जलप्रवाहोऽदृश्यः कार्य्यइत्यादि स्वबुध्यैव ज्ञेयमिति” र० ना० ।सि० शि० अत्र विशेषोऽभिहितो यथा“कृत्वादौ ध्रुयिष्टिमिष्टतरुजामृज्वीं सुवृत्तां ततो यष्टी-मध्यगतां विधाय शिथिलां पृथ्वीमपृथ्वीं बहिः बध्नी-याच्छशिसौम्यशुकतपनारेज्याकिभानां दृढान् गोनां-स्तत्परितः श्लथौ नलिकासंस्थौ खदृग्गोलकौ” सि० शि०“आदौ सारदारुमयीं यष्टिं कृत्वा तदर्द्धस्थाने तत्र प्रोताम्अपृथ्वीं सूक्ष्मां शिथिलां पृथ्वीं विधाय तस्या बहिश्चन्द्रा-दीनां गोलान् यष्ट्या सह दृढान् बघ्नीयात् तेषां बहि-र्नलिकासंस्थौ खदृग्गोलावितिंसाधारण्येनोक्तम्” प्रमि० ।इदानीं सविशेषमाह “पूर्पापरं विरचयेत् सममण्ड-लाख्यं याम्योत्तरं विदिशोर्वलयद्वयं ऊर्द्ध्वावएवमिह वृत्तचतुष्कमेतदावेष्ट्य तिर्यगपरं क्षितिजंतदर्वे” सि० शि० “एकं पूर्वापरमन्यद्याम्योत्तरं तथाकोणवृत्तद्वयमेवं वृत्तचतुष्टयमूर्द्धाधोरूपमावेष्ट्य तदर्धेवृत्तं क्षितिजाख्यं निवेशयेत् अत्र याम्योत्तरवृत्तउत्तरक्षितिजादुपरि पलांशान्तर एकं ध्रुवचिह्नं कार्यम् ।दक्षिणक्षितिजादधोऽन्यत् इदानीमुन्मण्डलमाह” प्रमि०“पूर्वापरक्षितिजसंगमयोर्विलग्नं याम्ये ध्रुवे पललवैःक्षितिजादधःस्थे सौम्ये कुजादुपरि चाक्षलवैर्ध्रुवेतदुन्मण्डलं दिननिशोः क्षयवृद्धिकारि” सि० शि० “सम-वृत्तक्षितिजयोर्यौ पूर्वापरौ संपातौ तयोर्ध्रुवचिह्नयोश्चसक्तं यन्निवध्यंते तदुन्मण्डलसंज्ञम् दिनरात्र्योर्वृद्धि-क्षयौ तद्वशेन भवतः इदानीं विषुवन्मण्डलमाह” प्रमि-“पूर्वापरस्वस्तिकयोर्विलग्नं खखस्तिकाद्दक्षिणतोऽक्ष-भागैः अधश्च तैरुत्तरतोऽङ्कितं षष्ट्यात्र नाडीवलयंविदध्यात्” सि० शि० “तयोरेव पूर्वापरसंपातयोर्विलग्नंतथा याम्योत्तरवृत्ते खखस्तिकाद्दक्षिणतोऽधःस्वस्तिका-दुत्तरतोऽक्षांशान्तरे यद्वृत्तं निबध्यते तद्विषुवद्वृत्तम् ।इदानीं दृङ्मण्डलमाह” प्रमि० “ऊर्द्धाधरस्वस्ति-ककीलयुग्मे प्रोतं श्लघं दृग्वलपं तदन्तः कृत्वा परि-भ्राम्य यत्र तत्र नेयं ग्रहो गच्छति यत्र यत्र” सि० शि०“खखस्तिके चाधःस्वस्तिके चान्तःकीलकौ कृत्वा तयोःप्रोतं श्लथं दृग्वलयं कार्यम् तत्तु पूर्ववृत्तेभ्यः किञ्चि-न्न्यूनं कार्यम् यथा खगोलान्तर्भ्रमति यद्येक एवग्रहगोलस्तदैकमेव दृङ्मण्डलम् यो यो ग्रहो यत्रयत्र वर्त्तते तत्र तस्योपरिगमेव परिभ्राम्य विन्यस्य दृग्-ज्याशङ्क्वादिकं दर्शनीयम् अथ वा पृथक् पृथगष्टौदृङ्मण्डलानि रचयेत् तत्राष्टमं वित्रिभलग्नस्य ।तच्च दृक्क्षेपमण्डलम् अथ विशेषमाह” प्रमि० ।“ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्वा रचयेत्तथाष्टौ दृङमण्डलं वित्रिभलग्नकस्य दृव्क्षेपवृत्ताख्य-मिदं वदन्ति” सि० शि० व्याख्यातमेवेदम् इदानीमेवंखगोलबन्ध्वप्रकारमुक्त्वा दृग्गोलबन्धप्रकारं दर्शयति ।“बद्धा खगोले नलिकाद्वयं ध्रुवद्वये तन्नलिकास्थमेव ।बहिः खगोलाद्विदवीत धीमान् दृग्गोलमेवं खलु वक्ष्य-माणम् भगोलवृत्तैः सहितः खगोलो दृग्गोलसंज्ञो-ऽपममण्डलाद्यैः दृग्गोलजातं खलु दृश्यतेऽत्र क्षेत्रंहि दृग्गोलमतो वदन्ति” सि० शि० “तस्मिन् खगोलेध्रुवचिह्नयोर्नलिकाद्वयं बद्धा तन्नलिकाधारमेव खगोला-द्वहिरङ्गुलत्रयान्तरे दृग्गोलं रचयेत् कथितैः खगोलो-वृत्तैर्बक्ष्यमाणैर्भगोलवृत्तैः क्रान्तिविण्डलाद्यैर्यो निबध्यतेस दृग्गोलः कथमस्य दृग्गोलसंज्ञेति तदर्थमाहदृभ्मोलजातमित्यादि यतोऽजादिकुज्यासमशङ्क्वाद्यक्ष-क्षेमाणि दृग्गोलजातानि भगीलवृत्तैः खगोलवृत्तमि-लितैस्तान्युत्पद्यन्ते भिन्नगोलबन्धे सम्यङ्नोपलक्ष्मन्तइति दृग्गोलः कृतः इदानीं भगोलबन्धमाह” प्रमि० ।“याम्य त्तरक्षितिजवत् सुदृढं विदध्यादाधारवृत्तयुगलंध्रुवयष्टिबद्धम् षष्ट्यङ्कमत्र सममण्डलवत् तृतीयं ना-ड्याह्वयं विषुवद्वलयं तदेव” सि० श० यथा खगोलेक्षितिजं याम्योत्तरं तदाकारप्रपरमांधारवृत्तद्वयं ध्रुब-यष्टिस्थं कृत्वा तदुपर्यन्यत् तृतीयं सममण्डलाकारं घटी-षष्ट्या चाङ्कितं कार्यम् तन्नाडीवृत्तं विषुवद्वृत्तसंज्ञंच” प्रमि० इदानीं क्रान्तिवृत्तमाह “क्रान्तिवृत्तं विधेयगृहाङ्कं भ्रमत्यत्र भानुश्च भार्धे कुभा भानुतः क्रान्ति-पातः प्रतीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्क-येत्” सि० शि० “अथान्यत् तत्प्रमाणमेव वृत्तं कृत्वातत्र मेषादिं प्रकल्प्य द्वादशराशयोऽङ्क्याः तत् क्रान्ति-वृत्तसंज्ञम् तस्मिन् वृत्ते रविर्भ्रमति तथा रवेर्भा-र्धाचरे भूभा तथा तत्र क्रान्तिपातो मेषादेर्विलोमंभ्रमति तथा ग्रहाणां विक्षपपाताः प्रस्फुटाः विलोप्रंभ्रमन्ति अतः क्रान्तिपातादीनां स्थानानि तत्राङ्क्यानि ।इदानीं क्रान्तिवृत्तस्य निवेशनमाह” प्रमि० ।“क्रान्तिपाते पाताद्भषट्कान्तरे नाडिकावृत्तलग्नं विद-ध्यदिदम् पाततः प्राक् त्रिभे सिद्धभागैरुदग्दक्षणे तैश्चभागैर्विभागेऽपरे” सि० शि० क्रान्तिपातचिह्नात् षड्-भेऽन्तरेऽन्यच्चिह्नं कार्यम् ते चिह्ने नाडीवृत्तेन संसक्तेकृत्वा पातचिह्नादग्रतस्त्रिभेऽन्तरे नाडीवृत्ताद्भागचतुर्विंश-त्योत्तरतो यथा भवति, अपरविभागे त्रिभेऽन्तरे दक्षिणतश्चतैर्भागैर्यथा भवति तथा बध्नीयात् इदानीं विमण्डल-माह” प्रमि० “नाडिकामण्डले क्रान्तिवृत्तं यथाक्रान्तिवृत्ते तथा क्ष्येवृत्तं न्यसेत् क्षेपवृत्तं तु राश्य-ङ्कितं तत्र क्षेपपातेषु चिह्नानि कृत्वोक्तवत् क्रान्ति-वृत्तस्य विक्षेपवृत्तस्य क्षेपपाते सषड्भे कृत्वा युतिम् ।क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्य-याम्ये न्यसेत् शीघ्रकर्णेण भक्तास्त्रिभज्यागुणाः स्युःपरक्षेपभागा गृहाणां स्फुटाः क्षेपवृत्तानि षण्णांविदध्यात् पृथक् खखवृत्ते भ्रमन्तीन्दुपूर्वा ग्रहाः”सि० शि० “अस्य सप्तग्रस्य व्याख्यानम् यथा क्रान्तिवृक्षंपृथक् कृतमेवं विमण्डलमपि राश्यङ्कं पृथक् कृत्वा तत्रमेषादेर्व्यस्तं स्फुटं क्षेपपातं दत्त्वाग्रे चिह्नं कार्यम् ।अथ क्रान्तिवृत्तस्य विमण्डलस्य क्षेपपातचिह्नयोःसंपातं कृत्वा तस्मात् षड्भान्तरेऽन्यं सपातं कृत्वाक्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्तिवृत्तादुत्तरतः स्फुटैः क्षेप-भागैःपृष्ठतश्च त्रिभेऽन्तरे तैरेव भागैर्दक्षिणतः स्थिरंकृत्वा विमण्डलं निवेशनीयम् अथ पठिता ये विक्षेप-भागास्ते त्रिज्यागुणाः शीघ्रकर्णेन भक्ताः स्फुटाः ज्ञेयाःअत्रानुपातः यदि कर्माग्र एतावन्तस्तर्हि त्रिज्याग्रेकियन्त इति यतो भगोले त्रिज्यैव व्यासार्धम् एवंचन्द्रादीनां षड्विमण्डलानि कार्या स्वस्वविमण्डलेग्रहा भ्रमन्ति इदानीं क्रान्थिं विक्षेपं चाह” मि० ।“नाडिकामण्डलात् तिर्यगत्रापमः क्रान्तिवृत्तावधिःक्रान्तिवृत्ताच्छरः क्षेपवृत्तावधिस्तिर्यगेवं स्फुटो ना-डिकावृत्तखेटान्तरालेऽपमः” सि० शि० क्रान्तिवृत्ते यत्स्फुटग्रहस्थ नं तस्य क्रान्तिवृत्ताद्यत् तिर्यगन्तरं सविक्षेपः अथ विमण्डलस्थग्रहस्य नाडिवृत्ताद्यत्तिर्यगन्तरं सा स्फुटा क्रान्तिः इदानीं क्रान्तिपातमाह”प्रमि० “विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् ।तद्भनणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे अयनचलनं यदुक्तं मुञ्जालाद्यैः एवायम् तत्पक्षे तद्भ-गणाः कल्पे गोऽङ्गर्तुनन्दगोचन्द्राः १९९६६९ तत्-संडातं पातं क्षिप्त्वा स्वेटेऽर्पमः साध्यः क्रान्ति-बशाच्चरमुदयाश्चरदललग्नागमे ततः क्षेप्यः” सि० शि० ।“क्रान्त्यर्थं पातः क्रान्तिपातः पातो नाम संषातःकयोः विषुवरक्रान्तिवलययोः तयोर्मेषादावेव सं-पातः किन्तु तस्मापि चलनमस्ति येऽयनचलन-भागाः प्रसिद्धास्त एव विलोमगस्य क्रान्तिपातस्य भागाः ।मेषादेः पृष्ठतस्तावद्भ गान्तरे क्रान्तिवृत्ते विषुवदवृत्तं लग्न-मित्यर्थः हि क्रान्विपातो नास्तीति वक्तुं शक्यते ।प्रत्यक्षेण तस्योपलब्धत्वात् उपलब्धिप्रकारमग्रे वक्ष्यति ।तत् कथं ब्रह्मगुप्तादिदिभिर्निपुणैरपि नोक्त इति चेत्तदा स्वल्पत्वात् तैर्नोपलब्धः, इदानीं बहुत्वात् साम्प्र-तैरुपलब्धः अत एव तस्य गतिरस्तीत्यवगतम् यद्येव-मनुपलब्धोऽपि सौरसिद्धान्तोक्तत्वादागमप्रामाण्येन भगण-परिध्यादिवत् कथं तैर्नोक्तः सत्यम् अत्र गणित-स्कन्ध उपपत्तिमानेवागमः प्रमाणम् तर्हि मन्दोच्च-पातभगणा आगमप्रामाण्येनैव कथं तैरुक्ता इति चवक्तव्यम् यतो ग्रहाणां मन्दफलाभावस्थानानि प्रत्य-क्षणैवोपलभ्यन्ते तान्येव मन्दोच्चस्थानानि यान्येवविक्षपाभावस्थानानानि तान्येव पातस्थानानि किन्तुतेषां गतिरस्ति नास्ति वेति सन्दिग्धम् तत्र मन्दोच्च-पातानां गतिरस्ति चन्द्रमन्दोच्चपातवदित्यनुमानेनसिद्धा सा कियती तदुच्यते यैर्भगणैरुपलब्धि-स्थानानि यानि गणितेनागच्छन्ति तद्भगणसम्भवा वार्षिकीदैनन्दिनी वा गतिर्ज्ञेया! नन्वेवं यद्यन्यैरपि भगणै-स्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेः प्रामा-ण्यम् सत्यम् तर्हि साम्प्रतोपलब्ध्यनुसारिणी कापिगतिरङ्गीकर्तव्या यदा पुनर्महता कालेन महदन्तरंभविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समान-धर्म्माण एवोत्पत्स्यन्ते ते तदुपलब्ध्यनुसारिणीं गति-मुररीकृत्य शास्त्राणि करिष्यन्ति अतएवायं गणित-स्कन्धो महामतिमद्भिर्धृतः सन्ननाद्यन्तेऽपि काले खिलत्वंन याति अतोऽस्य क्रान्तिपातस्य भगणाः कल्पेऽयुत-त्रयं तावत् सूर्य्यसिद्धान्तोक्ताः तथा मुञ्जालाद्यैर्यद-यनचलनमुक्तं एवायं क्रान्तिपातः ते गोऽङ्गर्तु-नन्दगोचन्द्रा १९९६६९ उत्पद्यन्ते अथ ये वाते वा भगणा भवन्तु यदा येऽंशा निपुणैरुपलभ्यन्तेतदा एव क्रान्तिपातः इत्यर्थः तं विलोमगं क्रा-न्तिपातं ग्रहे प्रक्षिप्य क्रान्तिः साध्या इदानीं विक्षेप-पातानाह” प्रमि० “एवं क्रान्तिविमण्डलसंपाताःक्षेपपाताः स्युः चन्द्रादीनां व्यस्ताः क्षेपानयने तु तेयोज्याः मन्दस्फुटो द्राक्प्रतिमण्डले हि ग्रहो भ्रम-त्यत्र तस्य पातः पातेन युक्ताद्गणितागतेन मन्द-स्फुटात् खेचरतः शरोऽस्मात् पातोऽथ वा शीघ्रफलंविलोमं कृत्वा स्फुटात् तेन युताच्छरोऽतः चन्द्रस्यकक्षावलये हि पातः स्फुटाद्विधीर्मध्यमपातयुक्तात्” सि०शि० “तथा क्रान्तिवृत्तविमण्डलयोः संपातः क्षेपपातःतं ग्रहे प्रक्षिप्य क्षेपः साध्यः एतदुक्तं भवति क्रा-न्तिपातः प्रसिद्धः यथा तं ग्रहे प्रक्षिप्य क्रान्तिःसाध्यते एवं विक्षेपपातं ग्रहे प्रक्षिप्य क्षेपः साध्यइत्यर्थः अथ विक्षेपपातो मन्दस्फुटे यत् प्रक्षिप्यतेतत्कारणमाह मन्दस्फुट इति यतः शीघ्रप्रति-मण्डले मन्दस्फुटगत्या ग्रहो भ्रमति तत्र वृत्तेपातोऽतो गणितागतं पातं मन्दस्फुटे प्रक्षिप्य क्षेपःसाध्यते शेषं स्पष्टम् इदानीं ज्ञशुक्रयोर्विशेषमाह”प्रमि० “ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्रके-न्द्रभगणैरधिका यतः स्युः स्वल्पाः सुखार्थमुदिताश्चल-केन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ चला-द्विशोध्यः किल केन्द्रसिद्ध्यै केन्द्रे सपाते द्युचरस्तु योज्यः ।अतश्चलात् पातयुताज्ज्ञभृग्वोः सुधीभिराद्यैः शरसिद्धि-रुक्ता स्फुटोनशीघ्रोच्चयुतौ स्फुटौ तयोः पातौ भगोलेस्फुट एव पातः” सि० शि० “ननु ज्ञशुक्रयोः शीघ्रोच्च-पातयुतिं केन्द्रं कृत्वा यो विक्षेप आनीतः शीघ्रोच्च-स्थान एव भवितुमर्हति ग्रहस्थाने यतो ग्र-होऽन्यत्र वर्तते अत इदमनुपपन्नमिव प्रतिभाति ।तथा ब्रह्मसिद्धान्तभाष्ये “ज्ञशुक्रयोः शीघ्रोच्चस्थानेयावान् विक्षेपस्तावानेव यत्रतत्रस्थस्थापि ग्रहस्य भवति ।अत्रोपलब्धिरेव वासना नान्यत् कारणं वक्तुं शक्यतइति” चतुर्वेदेनाप्यनध्यवसायोऽत्र कृतः सत्यम् ।अत्रोच्यते येऽत्र ज्ञशुक्रयोः पातभगणाः पठितास्ते शीघ्र-केन्द्रभगणैयुताः सन्तस्तद्भगणा भवन्ति तथा माध-वीये सिद्धान्तचूडामणौ पठिताः “अतोऽल्पभगणभवःपातः स्वशीघ्रकेन्द्रेण युतः कार्यः, शीर्घ्रोच्चाद्ग्रहेशोधिते शीघ्रकेन्द्रम् तस्मिन् सपाते क्षेपकेन्द्रकरणार्थंग्रहः क्षेप्यः अतस्तुल्यशोध्यक्षेपयोर्नाशे कृते शीघ्रोच्च-पातयोग एवावशिष्यत इत्युपपन्नम् ।किञ्च मन्दस्फुटोनं शीघ्रोच्चं प्रतिमण्डले चलकेन्द्रम्तत्पाते क्षेप्तुं युज्यते एवं कृते सति विक्षेपकेन्द्रंमन्दफलेनान्तरितं स्यात् ग्रहच्छायाधिकारे “सितज्ञपातौस्फुटौस्तश्चलकेन्द्रयुक्तौ” इत्यत्र मन्दस्फुटोनं शीघ्रोच्चशीघ्रकेन्द्रपाते क्षिप्तम् अतस्तत्र मन्दफलान्तरमङ्गीकृत-मित्यर्थः इतरकेन्द्रस्यानुपपत्तेः अतो मन्दफलं पाते-ऽव्यस्तं देयम् यतोऽनुपातसिद्धं चलकेन्द्रं मध्यग्रहो-नशीघ्रोच्चतुल्यं भवति यत्तु भगोले क्रान्तिवृत्तं तत्कक्षावृत्तम् तत्र यद्विमण्डलं तत्र स्फुटग्रहः तत्स्फुटपातयोगो हि विक्षेपकेन्द्रम् अतः स्फुटपात-स्थाने संपातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटीकृतैः परम-विक्षेपांशैः प्राग्वदुत्तरे दक्षिणे विन्यस्यम् तथान्यस्ते विमण्डले स्फुटग्रहस्थाने विक्षेपः स्फुटविक्षेपेणगणितागतेन तुल्यो दृश्यते नान्यथेत्यर्थः इदानीं ग्रह-गोले विशेषमाह” प्रमि० “ग्रहस्य गोले कथिताप-मण्डलं प्रकल्प्य कक्षावलयं यथोदितम् निबध्य शीघ्र-प्रतिवृत्तमस्मिन् विमण्डलं तत् पठितैः शरांशैः मध्यो-ऽत्र पातो द्युसदां ज्ञभृग्वोः स्वशीघ्रकेन्द्रेण युतस्तु देयः”सि० शि० “भगोल एव तावद्ग्रहगोलः कल्प्यः तत्रस्फुट एव पातः अथ यदि तदन्तर्ग्रहगोलोऽन्योनिबध्यते तदा तत्र यथोक्तं विषुवद्वृत्तं क्रान्तिवृत्तं चबद्ध्वा तत् क्रान्तिवृत्तं कक्षामण्डलं प्रकल्प्य तत्र छेद्यकोक्त-विधिना शीघ्रप्रतिमण्डलं बद्ध्वा तत्र प्रतिमण्डले गणिता-गतं पातं मेषादेर्विलोमं गणयित्वा तत्र चिह्नं कार्यम्अथ त्रिज्याव्यासार्धमेवान्यद्वृत्तं राश्यङ्कं विमण्डलाख्यंकृत्वा तत्रापि मेषादेर्व्यस्तं पाताग्रे चिह्नं कृत्वा प्रति-मण्डलविमण्डलयोः पातचिह्ने प्रथमं संपातं ततोभार्द्धान्तरे द्वितीयं संपातं कृत्वा पातादग्रतः पृष्ठतश्चत्रिभेऽन्तरे परमविक्षेपांशैः पठितैः प्रतिवृत्तादुत्तरे दक्षिणेच विमण्डलं विन्यस्यम् तत्र मन्दस्फुटगत्या पारमा-र्थिको ग्रहो भ्रमति अतो मेषादेरनुलोमं मन्दस्फु-टो विमण्डले देयः तत्रस्थः प्रतिमण्डलाद्यावता-न्तरेण विक्षिप्तस्तावांस्तत्प्रदेशे विक्षेपः यतो वृत्तसं-पातस्थे ग्रहे विक्षेपाभावः त्रिभेऽन्तरे परमो विक्षेपः ।मध्येऽनुपातेन अतो वृत्तसंपातग्रहयोरन्तरं ज्ञेयम् ।तदन्तरं पातग्रहयोगे कृते भवति पातस्य विलोम-गत्वात् योगः शरार्थं केन्द्रम् यदि त्रिज्या-तुल्यया केन्द्रज्यया परमः शरस्तदाभीष्टयाऽनया इतिफलं प्रतिमण्डलविमण्डलयोस्तिर्यगन्तरं स्यात् विम-ण्डलस्थग्रहाद्यद्भूमध्यगं सूत्रं तद्भूग्रहान्तरम् चशीध्रकर्णः यदि भूमध्यात् कर्णाग्रे एतावान् विक्षेप-स्तदा त्रिज्याग्रे कियानिति द्वितीयं त्रैराशिकम् ।आद्ये त्रिज्या हरी द्वितीये गुणस्तयोर्नाशे कृते केन्द्र-ज्यायाः परमशरगुणायाः कर्णो हरः फलं कक्षावृत्तसूत्रयोस्तिर्यगन्तरम् स्फुटः शरः इदानी-महोरात्रवृत्तमाह” प्रमि० “ईप्सितक्रान्तितुल्येऽन्तरेसर्वती नाडिकाख्यादहोद्यत्रवृत्ताह्वयम् तत्र बद्ध्वाघटीनां षष्ट्याङ्कयेदस्य विष्कम्भखण्डं द्युजीवा मता”सि० शि० “नाडीवृत्तादुत्तरतो दक्षिणतो वा सर्वत इष्ट-क्रान्तितुल्येऽन्तरे यद्वृत्तं निबध्यते तदहोरात्रवृतम् ।तेन वृत्तेन तस्मिन् दिने रविर्भ्रमतीत्यर्थः तस्य वृत्तस्यव्यासार्धं द्युज्या इदानीमन्यदाह” प्रमि० “अथकल्प्या मेषाद्या अनुलोमं क्रान्तिपाताङ्कात् एवांमेषादीनां द्युरात्रवृत्तानि बध्नीयात् नाडीवृत्तो-भयतस्त्रीणि त्रीणि क्रमोत्क्रमात् तानि” सि० शि० ।क्रान्तिपाताङ्कादारभ्य त्रिंशता त्रिंशता भागैरन्यान् मे-षादीन् प्रकल्प्य तदग्रेपूक्तवदहीरात्रवृत्तानि बध्नीयात् ।तानि नाडीवृत्तस्योभयतस्त्रीणि त्रीणि भवन्ति ।तान्येब क्रमीत्क्रमतः सायनांशार्कस्य द्वादशराशीनाम्”प्रमि० “एष भगोलः कथितः खेचरगोलोऽयमेव-विज्ञेयः अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव ।शन्यादीनां कक्षा बध्नीयादूर्ण्णनाभजालाभाः बद्ध्वा भगो-लमेवं यष्ट्यां यष्टिं खगोलनलिकान्तः प्रक्षिप्य भ्रम-येत्तं यष्ट्याधारं स्थिरौ खदृग्गोलौ” सि० शि० ।“यथायं भगोलोबद्धस्तथैव ग्रहगोलाअपि बन्धनीयाः ।किन्तु तेषां छेद्यकमन्तश्चालयितुं नायातीति बहिःस्थमेव-दर्शनीयम् अथ वा भगोले यदपमण्डलं तस्याध्रोऽध-स्तन्निबद्धैः सूत्राधारैर्बद्ध्वा शन्यादीनां कक्षा दर्शनीयाः ।एवंविधं भगोलं यष्ट्यां दृढं बद्ध्वा यष्ट्यग्रयोः प्रोतेनलिकाद्वये निबद्धौ खगोलदृग्गोलौ कृत्वा भगोलभ्रमणंदर्शयेत्” प्रमि० ।तदयं खगोलस्थपदार्थसंक्षेपः ।कटाहद्वितयवत् सम्पुटाकारस्यान्तरवकाशवतो ब्रह्मा-ण्डस्य मध्ये सूर्यकिरणसञ्चारावधिर्व्योमकक्षा तदवःनक्षत्रकक्षा तदधः क्रमेण दृश्याः पूर्वगाः शनिजीवकुज-सूर्य्यशुक्रबुधशशिनः अदृश्याश्च राहुपातादयः पश्चिम-गतयः, वक्ष्यमाणस्वस्वकक्षायां स्थिताः अश्विन्यादिन-क्षत्राणि स्थिराण्यपि तत्समुदायात्मकं भचक्रंपश्चाद्गतिमता प्रवहवायुनाऽभिहतं पश्चात् भ्रमत्नाक्षत्रषष्टिघटिकाभिः भूगोलमेकवारं भ्रमति तत्स्थारव्यादयः ग्रहाश्च स्वगत्या पूर्वयायिनोऽपि तदाधाराति-शीघ्रभचक्र पश्चाद्भ्रमणेन पश्चाद्भ्रमणभ्रमविषया भवन्ति ।राशिचक्रञ्च ३६० अंशैर्विभक्तमंशाश्च षष्टिकलाभि-र्विभक्ताः, कलाश्च षष्टिविकलाभिर्बिभक्तास्तेन ३६० अंशैः, २१६०० कलाभिः, १२९६००० विकलाभिर्विभक्तं भचक्रम् ।भचक्रद्वादशविभागोराशिरित्युच्यते राशयश्च मेषादयःद्वादशमिताः तेनेकैकराशौ त्रिंशदंशाः, १८०२ कलाः१०८०० विकलाः सन्ति मेषादिराशयोऽपि अश्विन्यादि २७नक्षत्रात्मकाः तेन सपादनक्षत्रेणैकैकोराशिः प्रतिनक्षत्रं च१३ २० विंशतिकलाधिकास्त्रयोदश अंशाः सन्ति तथाहिअश्विनी १३ २० भरणी १३ २० कृत्तिकाद्यप दश्च २०मेषः कृत्तिकान्त्यपादत्रयम् १० रोहिणी १३ २० ।मृगस्याद्यार्द्धञ्च ४० वृषः मृगस्यान्त्यार्द्धम् ४० आर्द्रा१३ २० पुनर्वस्वाद्यपादत्रयं १० मिथुनम् पुन-र्वस्वन्त्यपादः २० पुष्यम् १३ २० अश्लेषा १३ २० ।कर्कः मघा १३ २० पूर्वफल्गुनी १३ २० उत्तरफाल्गुन्या-द्यपादश्च २० सिंहः उत्तरफाल्गुन्यन्त्यपादत्रयं १० ।हस्तः १३ २० चित्राद्यार्द्धञ्च ४० कन्या चित्रा-न्त्यार्द्धं ४० स्वातिः १३ २० विशाखाद्यपादत्रयञ्च १० ।तुला विशाखान्त्यपादः २० अनुराधा १३ २० ज्येष्ठाच १३ २० वृश्चिकः मूलं १३ २० पूर्वाषाढा १३ २०उत्तराषाढाद्यपादश्च ३० धनुः उत्तराषाढान्त्यपादत्रयं१० श्रवणं १३ २० धनिष्ठाद्यार्द्धञ्च ४० मकरः ।धनिष्ठान्त्यार्द्धं ४० शतभिषा १३ २० पूर्वभाद्र-पदाद्यपादत्रयञ्च १० कुम्भः पूर्वभाद्रपदान्त्यपादः २० ।उत्तरभाद्रपदा १३ २० रेवती १३ २० मीनः उत्तरा-षाढायाः शेषपादश्रवणाद्यणिप्तिकाचतुष्टयस्याभिजित्संज्ञाकिञ्चित् कार्य्यार्था तस्य स्थानादि २८७ पृ० उक्तम् ।एते राशयः तत्रत्याश्विन्यादयश्च यथा पूर्वमवस्थिताःतेषां स्वरूपमश्लेषाशब्दे ४९९ पृ०, विक्षेपा ध्रुवकाश्च२४२३ पृ० दर्शिताः वक्ष्यमाणभचक्रयोजनानि द्वादशधाविभक्तानि मेषादिराशीनां स्थानमानयोजनानि ।२७ विभक्तानि अश्विन्यादिनक्षत्रादीनां स्थानमानयोजनानि ।३६० विभक्तानि अंशस्थानमानयोजनानि २१६०० विभ-क्तानि कलास्थानमानयोजनानि भचक्रस्य शन्याद्यूर्द्धस्थ-त्वात् तदाश्रितनक्षत्राणामप्यूर्द्ध्वस्थत्वम् भचक्रवत् भूगो-लस्य तावदंशकलाद्याद्यत्मकतया भूगोलांशकलादिस्थान-संलग्नसूत्रैकाग्रस्य निवेशने नक्षत्रकक्षायामंशकलाद्यात्मक-स्थानेषु सूत्राग्रान्तरस्य निवेशने तन्मध्यस्थानां शन्या-दिकक्षाणामंशकलादिस्थानविभागः भचक्रकलादिस्थानाधःस्थानानां तत्तद्राशितदंशकलाविकलाद्यात्मकत्वं गौणम्चन्द्रकक्षातोऽधः सिद्धविद्याधरघनाः क्रमेणाधोधःस्थिताः ।ते भूगोलात् द्वादशयोजनपर्य्यन्तमूर्द्धगामिनि आवहनाम्नि भूवायौ स्थितत्वात् प्रवहवाय्ववस्थानाभावाच्च नराशिचक्रगत्या पश्चात् गच्छन्ति तदधः भकक्षायाःसमानान्तरालाकाशप्रदेशरूपकेन्द्रस्थाने भूगोलः स्थितः ।भूगोलशब्दे बिवृतिः संक्षेपेणेह किञ्चिदुच्यते ब्रह्मणोधारणात्मकशक्त्याश्रयत्वात् निराधारः एवाकाशे स्थितः ।तस्य स्थिरत्वं भचक्रस्यैव चलत्वं परमतनिराशेन२४३३ पृ० समर्थितम् भूगोलमध्यगतोपेरुः भूगो-लादूर्द्धाधोनिर्गतः तत्र ऊर्द्धस्थे मेरौ देवानां वासः, अधःस्थे चासुराणाम् भूगोलः देवासुरभागतयाद्विधा विभक्तः तद्बिभाजकश्च महार्णव एव पृथिव्यामेखलेव चतुर्दिक्षु वेष्टनाकारेण स्थितः मेरुमध्यात् चतु-र्दिक्षु तुल्यभागेषु ९० अंशेषु समुद्रद्वीपमध्ये लङ्कादीनिभूभृवृत्तपाद १२४६ योजनान्तरदेशस्थितानि चत्वारिपुराणि यथा पूर्बस्यां भद्राश्ववर्षे यमकोटी ।दक्षिणस्यां भारतवर्षे लङ्का पश्चिमायां केतुमालवर्षेरोमकपुरी उत्तरस्यां कुरुवर्षे सिद्धपुरी ताभ्यःपुरीभ्यः (१२५६) योजनान्तरे देवाश्रयः मेरुरत्तरतःस्थितः असुराश्रयश्च तथैव दक्षिणतः विषुवस्थःसूर्य्यः तासाममुपरिगो याति तासु विषुवच्छा-यापातोनास्ति वा तदपेक्षयान्यत्राक्षस्योन्नतिःतत्रैब भचक्रस्य सर्व्वोन्नतत्वात् इत्यतस्तासां निर-क्षेति संज्ञा मेर्वोरुपरिस्थितैः ध्रुवतारे, मूर्द्धस्थिते निरक्ष-पुरीषु ते क्षितिसंलग्ने दृश्येते तत्स्थानात् उत्तरांगच्छतः क्रमशः उत्तरध्रुवः क्षितिजवृत्तादुन्नतो भवतिदक्षिणध्रुवश्च क्षितिमध्यप्रविष्टो भवति एवं दक्षिणांगच्छतः क्रमशः दक्षिणध्रुवस्योन्नतिः उत्तरध्रुवस्य नतत्वात्भूवृत्तेनाच्छादनम् भूवृत्तस्य ३६० अंशात्मकत्वेन निरक्ष-स्थानेभ्यः पादान्तरितस्थानस्थितत्वेन मेरौ ९० अंशाःअक्षांशाः तदन्तरदेशेषु त्रैराशिकेनानुपातात् अक्षांशाज्ञेयाः यदि ९० अंशेः १२५६ योजनानि तदा अंशेकिमिति किञ्चिन्यून १४ योजनैः एकोऽक्षांशः सौम्ययाम्ययोः सूर्यस्य भूवृत्तपञ्चदशांश एव निरक्षस्थानात्परमक्रान्त्यंशाः २४ तेन निरक्षस्थानात् १४ गुणिते२४ अंशे ३३६ एतद्योजनमितस्थानपर्य्यन्तं सूर्य्यस्यतयो-र्दिशोरुपरिगमनम् अवन्ती लङ्कातः क्षितिषोडशांशे३०१४ योजनान्तरे स्थिता तेन तत्र २२ १/२ अक्षांशाः ।ततः १/२ अंशान्तरिते २१ योजनान्तरितदेशपर्य्यन्तस्थितदेशोर्द्धगः सूर्य उत्तरायणान्तगो गच्छति ततःपूर्वस्यां पश्चाद्वा तत्समसूत्रपातस्थदेशेऽपि राशिचक्रञ्चनिरक्षदेशोपरि पश्चाद्गत्या भ्रमदपि देवासुराभ्यां सव्यापस-व्यगतिमत्तया, निरक्षदेशे क्षितिलग्नमध्यतया दृश्यते ।राशिचक्रमध्यस्थानमेव विषुबस्थानं तच्च सुरासुराणांक्षितिजवृत्तलग्नतया दृश्यम् तत्र भचक्रे मेषादिषट्क-मुतरोन्नतं तुलादिषट्कं दक्षिणनतमत उत्तरमेरुस्थ-देवैः मेषादिषट्कमेव दृश्यते तुलादिषट्कं तु भूवृत्ते-नाच्छादनात् दृश्यते दक्षिणमेरुस्थदैत्यैस्तु तुलादि-षट्कमेव दृश्यते मेषादिषट्कं तु भूवृत्ताच्छादनात् नदृश्यते अतो मेषादिषट्कस्थरविकाः षण्मासा देवानांदिनम्, सूर्यदर्शनयोग्यकालस्यैव दिनत्वात् तुलादि-षट्कस्थरविकाः षण्मासाः रात्रिः, सूर्य्यादर्शनयोग्य-कालस्यैव रात्रित्वात् दैत्यानां तु तुलादिषट्कस्थरविकाःषण्मासाः दिनं, मेषादिषट्कस्थरविकाः षण्मासा रात्रिः ।निरक्षदेशात् सौम्ययाम्ययोः ६६ अंशान्तरितदेशे तुद्वादशमासा एव दिनम् रात्रिर्नास्ति तद्वासिभिः सूर्य्यस्यसदा दर्शनात् तथाहि पूर्वापरयोरिव याम्यसौम्ययोरपिउभयत्र ९० अंशपर्य्यन्तदृष्टिप्रचारात् सौम्ययाम्ययोश्च२४ अंशपर्यन्तमेव रवेः परमक्रान्तेरुक्तत्वात् सौम्ये६६ अंशान्तरितदेशस्थानाम् याम्ये २४ अंशपर्य्यन्तरवेः-स्थितावपि मिलित्वा ९० रवेः अंशान्तरालस्थितत्वात्दृष्टियोग्यता एवं याम्ये ६६ अंशान्तरितदेशस्थाना-मपि सौम्ये २४ अंशपर्य्यन्तदेशोपरिगरवेर्दृष्टियोग्यता९० अंशमध्यस्थत्वात् सौम्ये निरक्षस्थानात् ६९ १/२०पलांशान्तरितदेशे धनुर्मकरराशी दृश्येते अतःधनुर्मकरस्थरविकौ द्वौ मासौ तत्र रात्रिः शिष्टादश मासादिनम् याम्ये तु तदंशस्थदेशे कर्कमिथुने नदृश्येते अतस्तत्र कर्कमिथुनस्थरविकौ द्वौ मासौ रात्रिःशिष्टादश मासा दिनम् निरक्षात् सौम्ये ७८ १/३अंशान्तरितदेशे वृश्चिकादिराशिचतुष्कं दृश्यते ।तेन तत्स्थरविकाश्चत्वारोमासा रात्रिः शिष्टा अष्टौमासा दिनम् याम्ये तु निरक्षात् तथान्तरितदेशे वृषा-दिचतुष्कं दृश्यते अतस्तत्स्थरविकाश्चत्वारो मासारात्रिः शिष्टा अष्टौ मासा दिनम् ।सौम्ययाम्यायनवृत्तयोः सम्पातस्थानं विषुवद्वयं तच्च निरक्षो-प्ररिगतम् अयनवृतञ्च सृष्टिमारभ्य मिथुनान्तात् ६६ कालेनप्राक् पश्चात् वा एवैकमंशमतीत्य चलतीति अयनशब्दे३३७ पृ० दर्शितम् अयनवृत्तचलनाच्च तत्सम्पातस्थानादिक-मपि भिद्यते इदानीञ्च पश्चात् २१ अंशचलनम् तेनमिथुनस्य नवमांशे उत्तरायणान्तकालः धनुषोनवमांशे चयाम्यायनान्तकालः तदनुसारेण तयोः सम्पातस्थानरूप-विषुवस्थानद्वयमपि भिन्नम् इदानीञ्च भीननवमांशे पूर्वविषुवस्थानं कन्यानवमांशे त्वपरविषुवस्थानम् एवं विषु-वायनमध्यगविष्णुपद्यादिस्थानमपि भिन्नम् अय-नञ्च द्विधा सौम्ययाम्यभेदात् मीननवमांशात् कन्या-नवमांशं यावत् सौम्यं, कन्यादशमांशात् मीननवमांशंयावच्च याम्यम् एते एवायने देवासुरयोर्दवारात्रि-विभाग दनरात्रिमानज्ञानोपयोगि मुख्यतया धनु-र्नवमांशात् मिथुननवमांशं यावत् सौम्यायनं मिथुननव-मांशात् धनुर्नवमांशं यावत् याम्यायनन्तु सौम्ययाम्यदिशोरर्कस्य गत्यारम्भकालतया चूडादिषु वर्ज्यावर्ज्यतयागोणं सौम्यायन एव चूडादेविधानात् याम्यायने तन्नि-वेवाच्च तथात्वमिति सि० शि० स्थितम् इदानीं मीननव-मांशरूपविषुवस्थाने भूवृत्ताद्विनिर्गतः सूर्य्यः क्रमेणमेषादीन् त्रीन् राशीन् ९० अंशान् मिथुननवमांशपर्य्यन्तम्उत्तरोत्तरमारोहन् देवानां पूर्वार्द्ध्वं सम्पादयति मिथुन-दशमांशात् कन्यानवमांशान्तञ्चावरोहन् अपरार्द्धम् एवंकन्थादशमांशात् धनुर्नवमांशान्तं यावत् सञ्चरन् दैत्याना-महः पूर्वार्द्धं सम्पादयति धनुषोदशमांशात् मीननवमांशंयावत् सञ्चरंश्च उत्तरार्द्धमिति विवेकः ।विधूर्द्धभागस्थितपितॄणाञ्च चान्द्रमासेनाहोरात्रम् ।तथाहि सूर्य्याचन्द्रमसोरेकराश्येवांशावच्छेदेन स्थिति-कालरूपामावस्या सूर्य्यस्य चन्द्रोपरिगतया तदानींतेषांमध्याह्नकालः अतएवामावस्यायां पितॄणां श्राद्धविधानम्स्वस्वमध्याह्नस्यैव भोजनकालत्वात् पौर्ण्णमास्याञ्चचन्द्रापेक्षया सप्तमराशिस्थतया सूर्यस्य तदा चन्द्राधावर्त्तमानतयाऽदृश्यत्वात् अर्द्धरात्रम् पुराणादौ चन्द्रात्सूर्य्यस्याधःस्थत्वकीर्त्तनमपि पितॄणां दृष्ट्या पौर्ण्णमास्य-भिप्रायेण तेन पञ्चदश्योरहोरात्रमध्यकालतया कृष्णा-ष्टम्यर्द्धसमये तेषां सूर्य्योदयः शुक्लाष्टम्यर्द्धकाले चास्त-मनमिति तद्दिनस्य चान्द्रमासरूपता ।निरक्षदेशात् भूवृत्तस्य पञ्चदशभागपर्य्यन्तमेव सूर्य्यस्यसौम्ययाम्ययोः परमक्रान्तेरुक्तत्वात् भूवृत्तपञ्चदशभाग ३३६योजनान्तरालोत्तरदेशे तदपेक्षया सूर्य्यस्य दक्षिणस्थत्वेछायाग्रमुत्तरम्, उत्तरस्थत्वेछायाग्र दक्षिणम् निरक्षात्याम्ये तथान्तराल ३३६ विभागस्थदेशे तदपेक्षया सूर्य्यस्यदक्षिणत्वे छायाग्रमुत्तरम् उत्तरत्वे छायाग्रं दक्षिणम् ।ततोऽधिकयोजनान्तरिते तु देशे, सूर्य्यस्य सौम्ययाम्यस्थ-त्वेऽपि सदा छायाग्रं विभाजकमेरुमुखम् तथा चसौम्ये तथाविधदेशे छायाग्रं सौम्यसेरुमुखं याम्ये तुयाम्यमेरुमुखमिति भेदः लङ्कापुरे यदा सूर्य्योदयः तदायमकोट्यां मध्याह्नः, भारताधःस्थे सिद्धपुरेऽस्तकालः, रोमकेऽर्द्धरात्रम् एवं सर्वत्र भूवृत्ते ऊर्द्धाधःस्थितदेशयो-रुदयास्तकालौ स्वस्वतिर्य्यक्पूर्वस्थितदेशे भूवृत्तपादान्तरितेमध्याह्नकालः, स्वस्वतिर्य्यक्पश्चात्तथास्थितदेशेऽर्द्धरात्रम् ।तदतरालस्यदेशानान्तुत्रैराशिकेनोदयास्तकाला वेदितव्याः ।इत्यवं राशिचक्रस्यानिशभ्रमणात् तद्गतसूर्य्यस्यापितद्वशात् भ्रमणन देशभेदेनैवोदयास्तादिकालव्यवस्था ।निरक्षदेशात् उत्तरमेरुं गच्छतः क्रमेण उत्तरध्रुवउन्नतो दृश्यते, दक्षिणस्तु भूवृत्तेनाच्छादनात् दृश्यते ।भचक्रमध्यं क्रमेण नतं दृश्यते सौम्यमेरुसन्निकृष्ट-देशात् निरक्षं गच्छतश्च उत्तरध्रुवः क्रमेण नतः, भचक्रञ्चक्रमेणोन्नतं दृश्यते एवं निरक्षात् दक्षिणमेरुं गच्छ-तश्च क्रमेण दक्षिणध्रुवः उन्नतः, भचक्रञ्च नतमुत्तर-ध्रुवस्तु भूवृत्तेनाच्छादनात् दृश्यते ततो निरक्षाभि-मुखं गच्छतश्च क्रमेण दक्षिणध्रुवो नतो भचक्रञ्चोन्नतंभवति तथा प्रवहवायुगोलस्थपूर्वापरविषुवद्वृत्ताधःस्थ-निरक्षदेशे ध्रुवयोः क्षितिलग्नत्वभ्रान्तिः, तत्र भचक्रस्यमस्तकोपरिभ्रमणं दृश्यते तेन मेर्वभिमुखं गच्छतःक्रमेण ध्रुव उच्चः, भचक्रं नीचमिति युक्तम् ।भचक्रस्येव तदधोऽधःस्थानां ग्रहकक्षाणामपि तत्तुल्यांश-कलाविकलाद्यात्मतयाऽङ्कने महत्याः कक्षाया अंशादेर्ब-हुस्थलात्मकत्वम्, अल्पकक्षायां अल्पस्थलात्मकत्वं, तेनमहाकक्षायां स्थितस्य बहुकालेन भगणपूर्त्तिर्लघुकक्षास्थितस्यखल्पकालेन अतोविधोः सर्वावोलघुकक्षानिष्ठत्वेन मासे-नैव भचक्रभ्रमणं, शनेस्तु सर्वोपरिमहाकक्षास्थितत्वात्३० वर्षैर्भचक्रभ्रमणम् एवमन्येषां तदन्तरालस्थितानांभचक्रभ्रमणकालविशेषः त्रैराशिकेन कल्पनीयः ।खकक्षादिमानयोजनानि अघोऽधःस्थग्रहकक्षामानयो-जनानि सू० सि० उक्तानि तासां भूमध्यस्थ चक्र ।खकक्षायाः १८७१२०८०८६४००००००नक्षत्रकक्षायाः २५९८९०००० उ० ४१३६२६५८शनिकक्षायाः १२७६६८२५५ उ० २०३१९०७१अदृश्यराहुकक्षायाः ८०५७२८६४गुरुकक्षायाः ५१३७५७६४ उ० ८१७६५३८अदृश्यचन्द्रमन्दोच्चकक्षायाः ३८३२८४८४कुजकक्षायाः ८१४६९०९ उ० १२९६६१९बुधशुक्रसूर्य्यकक्षाणाम् ४३३१५०० उ० सू० ३८९३७७अदृश्यशुक्रशीघ्रोच्चकक्षायाः २६६४६७७ उ० ४०४०८८अदृश्यबुधशोघ्रोच्चकक्षायाः १०४३२०९ उ० १६६०३३चन्द्रकक्षायाः ३२४००० उ० ५१५६६भूवृत्तपरिधेः ५० २६ स्थुलम् ४९६७ सूक्ष्मम्अगस्त्यादीनां भचव्रस्थितिस्थानांशविक्षेपास्तु सृ० सि०उक्ता यथा ।अगस्त्यः मिथुनान्ते भचक्रस्य ९० अंशे स्थितः मिथु-नान्तक्रान्तिवृत्तात् याम्ये ८० अंशास्तस्य विक्षेपः ।मृगव्याधः मिथुनविंशांशे भचक्रस्य ८० अंशे स्थितःतदीयक्रान्तिवृत्तात् ४० अंशास्तस्य याम्ये विक्षेपः ।वह्निनक्षत्रं वृषराशिद्वाविंशभागे भचक्रस्य ५२ अंशेस्थितम् तस्याष्टावंशाः स्वक्रान्तिस्थानात् उत्तरे विक्षेपः ।ब्रह्महृदयम् वृष २२ भागे भचक्रस्य ५२ भागे स्थितंस्वक्रान्तिवृत्तात् सोम्येऽस्य ३० अंशाः विक्षेपः ।एतच्च मिथुनान्तेऽयनांशकाले, अयनांशचलने तु अन्यत्रविक्षेपः ।रोहिणीशकटम् वृषराशिसप्तदशांशे भचक्रस्य ४७ अंशेस्थितं स्वक्रान्तिस्थानात् अंशद्वये याम्येऽस्य विक्षेपः ।ब्रह्मनामनक्षत्रम् वृषसप्तविंशांशे भचक्रस्य ५७ अंशे स्थितम्स्वक्रान्तिस्थानात् सौम्ये ३८ अंशा अस्य विक्षपः ।अपांवत्सनक्षत्रं चित्रातुल्यध्रुवके स्थितं चित्राविक्षेपात्अंशद्वयात् अंशाः सौम्ये अस्य विक्षेपः ।आपसंज्ञनक्षत्रं चित्रायामेव स्थितं अपांवत्सात् अंशा-न्तरेऽस्य सौम्ये विक्षेपः ।सप्तर्षयस्तु उत्तरस्यां स्थिताः विक्षपभेदस्तु सौरागमे नोक्तःतेषां शतवर्षैरकैकर्क्षभोगः वृ० स० उक्तः ऋषिशब्दे१४५१ पृ० विवृतिः ।अश्विन्यादीनां योगतारादिकमश्लेषाशब्दे ४९७ पृ० उक्तम्ध्रुवकविक्षेपास्तु २४५२ पृ० उक्ताः ।वीथिविवृतिः वृहत्संहितायां यथानागवीथिः अश्विनीभरणीकृत्तिकाःगजवीथिः रोहिणोमृगशीर्षाद्राःऐरावतवीथिः पुनर्व्वसुपुष्याश्लेषाःवृषभवीथिः मघादित्रयम्गोवीथिः हस्तादित्रयम्जरद्गववीथिः विशाखादित्रयम्मृगवीथिः मूलादित्रयम्अजवीथिः श्रवणादित्रयम्दहनवीथिः पूर्वभाद्रपदादित्रयम्सूर्य्यादिग्रहाणां ४३२०००० वर्षात्मकयुगे राशिचक्रभ्रमणसंख्या सू० सि० उक्ता यथारवेः ४३२०००० पूर्वगत्याबुधस्य ४३२०००० तथाशुक्रस्य ४३२०००० तथाअदृश्यभौमशीघ्रोच्चस्य ४३२०००० तथाअदृश्यगुरुशीघ्रोच्चस्य ४३२०००० तथाअदृश्यशनिशीघ्रोच्चस्य ४३२०००० तथाचन्द्रस्य ५७७५३३३६ तथाभौमस्य २५६८३२ तथाअदृश्यबुधशीघ्रोच्चस्य १७९३७०६० तथागुरोः ३६४२२० तथाअदृश्यशुक्रशीघ्रोच्चस्य ७०२२३७६ तथाशनेः १४६५६८ तथाअदृश्यचन्द्रमन्दोच्चस्य ४८८२१२ तथाअदृश्यराहोः (पातस्य) २३१२३८ पश्चाद्गत्याएत एव सहस्त्रगुणिताः कल्पे सूर्य्यादिभगणाः ।तत्र सि० शि० सूक्ष्मनमलानशेष उक्तः २४२९ पृ० दर्शितः ।कल्पे सूर्यमन्दोच्चादिभगणसंख्यासू० सि० मते सि० शि० मतेप्राग्गतेः सूर्यमन्दोच्चस्य ३८७ ४९०तथा कुजमन्दोच्चस्य २०४ २९२तथा बुधमन्दोच्चस्य ३७८ ३३२तथा जीवमन्दोच्चस्य ९०० ८५५तथा शुक्रमन्दोच्चस्य ५३५ ६५३तथा शनिमन्दोच्चस्य ३९ ३१पश्चाद्गतेः कुजपातस्य २१४ २६७तथा बुधपातस्य ४८८ ५२१तथा जीवपातस्य १७४ ६३तथा शुक्रपातस्य ९०३ ८९३तथा शनिपातस्य ६१२ ५८४कल्पादौ पातं धिहाय सर्वे ग्रहाः मीनान्ते मेघादौप्राग्गत्या स्थिताःपातस्तु विलोमगत्या तुलादौ स्थित इत्ति भेदः ।तदुत्तरकाले तु स्वस्वगत्यनुसारेण राशिकलादौ स्थितिः प्राभ्गत्यापश्चाद्गत्या वा बोध्या
चैत्रशुक्लप्रतिपदि शनिवारे कल्पारम्भःइदानीञ्च श्वेतवराहकल्पः तत्र वर्त्तमानकालपर्य्य-न्ताहर्गणानयनम् अहर्गणशब्दे ५७७ पृ० दर्शितरीत्याज्ञेयम् अस्य कलेश्च शुक्रवारे प्रवृत्तिः ।महायुगे नाक्षत्रादिदिनसंख्या सू० सि० उक्तानाक्षत्रदिनसंख्या १५८२२३७८२८सावनदिनसंख्या १५७१९१५७८२८चान्द्रदिनरूपतिथिसंख्या १६०३००००८०सूर्य्यादिबिम्बमानयोजनानि सि० शि० उक्तानिरवेर्बिम्बव्यासयोजनानि ६५२२चन्द्रमण्डलव्यासयोजनानि ४८०भूमण्डलव्यासयोजनानि स्थूलानि १६०० सू० सि० उक्तानि१५८१ सूक्ष्माणि सि० शि० उक्तानि योजने करमाना-ङ्गुलस्य षट्सप्ताष्टयवमितत्वभेदेन योजनसंख्याभेदः ।अन्येषां ग्रहाणां बिम्बमानं सौरागमे नोक्तम् ।कल्यादौ ग्रहाणां ध्रुवकाः २४३२ पृष्ठे उक्ता ग्रहाणांसावनदिने मध्यगतिमानं तत्रैव पृष्ठे उक्तं, मेषादौ सूर्यस्यसावनमानेन भोगकालः ४२३४, ३५ पृ० दर्शितःदशगुर्वक्षरोच्चारणकालः प्राणः असुरिति चोच्यते६ षड्भिः प्राणैः पलं विनाडी च, षष्ट्या पलैः नाडी-दण्ड इति चोच्यते षष्ट्या दण्डैर्नाक्षत्रमहोरात्रम् ।भचक्रस्य तावता कालेन भूवृत्तभ्रभणात् तस्य नाक्षत्रत्वम् ।सावनदिनं सूर्य्योदयाद्द्वितीयसूर्य्योदयपर्य्यन्तकालरूपम्तच्च नाक्षत्रदिनात् सूर्य्यस्य स्वाक्रान्ततत्तद्राश्यंशादिभोगकालाधिकम् सावनदिनमपि नाक्षत्रदिनवत्स्वपरिमाणानुसारिषष्टिदण्डात्मकमिति भेदः ।नक्षत्रचक्रस्य षष्ट्या दण्डैर्भूवृत्तभ्रमणेऽपि तस्य द्वादश-राश्यात्मकतया षष्टिदण्डमध्ये द्वादशराशीनामुदयः ।राश्युदयश्च स्वस्वदृष्टिगोचरकुजवृत्ते पूर्वस्यां प्राथमिक-दृष्टिगोचरयोग्यस्थानसम्बन्धः राशीनां मध्ये यस्य यत्-किञ्चित्कलाद्युदयः तस्योदय इति व्यवह्रियते राशि-चक्रस्य तिर्य्यक्स्थिततया देशभेदेन दृष्टियोग्यकालतार-तम्येन कालभेदेनैव मेषादीनामुदयः तु समकालेन ।तत्र निरक्षदेशषु मेषादीनामुदयासवः सू० सि० उक्ता यथाअसवः पलानि दण्डादि ।मेषस्य १६७० २७८।२/६, ४।३८।२/६वृषस्य १७९३ २९८।५/६ ४।५८।५/६मिथुनस्य १९३७ ३२२।५/६ ५।२२।५/६कर्कस्य १९३७ ३२२।५/६ ५।२२।५/६सिंहस्य १७९३ २९८।५/६, ४।५८।५/६कन्यायाः १६७० २७८।२/६, ४।३८।२/६तुलायाः १६७० २७८।२/६ ४।३८।२/६वृश्चिकस्य १७९३ २९८।५/६ ४।५८।५/६धनुपः १९३७ ३२२।५/६ ५।२२।५/६मकरस्य १९३७ ३२२।५/६ ५।२२।५/६कुम्भस्य १७९३ २९८।५/६, ४।५८।५/६मीनस्य १६७० २७८।२/६ ४।३८।५/६, मेषादीनामुदयकालभेदे कारणम् २४३६ पृ० दर्शितम्अन्यदेशेषु चरखण्डवशेन लग्नमानभेद उन्नेयः ।चरस्थानञ्च द्विविधं सौम्ययाम्यं पूर्वापरञ्च ।तत्र लङ्कातोमेरुपर्य्यन्तदेशः सौम्ययाम्यं चरस्थानं मध्य-रेखातः समसूत्रपातस्थपूर्वापरदेशः पूर्वापरचरस्थानम् ।चरखण्डानयनञ्च २४३६ पृ० दर्शितम् ।देशभेदेन सूर्य्योदयादिव्यवस्था सि० शि० उक्तालङ्कामारभ्य उत्तरमेकं नीयमाना रेखा अवन्तीकुरुक्षेत्रा-दिदेशान् स्पृशन्ती या याति सा मध्यरेखा मध्यरेखायांयदा सूर्य्योदयः तत्पूर्वदेशे ततः पूर्वमेव तदुदयः ततःपश्चिमे भागे तु पश्चात् तत्र यदि ६० घटीभिःभूवृत्तयोजनानि लम्यन्ते तदा रेखास्वपुरान्तरालयोज-नानि कियत्या घट्या इत्यनुपातेनोदयकालज्ञानम् ।सौम्यायने देवभागस्थदेशे दिवसो महान् तदुपरि सूर्य्यस्यगतत्वात्, रात्रिस्तु स्वल्पा याम्यायने देवभागे दिनंस्वल्पं रात्रिर्महती निरक्षे तु सर्वदैव अहोरात्रंसमानम् पूर्वप्रदर्शितप्रमाणकोदयकालकानां मेषादीनांमध्ये यंकञ्चिदारभ्य दिनारम्भे त्रिंशद्घटिकामानत्व-सिद्धेः तत्र मेषादौ देवभागस्थतया सूर्य्यस्यासन्नत्वात्तत्रत्यदेशे ग्रीष्मप्रधानता तुलादौ तु दैत्यभागस्थत्वात्सूर्य्यस्य विप्रकृष्टतया देवभागे शिशिरप्रधानता दैत्य-भागे तु वैपरीत्येन शिशिरग्रीष्मते द्वादशराशिषु मध्येद्वयोः सौम्ययाम्यायनसक्रान्ती द्वयोर्विषुवसंक्रान्तीअष्टसु विष्णुपत्यः संक्रान्तयः तथाहि विषुवायनयोर्मध्येद्वे विष्णुपद्याख्यौ संक्रान्ती तेन मेषारम्भे पूर्वविषुव-संक्रान्तिः वृषे विष्णु पदीसंक्रान्तिः मिथुनेऽपि विष्णुपदीसंक्रान्तिः तस्यांशविशेषे षडशीतिमुखं तेनेयं संक्रान्तिःषडशीतिमुखेऽतीते जायमानत्वात् षडशीतिरिति चभण्यते मिथुनान्ते कर्कादौ याम्यायनसंक्रान्तिः सूर्य्यस्यदक्षिणगतेरारम्भात् तस्य दक्षिणायनत्वं तच्च चूडादिषुवर्ज्यतया गौणम् सिंहे विष्णुपदी कन्यारम्भेविष्णुपदी प्राग्वत् षडशीतिरिति कथ्यते कन्यान्तेतुलादौ अपरविषुवसंक्रान्तिः तुलान्ते वृश्चिकादौ विष्णु-पदी, धनुरादौ विष्णुपदी प्राग्वत् षडशीतिरिति ।धनुरन्ते सौम्यायनसंक्रान्तिः सूर्य्यस्योत्तरगत्यारम्भात् ।तच्च चूडादौ विहितत्वेन गौणम् मकरान्ते कुम्भादौविष्णुपदी, कुम्भान्ते मीनादौ विष्णुपदी षडशीतिरिति कथ्यते षडशीतिमुखवञ्च षडशीत्यंश मिता-न्तरकालस्थित्या तथाहि तुलादितः षडशीतितमोऽंशःधनुषः षड्विंशोऽंशः तत्र प्रथमं तन्मुखम् तत आरभ्यमीनद्वाविंशेऽंशे द्वितीयं, ततोमिथुनस्याष्टादशांशे तृतीयंकन्यायाश्चतुर्द्दशांशे चतुर्थमिति भेदः अतश्चराचर-द्व्यात्मकराशिषु षडशीतिमुखसद्भावात् तिस्रः षडशीतयः ।सुरासुराणां दिनरात्रिविभागकारि अयनन्तु मेषादि-मारभ्य कन्यान्तं यावत् सौम्यायनं तुलादिमीनान्तं चयाम्यायनमिति भेदः संक्रान्तिश्च द्विविधा स्थिरा चलाच विवृतिरयनसंक्रान्तिशब्दे ३३९ पृ० दृश्या अयन-चलनवत् विषुवविष्णुपद्यादीनां चलनात् कालभेदेनराशिविशेषाद्यंशभेदेनैव तत्तत्संक्रान्तिर्भवति ।इदानीञ्च मीनस्य पश्चात् एकविंशांशे अर्थात् तन्नवमांशेविषुबारम्भः मिथुननवमांशे अयनारम्भः इत्येवंसर्वसंक्रान्तीनां तत्तदंशभेदे चलसंक्रान्तिरित्युन्नेयम् ।राशिचक्रस्य तत्स्थाश्विन्यादिसप्तविंशतिनक्षत्राणाञ्चएकस्यां रात्रौ दृष्टियोग्यता तथाहि सूर्य्यस्थ यस्मिन्राशौ यदंशादौ उदयः, ततः सप्तमे राशौ तथाविधांशादा-वस्तमनम् तेन सूर्य्याक्रान्तांशापेक्षया १८० भचक्रांशाःक्रमेण दिवसे उदिता अपि सूर्य्यकिरणाच्छन्नतयादिवसे दृष्टियोग्या अस्तमिते तु सूर्य्ये रात्र्यारम्भक्षणेते सर्वे पूर्वकुजवृत्तात् पश्चिमकुजवृत्तमध्य नतोन्नततयादृश्यन्ते यथा यदा मेषस्य प्रथमांशे सूर्य्योदयात् दिना-रम्भः ततः पूर्वस्था मेषावशिष्टांशाः, वृषादिराशिपञ्चकं१५० अंशात्मकं तुलायाः प्रथमांशाद्यार्द्धं क्रमेण दिने उद्ग-च्छति ततः रात्र्यारम्भे तुलायाः प्रथमांशद्वितीयार्द्धं, ततोधनुरादि पञ्चकम् १५० अंशात्मकं, मेषस्याद्यांशश्च क्रमेण रात्रौउद्गच्छति अत एकस्यां रात्रौ सर्वराशिचक्रांशदर्शनम् ।इयांस्तु विशेषः पूर्वकुजवृत्तात् स्वमस्तकोपरिस्थाकाश-भागरूपं खस्वस्तिकं यावत् ९० अंशात्मकं राशित्रयंमध्याह्नकालमध्ये क्रमेणोन्नतं भवति अपराह्णे तु तदेव९० अंशात्मकं राशित्रयं खस्वस्तिकात् पश्चिमकुजवृत्ताभिमुखंसत् नतं भवति उन्नतांशानां मध्ये यस्य यस्य स्वापेक्षयापूर्वस्थैकनवतितमांशस्योदयः तस्य तस्य नतिर्भवति ।नतांशानाञ्च मध्ये यस्य स्वापेक्षया १८१ पूर्वस्थैकाशी-त्युत्तरशततमांशस्योदयः तस्य तस्य पश्चिमकुजवृत्तेनाच्छा-दनादस्तत्वम् भवति राशिचक्रवत् तत्स्थानि अश्वि-न्यादीनि नक्षत्राणि तत्स्था भौमादिग्रहाश्च एकरात्रौदर्शनयोग्या भवन्ति अस्तंगतास्तु सूर्य्येण सह दिन एवउदिता अपि सूर्य्यकिरणाविभूततेजस्कत्वात् दृश्यन्ते ।कालशब्दे १९९१ पृ० दर्शितास्तांशमध्यवर्तिनस्तु सूर्य्यसन्नि-कर्षविशेषेण मन्दकिरणतया दृश्या अपि सम्यक्हश्यन्ते चन्द्रस्य दर्शने त्वयं विशेषः चन्द्रोहि जल-मयः तस्य स्वतोदीप्तिर्नास्ति तस्य दूरस्थितजलमयस्य दृष्ट्य-योग्यत्वात् सूर्य्यकिरणप्रवेशेनैव दीप्त्या दर्शनयोग्यतातन्मण्डलस्य सूर्य्याधःस्थितत्वेऽपि एकराश्येकांशावस्थिति-कालसूपामावास्यान्तकालात् क्रमेण सूर्य्यात् पूर्वगतस्यतिर्यग्रूपेण स्थितत्वात् तत्प्रवेशः तत्रापि ४८० यो-जनात्मक चन्द्रबिम्बस्य गोलाकृतितया सूर्य्याभिमुखार्द्ध एवसूर्य्यकरप्रवेशः नेतरार्द्धे तथा पूर्णिमान्तसमयएव तयोः सम्यक्तिर्य्यग्रूपेणं स्थितत्वात्तदानीमेव चन्द्र-बिम्बार्द्धे २४० योजनात्मके तत्करसंपूर्ण्णप्रवेशः पूर्णि-मान्तकालश्च सूर्य्याक्रान्तराश्यादितः भचक्रस्य १८० अंशस्थेचन्द्रे भवति पञ्चदशतिथिभिर्भवति तथा यदि१५ दिनैः १८० अंशगत्याकरप्रवेशपूर्त्तिकालः तदा एकेनदिनेन इत्यनुपातेन फलम् १२ अशाः यदि १८० अंशगत्या२४० योजनात्मकपूरणं तदा द्वादशांशगत्या किमत्यनुपातेनफलं १६ योजनात्मकं चन्द्रबिम्बार्द्धस्य पञ्चदशांशरूप्रकला-पूरणं लभ्यते ततश्च चन्द्रबिम्बार्द्धस्यपूर्वगतौ पञ्चदशांशात्मक१६ योजनरूपायाः कलायाः पश्चिमस्थ सूर्य्यापेक्षया तिर्य्य-क्स्थित्या सूर्य्यकिरणप्रवेशानुकूलतया तत्क्रियात्व मारो-प्यते पञ्चदशकलात्मकचन्द्रमण्डलस्य तु शुक्लप्रतिपद्यपिसूर्य्याक्रान्तांशादितो विभागानुकूलक्रियारूपनिःसरणस्यसत्त्वात् केवलैकादिमात्रकलाक्रिया, तथाङ्गीकारे चकेवलायास्तस्या विम्बं विहाय गत्यसम्भवात् नतन्निःसरणं सम्भवति वा दृश्यते दृश्यते चद्वितीयादौ सूर्य्याक्रान्तांशादिभ्योबहुदूरतया चन्द्र-बिम्बस्य स्थितिः किञ्च प्रथमादि दिने प्रथमादिकला-मात्रस्य पूर्वतोनिःसरणस्वीकारे चन्द्रविम्बस्य पूर्वादि-कलानामेव दृश्यतापत्तिः तथा दृश्यते प्रत्युतपश्चिमस्थकलानामेव क्रमशः दृष्टिर्जायते अतः सूर्य्य-किरणप्रवेशयोग्यत्वसम्पादिका तिर्य्यक्स्थित्यनुकूलैव प्रथ-मादिकलाक्रियेति वस्तुस्थितिः तत्रामावस्यान्त्यक्षणे सूर्य्या-क्रान्तराश्यंशादिसाम्येन तदधःस्थचन्द्रस्य सर्वथाऽदर्शनम्सूर्य्येण सह दिन एव तस्योदयात् ततः शुक्लप्रतिपदिद्वादशांशान्तरितत्वेन तस्य सूर्य्यात् पूर्व्वगत्या १६ योज-नात्मकचन्द्रबिम्बार्द्धकलायाः तिर्य्यक्स्थितत्वेऽपि काल-शब्दे १९९० पृ० दर्शितास्तांशमध्यवर्त्तित्वात् अस्तांशमध्य-वर्त्ति भौमादीनामिव दृष्टिः एवं कृष्णचतुर्द्दश्यामपिद्वादशांशान्तरित्वेन पश्चात्तिर्यक्स्थित्यापि दृष्टियोग्यता ।शुक्लद्वितीयायान्तु सूर्य्याक्रान्तराश्यंशात् दिनद्वयेन २४अंशान्तरितत्वेन पूर्व्वापेक्षया सूर्य्यादधिकतिर्य्यक्स्थित्या२४ योजनात्मकस्य चन्द्रबिम्बार्द्धपञ्चदशांशरूपकलाद्वयस्यसूर्य्यकिरणप्रवेशात् दृष्टियोग्यता एवं तृतीयादिष्वपिक्रमेण सूर्य्यकिरणप्रवेशाधिक्यात् अंशविशेषे दीप्तिपरि-वृद्धिः शुक्ले पक्षे सूर्य्यक्रान्तराशितः द्वित्रादिराश्य-न्तरितत्वेन स्थितस्य दिवोदितस्यापि चन्द्रबिम्बस्य सूर्य्य-किरणविशेषप्रवेशेऽपि सौरालोकेनाविभूतत्वात् धूम्रतयैवदृष्टियोग्यता पूर्णिमायान्तु चन्द्रस्य सूर्य्याक्रान्तराशितः१८० भचक्राशगत्या परमतिर्य्यक्स्थित्या सर्वकलासु २४०योजनात्मिकासु सूर्य्यकिरणप्रवेशः कृक्ष्णप्रतिपदि तु द्वा-दशांशान्तरितत्वेन सूर्य्यात् पश्चात् स्थित्या तिर्य्यग्गत्यल्पतया१५ योजनरूपप्रथमकलायां सूर्य्यकरप्रवेश इत्यतस्तस्यन दर्शनम् तत्र सूर्य्यकराप्रवेशनानुकूलतिर्य्यग्गतिभेदएव कृष्णपक्षीयकलाक्रियोत भेदः अधिकमिन्दुशब्दे९३० पृ० उक्तम् ।तिथिकरणयोगनक्षत्रवारेशादिस्वरूपादिकं तत्तच्छब्देदृश्यमितिदिक्